| YouTube Channel

सकर्म्मकः (sakarmmakaH)

 
शब्दकल्पद्रुमः
Sanskrit
सकर्म्मकः,
पुं,
(कर्म्मणा सह वर्त्तमानः कप् ।)कर्म्मयुक्तधातुः कर्म्मान्वयिक्रियार्थकः यथा ।क्वचित् सकर्म्मकाद्धातोर्भावेऽपि क्रियाव्याप्ति-रस्ति यथा कां दिशं गन्तव्यम् इति मुग्ध-बोधटीकायां दुर्गादासः
(कर्म्मयुक्ते, त्रि ।यथा, भागवते २० ३२ ।“तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्म्मकेणकर्म्मणाराधयन्ति
“सकर्म्मकेण ब्रह्मसालो-क्यादिसाधनेन ।” इति तट्टीका
)