| YouTube Channel

सकरुणः (sakaruNaH)

 
शब्दकल्पद्रुमः
Sanskrit
सकरुणः, त्रि, (करुणया सह वर्त्तमानः !)करुणायुक्तः सदयः यथा, --“भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-मिति स्तोतुं वाच्छन् कथयति भवानि त्वमितियः ।तदैव त्वं तस्मै दिशसि निजसायुज्यपदवींमुकुन्दब्रह्येन्द्रस्फुटमुकुटनीराजितपदाम्
”इत्यानन्दलहरी