| YouTube Channel

संसृष्टी (saMsRSTI)

 
शब्दकल्पद्रुमः
Sanskrit
संसृष्टी, [न्]
पुं,
संसृष्टं संसृष्टत्वमस्यास्तीति ।इनिः ।) संसृष्टत्वविशिष्टः यथा, याज्ञ-वल्क्यः
“संसृष्टिनन्तु संसृष्टी सोदरस्य तु सोदरः ।दद्याच्चापहरेदंशं जातस्य मृतस्य
अन्योदर्य्यस्तु संसृष्टी नान्योदर्य्यो धनं हरेत् ।असंसृष्ट्यपि चादद्यात् संसृष्टो नान्यमातृजः
”इति दायतत्त्वम्