| YouTube Channel

संहितापाठे (saMhitApAThe)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ब्लेष्क दर्शने”@} 2 3 ‘बष्क दर्शने’ इति पूर्वलिखितस्य 4 धातोः क्षीरस्वामिसम्मतः पाठ एवम्।
अत्र क्षीरतरङ्गिण्याम्, ‘कर्तुरगाढत्वेऽपि ब्लेष्को वर्तना इत्येके।’ इत्युक्तम्।
एतेन ज्ञायते-- ‘ब्लेष्क दर्शने कर्तृशैथिल्ये’ इति संहितापाठे द्वावपि धातू मेलयित्वा केचित् पठन्ति
तदानीं कर्तुः अगाढत्वे = शैथिल्ये ब्लेष्कधा- तोर्वृत्तिं केचिदिच्छन्ति--इति।
एवञ्च दर्शने, कर्त्रगाढार्थे केचिदमुं धातुं पठन्तीति बोध्यम्।]] ब्लेष्ककः-ष्किका, बिब्लेष्कयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकगन्धयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(११३४)
02
=>
(१०-चुरादिः-१९१६। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(११०७)
05
=>
(३७५)