| YouTube Channel

सङ्क्रमणं (saGkramaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
सङ्क्रमणं,
क्ली,
(सं + क्रम + ल्युट् ।) गमनम् ।सूर्य्यस्य राश्यन्तरप्रवेशः यथा कालकौमुद्यांजावालिः ।“पूर्णे चेदर्द्धरात्रे तु रविसङ्क्रमणं भवेत् ।प्राहुर्दिनद्वयं पुण्यं त्यक्त्वा मकरकर्क्कटौ
”देवीपुराणे ।“रविसङ्क्रमणे पुण्ये स्नानायात् यस्तुमानवः ।सप्तजन्म भवेत् कुष्ठी दरिद्रश्चोपजायते
”इति तिथ्यादितत्त्वम्
(प्रापणम् यथा, हरिवंशे ३२ १६ ।“अत्रैवोदाहरन्तीमं भरद्धाजस्य धीमतः ।धर्म्मसङ्क्रमणञ्चापि मरुद्भिर्भरताय वै