| YouTube Channel

सक्तुः (saktuH)

 
शब्दकल्पद्रुमः
Sanskrit
सक्तुः,
पुं,
(सच्यते सिच्यते इति सच सेचने +“सितनिगमिमसिसचीति ।” उणा० ७० ।इति तुन् ।) भृष्टयवादिचूर्णः छातु इतिभाषा यथा, --“भृष्टा यवाः पुनर्धाना धानाचूर्णन्तु सक्तवः
”इति हेमचन्द्रः
अस्य गुणादिः तालव्यादिशक्तुशब्दे द्रष्टव्यः
(यथा, कथासरित्सागरे १२२ ।“एकः शरावः सक्तूनामेकः प्रत्यहमम्भसः ।शकटालस्य तत्रान्तः सपुत्त्रस्य न्यधीयत
”अर्द्धर्च्चादित्वात् क्लीवलिङ्गेऽपि दृश्यते
प्रायशोऽयं शब्दः बहुवचने प्रयुज्यते
)