| YouTube Channel

सङ्करीकरण (saGkarIkaraNa)

 
शब्दसागरः
English
सङ्करीकरण
n.
(-णं)
1. Reducing to the state of the mixed or outcaste
tribes, causing loss of caste.
2. Blending, mixing.
3. Confusion,
either in kind, number, arrangement.
E.
सङ्कर a mixed-race, च्वि
augment, करण doing.
Capeller Eng
English
संकरीकरण
n.
degradation to a mixed caste.
Yates
English
सङ्करी-करण (णं) 1.
n.
Mixing
con-
fusion
causing loss of caste
killing animals.
Wilson
English
सङ्करीकरण
n.
(-णं)
1 Reducing to the state of the mixed or outcaste tribes, causing loss of
caste.
2 Blending, mixing.
3 Confusion, either in kind, number, or arrangement.
E.
सङ्कर a mixed race, च्चि augment, and करण doing.
Monier Williams Cologne
English
संकरी—करण
n.
mixing together, confusing (esp. illegal intermixture of castes or any similar illegality), Viṣṇ.
Benfey
English
संकरीकरण संकरीकरण, i. e.
संकर-कृ + अन,
n.
1. Mixing,
blending.
2. Causing loss of caste,
Man. 11, 68.
3. Confusion either in
kind, number, or arrangement.
Apte Hindi
Hindi
सङ्करीकरणम्
नपुं*
- -
जातियों का मिश्रण
शब्दकल्पद्रुमः
Sanskrit
सङ्करीकरणं,
क्ली,
(असङ्करः सङ्करः क्रियतेऽने-नेति सङ्कर + कृ + ल्युट् अभूततद्भावे च्वि ।)नवविधपापान्तर्गतपापविशेषः यथा, विष्णुः ।अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयंभवति परिग्रहप्रसङ्गेन विशेषाद्गृहाश्रमिणः ।तेनायमाक्रान्तोऽतिपातकमहापातकानुपात-कोपपातकेषु वर्त्तते जातिभ्रंशकरेषु सङ्कर-करणेष्वप्रात्रीकरणषु मलावहेषु प्रकीर्णकेषु ।तद्यथा, --“खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा ।सङ्करीकरणं ज्ञयं मीनाहिमहिषस्य
”तस्य प्रायश्चित्तं यथा, --“सङ्करापात्रकृत्यासु मास शोधनमैन्दवम् ।मलिनीकरणीयेषु तप्तः स्याद्यावकस्त्र्यहः
”तथा विष्णुः ।“ग्राम्यारण्याणां पशूनां हिंसा सङ्कीर्णोकर-णम् ।सङ्करीकरणं कृत्वा मासमश्नाति यावकम् ।कृच्छ्रातिकृच्छमथवा प्रायश्चित्तन्तु कारयेत्
”इति प्रायश्चित्तविवेकः
वाचस्पत्यम्
Sanskrit
सङ्करीकरण
न०
सङ्करः क्रियतेऽनेन च्वि + कृ--करणे ल्युट् ।पापभेदे तत्स्वरूपप्रायश्चित्तादिकं प्रा० वि० दर्शितं यथा“अथ सङ्करीकरणापात्रीकरणमलावहप्रायश्चित्तम् ।तत्र मनुः “खरोष्ट्राश्वमृगेभानामजाविकबधस्तथा सङ्क-रीकरणं ज्ञेयं मीनाहिमहिषस्य निन्दितेभ्यो ध-नादानं बाणिज्य शूद्रसेवनम् अपात्रीकरणं ज्ञेय-मसत्यस्य भाषणम् कृमिकीटवयोहत्यामद्यानुगत-भोजनम् फलैधःकुसुमस्तेयमधैर्य्यञ्च मलावहम्” ।मद्यानुगतभोजनं मद्यपानसमये यदुपस्थापितं फलमू-लादि अधैर्य्यं गीतश्रवणादि “अल्पेऽप्यचये अत्यन्तवैर-कृत्यमिति” कल्पतरुः “सङ्करापात्रकृत्यासु मासं शोध-नमैन्दवम् मलिनीकरणीये तु तप्तः स्यात् यावक-स्त्र्यहम्” तथा विष्णुः “ग्राम्यारण्यानां पशूनांहिंसा सङ्कीर्णकरम् सङ्कीर्णकरणं कृत्वा मासमश्नोतयावकम् कृच्छ्रातकृच्छ्रमथ वा प्रायश्चित्तन्तु कारयेत् ।निन्दितेभ्यो धनादानं बाणिज्यं कुशीदजीवनम्” असत्यंशूद्रसेवनमित्यपात्रीकरणं कृत्वा तप्तकृच्छेण शुद्ध्यति ।“शीतकृच्छ्रेण वा भूयोमाहासान्तपनेन वा” “पक्षिणांजलचराणाञ्च घातनं कृमिकीटघातनं मद्यानुगतभोजन-मिति मलावहानि” “मलिनीकरणीये तु तप्तकृच्छ्र स-माचरेत् कृच्छ्रातिकृच्छ्रमथ वा प्रायश्चित्तं विमोधनम् ।अत्र सङ्करीकरणे सकृत्करणे मासवकम अभ्यासे कृ-च्छ्रातिकृच्छम् अत्यन्ताभ्यासे चान्द्रायणम् अपात्री-करणे सकृत्करणे तप्तकृच्छ्रं चतुरहसाध्यम् शीत-कृच्छ्रो वा शीतकृच्छ्रे तप्तकृच्छ्रेतिकर्त्तव्यतैव किन्तुतदेव द्रव्यमत्र शातलमिति विशेषः अभ्यासे तु महा-सान्तपनम् अत्यन्ताभ्यासे चान्द्रायणम् मलावहेतु सकृदाचरणे त्र्यहयावकम् अभ्यास तु तप्तकृच्छ्रम् अत्यन्ताभ्यासे कृच्छ्रातिकृच्छ्रमिति यथायोग्यमूह्यम् एषु चतुर्षुयत्र यत्र प्रायश्चित्तविशेषो नोक्तस्तत्रैव एष बोद्धव्यः”