| YouTube Channel

सङ्कल्पः (saGkalpaH)

 
Hindi
Hindi
(पु) निर्णय, योजना, संकल्प,
Apte Hindi
Hindi
सङ्कल्पः
पुं*
- "सम् + कृप् + घञ्, गुणः, रस्य लः"
"इच्छाशक्ति, कामनाशक्ति, मानसिक दृढ़ता"
सङ्कल्पः
पुं*
- "सम् + कृप् + घञ्, गुणः, रस्य लः"
"प्रयोजन, उद्देश्य, इरादा, विचार"
सङ्कल्पः
पुं*
- "सम् + कृप् + घञ्, गुणः, रस्य लः"
"कामना, इच्छा"
सङ्कल्पः
पुं*
- "सम् + कृप् + घञ्, गुणः, रस्य लः"
"चिन्तन, विचार, विमर्श, उत्प्रेक्षा, कल्पना"
सङ्कल्पः
पुं*
- "सम् + कृप् + घञ्, गुणः, रस्य लः"
"मन, हृदय"
सङ्कल्पः
पुं*
- "सम् + कृप् + घञ्, गुणः, रस्य लः"
कोई धार्मिक कृत्य करने की प्रतिज्ञा
सङ्कल्पः
पुं*
- "सम् + कृप् + घञ्, गुणः, रस्य लः"
किसी ऐच्छिक पुण्यकार्य से फल की आशा
Shabdartha Kaustubha
Kannada
सम् + कृपू = सङ्कल्पः
पदविभागः - > धातुः
कन्नडार्थः - > ಮನೋವ್ಯಾಪಾರ /ಹೀಗೆ ಮಾಡುವೆನೆಂಬ ನಿರ್ಣಯರೂಪವಾದ ಮನಸ್ಸಿನ ವ್ಯಾಪಾರ
प्रयोगाः - > "सङ्कल्पितं प्रथममेव मया तवार्थे भर्तारमात्मसदृशं सुकृतिर्गता त्वम्"
उल्लेखाः - > शाकु० ४-१२
Wordnet
Sanskrit
Synonyms:
सङ्कल्पः, व्रतम्
noun
कस्यापि कार्यार्थे कृतः दृढः निश्चयः।
"छात्रैः अस्तेयस्य सङ्कल्पः कृतः।"
Synonyms:
कल्पना, सङ्कल्पः, भावना, विभावना
noun
मनसा कल्पितः।
"मूर्तिकारस्य कल्पना शिलां मूर्तस्वरूपं यच्छति।"
Tamil
Tamil
ஸங்கல்ப: : நோக்கம், மனவலிமை, குறிக்கோள், உத்தேசம், எண்ணம், விருப்பம், எண்ணம், நினைப்பு, கற்பனை, திட்டம்.
शब्दकल्पद्रुमः
Sanskrit
सङ्कल्पः,
पुं,
(सं + कृप + भावे घञ् गुणे कृतेरस्य लः ।) कर्म्मणो मानसम् इत्यमरः
“सङ्कल्प उक्तो हारीतेन यथा मनसा सङ्कल्प-यति वाचा अभिलपति कर्म्मणा चोपपादयतिइति भविष्यपुराणवचनेन ।‘सङ्कल्पेन विना राजन् यत्किञ्चित् कुरुते नरः ।फलञ्चाल्पाल्पकं तस्य धर्म्मस्याद्धक्षयो भवेत्
’इति ब्रह्मपुराणेनापि ।‘आशास्य शुभं कार्य्यमुद्दिश्य मनोगतम्’ ।इत्यगस्त्यपूजने उक्तम् मनोगतं शुभं फलंआशास्य मनसा सङ्कल्प्य उद्दिश्य वाचा अभि-लप्य कार्य्यं कर्म्मणा उपपाद्यम् भविष्ये ।‘शुक्तिशङ्खाश्महस्तैश्च कांस्यरूप्यादिभिस्तया ।सङ्कल्पो नैव कर्त्तव्यो मृण्मयेन कदाचन
गृहीत्वौडुम्बरं पात्रं वारिपूर्णं गुणान्वितम् ।दर्भत्रय साग्रमूलं फलपुष्पतिलान्वितम्
जलाशयारामकूपे सङ्कल्पे पूर्वदिङ्मुखः ।साधारणे चोत्तरास्य ऐशान्यां निक्षिपेज्जलम्
’अत्र केवलहस्तनिषेधस्तु पात्रान्तरसद्भाव-विषयः शङ्खादिसाहचर्य्यात् एकहस्तपरो वा ।“गृहीत्वौडुम्बरं पात्रं वारिपूर्णमुदङ्मुखः ।उपवासन्तु गृह्णीयाद् यद्वा वार्य्येव धारयेत्
”इति वराहपुराणदर्शनात् ।” इति तिथ्यादि-तत्त्वम्
*
सङ्कल्पश्च भावे मयैतर्त् कर्त्तव्य-मेव निषधे तु मयैतन्न कर्त्तव्यमिति ज्ञानविशेषः ।व्रतादीनां सङ्कल्पसम्भवत्वं यथा, --“सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः ।व्रता नियमधर्म्माश्च सर्वे सङ्कल्पजाः स्मृताः
”इत्येकादशोतत्त्वम्
तद्वाक्यरचना यथा, --“श्रीपद पूर्वमुच्चार्य्य ततो विष्णुपदं वदेत् ।ओँ तत् सदित्युच्चार्य्य नाम गोत्रं ततो वदेत्
तत इष्टप्रोतिकामो मूलबीजं समुन्नयेत् ।ततोऽस्याञ्च वरारोहे गङ्गास्नानमहं ततः
करिष्ये इति सङ्कल्प्य शिरःस्नानं समाचरेत् ।त्रिः स्नात्वा चञ्चलापाङ्गि ! इति -- वाक्यं सुरा-च्चिते !
अद्येत्याद्यस्य चार्वङ्गि ! रहस्यं प्रवदामि ते
”इति कामधेनुतन्त्रे ३२ पटलः
*
अपि अथ सङ्कल्पविधानम् ।“असङ्कल्पितमर्त्यो यन्न्यूनाधिकमथापि वा ।न सम्यक्फलभाग्भूयात्तस्मान्नियममाचरेत्
ताम्रपात्रं सदूवञ्च सतिलं जलपूरितम् ।सकुशञ्च फलैर्द्देवि ! गृहीत्वाचम्य कल्पतः
अभ्यर्च्च्य शिरःपद्मे श्रीगुरुं करुणामयम् ।यक्षेशवदनो वापि देवेन्द्रवदनोऽपि वा
मासं पक्षं तिथिञ्चैव देवपर्व्वादिकन्तथा ।आद्यन्तकालञ्च तथा गोत्रं नाम कामिनाम्क्रियाह्वयं करिष्येऽन्तमेवं समुतसृजेत् पयः
”इति योगिनीतन्त्रे प्रथमखण्डीयः पटलः
*
अन्यच्च शिवपूजायां मानससङ्कल्पो यथा, --“ततस्तु परमेशानि ! कृत्वा सङ्कल्पमानसम् ।यथापूर्व्वं महादेवि ! ब्रह्माण्डस्थितिमानसः
तथा भवतु सर्व्वाङ्गं इति सङ्कल्प्य मानसः ।न गोत्रं मम देवेशि ! नाम परमेश्वरि
माता परमेशानि पिता मम कामिनि ।तस्मिन् काले महेशानि मम सर्वं हि प्रिये
वारं तिथिं देवि तस्मिन् काले शुचिस्मितेन काष्ठां कलां देवि तस्मिन् काले वराननेन दिवा परमेशानि रात्रिं परमेश्वरि ।अतएव महेशानि सङ्कल्पं मानसं स्मृतम्
मानसं यदि आयाति तदा स्थानेन किं प्रिये ।सङ्कल्पं मानसं देवि चतुव्वर्गप्रदायकम्
स्थूलं हि परमेशानि सङ्कल्पं व्यर्थमुच्यते
सङ्कल्पेन विना देवि यत्किञ्चित् कृतवान्सुधीःतदुक्तं परमेशानि तत् सर्व्वं मानसं परम्
यदुक्तं परमेशानि मुनिना क्षुद्रबुद्धिना ।तत् सर्व्वं परमेशानि व्यर्थं भवति पार्व्वति ।इति सङ्कल्पमाचर्य्य जीवन्यासं समाचरेत्
”इति लिङ्गार्च्चनतन्त्रे पटलः