| YouTube Channel

सङ्कीर्त्तनं (saGkIrttanaM)

 
शब्दकल्पद्रुमः
Sanskrit
सङ्कीर्त्तनं,
क्ली,
स्त्री,
(सं + कीर्त्त + ल्युट् ।) सम्यक्-प्रकारेण देवतानामोच्चारणम् गुणादि-कथनम् यथा, --“कृष्णवर्णं त्विषा कृष्णं साङ्गोपाङ्गास्त्रपार्षदम्यज्ञैः सङ्कीर्त्तनप्रायैर्यजन्ति हि सुमेधसः
”इति श्रीमद्भागवते ११ स्कन्धे अध्यायः
“रूक्षतां व्यावर्त्तयति त्विषा कान्त्या कृष्णंइन्द्रनीलमणिवदुज्ज्वलम् यद्वा त्विषा कृष्णंकृष्णावतारं अनेन कलौ कृष्णावतारस्य प्राधान्यंदर्शयति अङ्गानि हृदयादीनि उपाङ्गानिकौस्तुभादीनि अस्त्राणि सुदर्शनादीनि ।पार्षदाः सुनन्दादयः तत्सहितं यज्ञैरर्च्चनैः ।सङ्कीर्त्तनं नामोच्चारणं स्तुतिश्च तत्प्रधानैः ।सुमेधसो विवेकिनः ।” इति तट्टीकायां श्रीधर-स्वामी
*
तन्माहात्म्य यथा, --“सङ्कीर्त्तनध्वनिं श्रुत्वा ये चनृत्यन्ति मानवाः ।तेषां पादरजःस्पर्शात् सद्यः पूता वसुन्धरा
”इति बृहन्नारदीयपुराणम्
अपि ।“नामसङ्कीर्त्तनं यत्र कृष्णस्य परमात्मनः ।स्थानं तत्तु पवित्रं स्यान्मृतानां तत्तु मुक्तिदम्
”इति पद्मपुराणम्
*
प्रथमसङ्कीर्त्तनारम्भप्रमाणं यथा पुष्करतीर्थेनारदं प्रति ब्रह्मवाक्यम् ।“श्रीकृष्णरससङ्गीतं वीणाध्वनिसमन्वितम् ।कुरु वत्साधुनात्रैव शृण्वन्तु मुनयः सुराः
गोपीनां वस्त्रहरणं परं रासमहोत्सवम् ।ताभिः सार्द्धं जलक्रीडां हरेरुत्कीर्त्तनं कुरु
कृष्णसङ्कीर्त्तनं तूर्णं पुनाति श्रुतिमात्रतः ।श्रोतारञ्च प्रवक्तारं पुरुषैः सप्तभिः सह
यत्रैव प्रभवेद्वत्स ! तम्नामगुणकीर्त्तणम् ।तत्र सर्व्वाणि तीर्थानि पुण्यानि मङ्गलानि
तत्कीर्त्तनध्वनिं श्रुत्वा सर्व्वाणि पातकानि
दूरादेव पलायन्ते वैतनेयमिवोरगाः
तद्दिनं सफलं धन्यं यशस्यं सर्व्वमङ्गलम् ।श्रीकृष्णकीर्त्तनं यत्र तत्र वै नायुषोऽव्ययः
कृष्णसंकीर्त्तनस्थाने ये नृत्यन्ति वैष्णवाः ।तेषां पादरजःस्पर्शात् सद्यः पूता वसुन्धरा
उत्कीर्त्तनं भवेद्यत्र कृष्णस्य परमात्मनः ।स्थानं तच्च भवेत्तीर्थं मृतानां तत्र मुक्तिदम्
नात्र पापानि तिष्ठन्ति पुण्यानि सुस्थिराणिच ।तपस्विनाञ्च व्रतिनां व्रतानां तपसां स्थलम्
वर्त्तन्ते पापिनां देहे पापानि त्रिविधानि ।महापापोपपापातिपापान्येव स्मृतानि
कृष्णसंकीर्त्तनाद्ध्यानात्तन्मन्त्रग्रहणादहो ।मुच्यन्ते पातकैस्तैश्च पापिनस्त्रिविधा जनाः
”इति नारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैक-रात्रे महोत्सवारम्भो नाम १० अध्यायः