| YouTube Channel

सगरः (sagaraH)

 
Apte Hindi
Hindi
सगरः
पुं*
- -
एक सूर्यवंशी राजा
Wordnet
Sanskrit
Synonyms:
सगरः
noun
एकः इक्ष्वाकुवंशे जातः राजा यः रामस्य पूर्वजः तथा असितस्य पुत्रः आसीत्।
"कपिलेन सगरस्य षष्ट्यधिकाः सहस्राः पुत्राः भस्मीकृताः।"
शब्दकल्पद्रुमः
Sanskrit
सगरः,
पुं,
(गरेण सह वर्त्तमानः ।) अर्हद्भेदः ।इति हेमचन्द्रः
सूर्य्यवंशीयराजविशेषः तुअयोध्याधिपतिबाहुराजपुत्त्रः तस्योत्पत्त्यादियथा, --सूर्य्यवंशे महाराजी बाहुर्नाम महानभूत् ।तस्य राज्यं हृतं सर्व्वं हैहयैस्तालजङ्घकैः
काम्बोजाः पह्रवाश्चैव पारदा यवनाः शकाः ।एते पञ्चगणा ब्रह्मन् हैहयार्थे पराक्रमन्
हृतराज्यः वै विप्र तदा बाहुर्व्वनं ययौ ।पत्नी तु यादवी तस्य गुर्व्विण्यासीत् पतिव्रता
तत्सपत्नी पूर्व्वमेव तस्या गर्भजिघांसया ।भोजनेन सह प्रादात् गरं धर्म्मानवेक्षया
यादव्यास्तु तपोयोगात् गर्भो मैव ममार ।न ममार सा राज्ञी देवानामनुकम्पया
पतिं सानुययौ साध्वी सिषेवे तं वने सदा !स राजा विपिने तस्मिन् प्राणांस्तत्याज योग-वान्
सा तु भर्त्तुश्चितिं कृत्वा वने तामध्यरोहत ।और्व्वस्तां भार्गवस्तात कारुण्यात् समवारयत्
तस्याश्रमे सा गर्भं सुषुवे ज्वलनप्रभम् ।व्यजायत महाबाहुर्गरेणैव सह द्विज
सगरो नाम तेनाभूत् बालकोऽतिमनोहरः ।और्वस्तु जातकर्म्मादि तस्य कृत्वा महात्मनः
अध्याप्य वेदानखिलान् शस्त्राणि प्रत्यपादयत् ।आग्नेयन्तु महाघोरममरैरपि दुःसहम्
तेनास्त्रबलेनाजौ बलेन समन्वितः !हैहयांस्तालजङ्घांश्च जघ्न रुद्रः पशूनिव
जनयामास लोकेऽस्मिन् कीर्त्तिं कीर्त्ति मतांवरःततः शकान् सयवनान् काम्बोजान् पारदां-स्तथा ।पह्रवांश्चापि निःशेषान् कर्त्तुं व्यवसितो नृपः
ते हन्यमाना वारेण सगरेण महीजसा ।वशिष्ठं शरणं जग्मुः सूर्य्यवंशपुरोहितम्
वशिष्ठः शरणापन्नान् समये स्थाप्य तानृषिः ।सगरं वारयामास तेभ्या दत्त्वाभयं तदा
सगरस्तां प्रांतज्ञान्तु निशम्य सुमहाबलः ।धर्म्मं जघान तेषाञ्च वेशानन्यांश्चकार
अर्द्धं शिरः शकानान्तु मुण्डयामास भूपतिः ।यवनानां शिरः सर्व्वं काम्बाजानामपि द्विज
पारदान् मुक्तकेशास्तु पह्रवान् श्मश्रुधारिणः ।निस्वाध्यायवषट्कारान् सर्व्वानेव चकारह
कालिसर्पा माहिषका दार्व्वाश्चोलाः सकेरलाःखसास्तुषाराश्चीनाश्च मद्राः किष्किन्धका-स्तथा ।कोन्तलाश्च तथा बन्धाः शाम्बाः कोङ्कणका-स्तथा ।सर्व्वे ते क्षत्त्रियास्तात धर्म्मास्तेषां निराकृताः
पुराहितस्य वाक्यन कृता विकृतवेशिनः ।वश कृत्य सराजन्यान् स्वराज्यमन्वशासत
”इति पाद्मे स्वर्गखण्डे १५ अध्यायः
*
अपि ।“रोहिताच्च वृको जातो वृकाद्वाहुरजायत
सगरस्तस्य पुत्त्रोऽभूत् राजा परमधार्म्मिकः
द्वे भार्य्ये सगरस्यापि प्रभा भानुमती तथा ।ताभ्यामाराधितः पूर्व्व मौर्व्वोऽग्निः पुत्त्रकाम्ययाऔर्व्वस्तुष्टस्तुयाः प्रादात् यथेष्टं वरमुत्तमम् ।एका षष्टिसहस्राणि सुतमेकं तथा परा
गृह्णातु वंशकर्त्तारं प्रभा गृह्णाद्बहूं स्तथा ।एकं भानुमतीपुत्त्रमगृह्णादसमञ्जसम्
ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा ।खनन्तः पृथिवीं दग्धा विष्णुना येऽश्वमार्गणे
असमञ्जसस्तु तनयः अंशुमान् नाम विश्रुतः ।तस्य पुत्त्रो दिलीपस्तु दिलीपात्तु भगीरथः
येन भागीरथी गङ्गा तपः कृत्वावतारिता ।भगीरयस्य तनयो नाभाग इति विश्रुतः
”इति मात्स्ये १२ अध्यायः