| YouTube Channel

सङ्कुलं (saGkulaM)

 
शब्दकल्पद्रुमः
Sanskrit
सङ्कुलं,
क्ली,
(सङ्कुलतीति सं + कुलं संस्त्याने +इगुपधेति कः ।) युद्धम् इत्यजयः
(यथा, हरिवंशे ९१ ९५ ।“ततो बलेन महता गजानीकेन चाप्यथ ।उभयोरन्तरं ताभ्यां सङ्कुलं समपद्यत
”)परस्परपराहतवाक्यम् तत्पर्य्यायः क्लिष्टम् ।इत्यमरः
“द्वे पूर्व्वापरविरुद्धे वाक्ये यथा --‘यावज्जीवमहं मौनी ब्रह्मचारी पिता मम ।माता मम बन्ध्या स्यात् स्मरामोऽनुपमोभवान्
’कुलजबन्धुसंहत्योः संपूर्व्वः इजुङत्वात् कः ।क्लिश्यतेः क्तः क्लिष्टम् परस्परं पराहतंविरुद्धं परस्परपराहतम् तत्र सरस्वती-कण्ठाभरणे तु क्लिष्टलक्षणं यथा, --‘दूरे यस्यार्थसंवित्तिः क्लिष्टं नेष्टं हि तत्सताम् ।’यथा, --‘विजितात्मभवद्वेषिगुरुपादहतो जनः ।हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति
’अस्यार्थः विना गरुडेन जित इन्द्रस्तस्यात्म-भवोऽर्ज्जुनस्तस्य द्वेषी कर्णः तस्य गुरुः पितासूर्य्यः तस्य पादै रश्मिभिर्हतो जनो लोकःव्योम आकाशमभिनन्दति कीदृशं हिमापहो-ऽग्निस्तस्यामित्रं जलं तद्धारयन्ति ये तैर्मेघैर्व्या-प्तम् ।” इति तट्टीकायां भरतः
(सङ्कीर्णता ।यथा, महाभारते १४२ ३८ ।“एतस्मिन् सङ्कुले तात वर्त्तमाने भयङ्करे ।अतिभारात् वसुमती योजनानां शतं गता
”)
सङ्कुलं, त्रि, (सं + कुल संस्त्याने + कः ।) जना-दिभिर्निरवकाशम् तत्पर्य्यायः सङ्कीर्णम् ।आकीर्णम् इत्यमरः
कलिलम् गह-नम् इति केचित्
सङ्कीर्य्यते स्म जना-दिभिर्निरन्तरं व्याप्यते स्म सङ्कीर्णं कृश विक्षेपेक्तः संकुलति सङ्कुलं कुल बन्धुसंहत्योःसंपूर्व्वेजुङ्त्वात् कः संकुलं दन्त्यादि शकि-धातोरुले शङ्कुलं तालव्यादीति स्वामी ।आकीर्णं सङ्कीर्णवत् इति भरतः
(यथा, महाभारते ११३ २६ ।“ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् ।प्रभूतहस्त्यश्वयुतां पदातिरथसङ्कुलाम्
”)