| YouTube Channel

सङ्कर्षणं (saGkarSaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
सङ्कर्षणं,
क्ली,
आकर्षणम् सम्यक्प्रकारेण कर्ष-णम् संपूर्व्वकृषधातोरनट्प्रत्ययेन निष्पन्नम्
(यथा, भागवते १० १३ ।“गर्भसंकर्षणात् तं वै प्राहुः सङ्कषणं भुवि
”एकीकरणम् इति स्वामी
यथा, भागवते ।५ २५ ।“तस्य मूलदेशे त्रिंशयोजनसहस्रान्तरे आस्तेया वै कला भगवतस्तामसी समाख्याता अनन्तइति सात्वतीया द्रष्टृदृश्ययोः सङ्कर्षणं अह-मित्यभिमानलक्षणं यं सङ्कर्षण इत्याचक्षते
”)