| YouTube Channel

संसारमोक्षणं (saMsAramokSaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
संसारमोक्षणं, त्रि, (संसारस्य मोक्षनं यस्मात् ।)भवतारकम् यथा, --“एवमेतन्महाशास्त्रं देवि ! संसारमोक्षणम् ।मम भक्तव्यवस्थायै प्रयुक्तं परमं मया
”इति वाराहे सुतस्वामिमाहात्म्यनामाध्यायः
*(संसारस्य मोक्षणम् ।) भवमोचने, क्ली ।तदुपाया यथा, --बलिरुवाच ।“संसारार्णवमग्नानां नराणामन्यचेतसाम् ।तरणे यो भवेत् पोतस्तन्मे व्याख्यातुमर्हसि
प्रह्लाद उवाच ।ये शङ्खचक्राब्जकरं तु शार्ङ्गिणंखगेन्द्रकेतुं वरदं श्रियः पतिम् ।समाश्रयन्ते भवभीतिनाशनंसंसारगर्त्तेन पतन्ति ते पुनः
वैकुण्ठं खण्डपरशुं भवबन्धसमुच्छिदम् ।प्रणिपत्य महात्मानं संसारे पुनर्भवेत्
ध्यायेत् दामोदरं यस्तु भक्तिनम्रोऽर्च्चयेत वा ।न संसारगर्त्तेऽस्मिन् मज्जते दानवेश्वर !
ये मानवा विगतरागपरावरज्ञानारायण सुरगुरुं सततं स्मरन्ति ।ते धौतपाण्डरपटा इव राजहंसाःसंसारसागरजलस्य तरन्ति पारम्
”इति वामने ९० अध्यायः