संविद्व्यतिक्रम (saMvidvyatikrama)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English संविद्व्यतिक्रम saMvidvyatikrama breach of promise
संविद्व्यतिक्रम saMvidvyatikrama violation of contract
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiसंविद्व्यतिक्रमः
संविद्-व्यतिक्रमः -
"प्रतिज्ञा भंग करना, संविदा का उल्लंघन"
वाचस्पत्यम्
Sanskritसंविद्व्यतिक्रम संविदाऽङ्गीकारस्य व्यतिक्रमा यत्र ।कृताङ्गीकारस्योल्लङ्घनहेतुके विवादभेदे वीरमि० तन्निरूपणंयथा “तस्य स्वरूप व्यतिरेकस्खेन दर्शयति” नारदः“पाषण्डनैगमादीनां स्थितिः समय उच्यते । समयस्या-नपाकम तद्विवादपदं स्मृतमिति” । पाषण्डाः वैदिक-मार्गद्वेषिणः क्षपणकादयः । नैगमाः सार्थिका वणिजइति मदनरत्ने । नैगमाः षेदप्रामाण्याभ्यु पगन्तारःपाशुपतादय इति मिताक्षरायाम् । आदिशब्देन विद्वद्-ब्रह्मणसमूहादीनां ग्रहणम् । समयस्यानपाकर्म व्य-तिक्रमः संमयापरिपालनमिति यावत् तद्व्यतिक्रम्य-माणं विवादपदम्भवतीत्यर्थः । तद्रूपयोग्यार्थमाहवृहस्यतिः “वेदविद्याविदा विप्राः तेषां वृत्ति०प्रकल्पयेत्” इति । याज्ञवल्क्योऽपि “राजा कृत्वा पुरेस्थानं ब्रह्मण्यं न्यस्य तत्र तु । त्रैविद्यं वृत्तिमद् ब्रू-यात् स्वघर्मः पाल्यतामिति” । ब्रह्मणानां समूहो ब्रह्म-ण्यम् । “ब्राह्मणमानववाडवाद्यदिति” पा० सूत्रेण यत् ।विद्या वेदा तिसृणां विद्यानां समाहारस्त्रिविद्यम् ।त्रिविद्यमधीते इति । तेषां वृत्तिं प्रकल्ययेदित्यस्या-ऽर्थो वृहस्पतिनैव विवृतः “अनाच्छेद्यकरास्तेभ्यः प्रद-द्याद् गृहभूमिकाः । युक्तभाव्यश्च नृपतिर्लेखयित्वास्वाशासनम्” इति । अनाच्छेद्यकराः अग्राह्य-कराः । एतदुक्तम्भवति । आगामिनृपतिभिरग्राह्य-कराः तेभ्यो सिसृष्टकराश्च गृहभूमिकाः प्रदद्यादिति ।एवं नियुक्तैर्यत्कर्तव्यं तदाह याज्ञवल्क्यः “निजधर्मा-विरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन सरक्ष्योधर्मो राजकृतश्च यः” इति । निजधर्माविरोधेन श्रौ-तस्मार्त्तकर्माविरोधेन सामयिकः समयान्निष्पन्नो यो धर्मोगोप्रचारोदकरक्षणदेवगृहपालनादिरूपः सोऽपि यत्नेनरक्षणीयः । यश्च राज्ञा कृतो निजधर्माविरोधेनैव यःसामयिको धर्मो यावत्पथिकम्भोजनन्देयमस्मदरातिम-ण्डले तुरगादयो न प्रस्थापनीया इत्येवंरूपः सोऽपियत्नेन रक्षणीय इत्यर्थः । वृहस्पतिरपि “नित्यं नैमित्तिकं काम्यं शान्तिकम्पौष्टिकन्तथा । पौराणां कर्म कु-र्य्युस्ते सन्दिग्धे निर्णर्य तथेति” । पौराणां पुरवासि-नामित्यर्थः । एवं राजनियुक्तसमुदायविशेषस्य कार्य्य-विशेष उक्तः । सर्वसमुदायाताञ्च कार्य्यमाह स एव“ग्रासश्रेणिगणानाञ्च सङ्केतः समयक्रिया । बाधाकालेतु सा कार्थ्या धर्मकार्य्ये तथैव च । चाटचोरभये वाधाःसर्वसाधारणाः स्मृताः । तत्रोपशमनं कार्य्यं सर्वेश्चैकेनकेनचिदिति” । गणानाञ्चेत्यत्र चशब्दः पाषण्डनैग-मादीनां समुच्चयार्थः । ततशच गणपाषण्डनैगमादीनांलमयकरणमन्तरेण यद्युपद्रवो दुःपरिहरः धर्मकार्य्यं चदुःसाध्यन्तदा पारिभाषिकी समयक्रिया सर्वोर्मलितैःकार्य्या । चाटोवृकः । चाटचोरादिभ्यो भये प्राप्तेतदुपशमनं सर्वैः कार्व्यमित्यर्थः । धर्मकार्य्यमपि सम्भूयकार्य्यमित्युक्तं तेनैव “मभाप्रपादेवगृहतटाकारामसंस्कतिः । तथाऽनाथदरिद्राणां संस्कारो यजनक्रिवा ।कुलायननिरोधश्न कार्य्यमस्माभिरंशतः । यत्रैतल्लिखितंपत्रे धर्म्या सा समयक्रिया । पालनीयाः समस्तैस्तैर्यःसमर्थो विसंवदेत् । सर्वस्वहरणं दण्डस्तस्य निर्वासनंयुरादिति” । समा मण्डपः । प्रपा पानीयशालिका ।आरासः उपवनम । संस्कतिः जीर्णोद्धारः । संस्कारउपनयनादिकः प्रेददहमादिकश्च । यजनक्रिया सोम-यागादिकर्त्तृभ्यो दानम । कुलायननिरोधः । कुलायनस्यदुर्भिक्षाद्यपगमपर्यन्तस्य धारणम् । कुल्यायनविरोधश्चेतिकल्पतरौ पाठः । कुल्यायननिरोधः कुल्यायाः प्रवर्त्तन-मप्रतिसन्धश्च । एवं कृता समुयक्रिया न केवलं सयुदायि-भिरेव पालनीया अपि तु राज्ञापि इत्याह नारदः“पाषण्डनैगनश्रेणिपूगव्रातगणादिषु । संरक्षेत् समयंराजा ष्टुर्गं जनपदे तथेति” । पाषण्डा । वेदोक्तलिङ्ग-धारणव्यतिरिक्ताः सर्वे लिङ्गिमः । तेषु विहित-भिक्षाचरणाद्याः सन्ति । नैगमाः सार्थिका वणिक्-प्रभृतयः । तेषु सकञ्चुकसन्देशहरपुरुषतिरस्कारिणोदण्ड्या इत्येवमादयोबहवः समया विद्यन्ते । अथ वानैगमाः आप्तप्रणेतृत्वेन ये वेदप्रामाण्यमिच्छान्त पाशु-पतादयः । श्रेणयः एकशिल्पोपजीविनः । तास्विदभनयैवश्रेण्या विक्रेयमित्येवमादिकाः समया वरीवर्त्तन्ते ।पूगा हस्त्यश्वारोहादयः । व्रातगणशब्दयारर्थमाहकात्यायनः “नानायुधधरा व्राताः समवेतास्तु की-र्त्तिताः । कुलानां हि समूहस्तु गणः सम्परिकीर्त्तितः”इति । पूगे व्राते वास्त्रमुत्सृज्य समरे न गन्तव्यमित्ये-वमादयः समया वर्त्तन्ते । गणे तु पञ्चमे दिने पञ्चमेवर्षे वा कर्णवेधः कर्त्तव्य इत्येवमादि समयः समस्ति ।गणादीत्यत्रादिशब्देन ब्रह्मपुरीनिविष्टस्य महाजनादेःपरिग्रहः । तत्र गुरुदक्षिणाद्यर्थमागता माननीय इ-त्यादिः समयोऽस्ति । दुर्गे तु धान्यादिकं गृहीत्वा अन्यत्रन तद्विक्रेयमित्यादिरस्ति समयः । जनपदे तु क्वचि-द्विक्रेतृसकाशाच्छुल्कग्रहणमित्याद्यनेकविधः समयोवरोवर्त्तते । तदेवं समयजातं यथा न भ्रश्यति तथाराजा कुर्य्यादित्यर्थः । समूहादिपुरुषविषये विशेषमाहवृहस्पतिः “कोशेन लेख्यक्रियया मध्यस्थैर्वा परस्परम् ।विश्वासं कृत्वा यः कुर्य्युः कार्य्याणि समनन्तरम्” इति ।कोशेन देवतास्नानोदकपानेन । लेख्यक्रियया समयप-त्रेण । मध्यस्थैः प्रतिभूभिः कार्य्याणि समूहतार्य्याणि ।एतदक्तं भवति । समुदायिभिः परस्परं समयातिक्र-माभावाय कोशादिभिर्विश्वासमुत्पाद्य सामयिककार्य्याणिकर्त्तव्यानीति । कात्यायनोऽपि “समूहानां तु यो धर्म-स्तेन धर्मेण ते सदा । प्रकुर्युः सर्वकर्माणि स्वधर्मेषुव्यवस्थिताः” इति । सामयिकधर्मनिजधर्मानतिक्रमेण स-र्वकार्य्याणि समुदायिनः कुर्युरित्यर्यः । याज्ञवल्क्योऽषि“निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपियत्नेन संरक्ष्यी धर्मो राजकृतश्च यः” इति । निजघर्मावि-रोधेनेत्यनेन निजधर्माविरोधी सामयिको धर्मा यथासन्व्यावन्दनवेलायां सर्वैरेव स्वव्यापारप्ररिहारेण, राज-भवनं प्रत्यागन्तव्यं यो नायास्यति प्रथमसाहसं दण्ड्यःइति नासौ रक्ष्य इत्यर्थादुक्तम् । कात्यायनोऽपि “अ-वरोधेन धर्मस्य निर्जितं राजशासनम् । तस्यैवाचरणंपूर्वं सर्त्तव्यन्तु नृपाज्ञयेति” । धर्मस्य श्रौतस्मार्त्तादिधर्मस्य निर्जितं कृतमित्यर्थः “राज्ञा प्रवर्त्तितान् धर्मान्यो नरो नानुपालयेत् । गर्ह्यः स पापो दण्ड्यश्च लोपयन् राजशासनम्” इति । विचित्रबुद्धिभिः समुदायिभिरनेकैरैकमत्येन कार्य्यकरणासम्भवात् द्वित्राः पञ्चवा कार्य्यचिन्तकाः कर्त्तव्या इत्याह वृहस्पतिः “द्वौत्रयः पञ्च वा कार्य्याः समूहाहतवादिनः । कर्त्तव्यंवचनन्तेषां ग्रामश्रेणिगणादिभिरिति” । कार्य्यचिन्त-केषु हेयोपादेयान्दर्शयति स एव “विद्वेषिणो व्यसनिनःशालीनालसभीरवः । लुब्धातिवृद्धबालाश्च न कार्य्याःकार्य्यचिन्तकाः । शुचयो वेदधर्मज्ञाः दक्षा दान्ताःकुलोद्भवाः । सर्वकार्य्यप्रवीणाश्च कर्त्तव्याञ्च महात्तमाः”इति । शालीनाः अधृष्टाः कार्य्यचिन्तकाः समुदायकार्य्यसाधकविचारकाः । कार्य्याचिन्तकानामपिसमूहहितवादिनां वचनं सर्वैः समूहिभिः कार्य्यामि-त्याह याज्ञवल्क्यः “कर्त्तव्यं वचनं सर्वैः समूहहित-वादिनाम्” इति । समूहप्रतिकूलस्य प्रथमसाहसंदण्ड इत्याह स एव “यस्तत्र विपरीतः स्यात् स दाप्यःप्रथमं दमम्” इति । प्रथमं पूर्वसाहसम् । कात्यायनो-ऽपि “युक्तियुक्तं वचो हन्याद् वक्तुर्योऽनवकाशतः ।अयुक्तञ्चव यो व्रूयात् स दाप्यः पूर्वसाहसम्” इति ।वृहस्पतिरपि “यस्तु साधारणं हिंस्यात् क्षिपेत्त्रैविद्यमेववा । सन्धिक्रियां विहन्थाच्च स निर्वास्यस्ततः पुरात्”इति । साधारणम् समुदायग्राह्यं दण्डादि द्रव्यम् ।हिंस्यात् । दण्ड्यादेः साहाय्यकरणान्नाशयेत् क्षिपेत् वातिरष्कुर्य्यादित्यर्थः । समूहिनामप्यधर्मेण द्वेषादिनाकार्य्यकरणे दण्डमाह स एव “बाधां कुर्युर्य एकस्यसम्भूता द्वेषसंयुताः । राज्ञा तु विनिवार्यास्ते शास्याश्चैवानुवन्धतः” इति । अनुबन्धतः निग्रहतारतम्यानुसारेण । मुख्यानाम्नपराक्षविशेषे दण्डविशेषमाह याज्ञ-वल्क्यः “गणद्रव्यं हरेद्यस्वु स विदं लङ्घवेच्च यः ।सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत्” इति । मुख्यदण्डने समूहस्यैवाधिकारः । अतएव कात्याद्धनः “साह-सी भेदकारी च गणद्रव्यविनाशकः । उच्छेद्याः सर्वएवैते विख्याप्यैव नृपे भृगुरिति” । नृपे विख्याप्य गणे-नोच्छेद्या इत्यर्यः । समूहाशक्तौ तस्य दण्डो राज्ञाविधयः । अतएव ममुः “यो ग्रामदेशमङ्घननां कृत्वासत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्र-वाद्धयेत् । निगृह्य दापयेच्चैगं समयष्यभिवारिणम् ।चतुःसुवर्णान् षण्णिष्काश्छतमानञ्च राजतम् । एवं द-ण्डविधिं कुर्य्याद्धार्मिकः पृथिवीपतिः । ग्रामजातिसमू-हेषु समयव्यभिचारिणाम्” इति । एतेषां प्रवासन-चतुः सुवर्णषण्णिष्कशतमानरूपाणाञ्चतुर्णां दण्डानाञ्चातिविद्यागुणाद्यपेक्षया व्यवस्था कल्पनीया । यत्तु कञ्चि-देतेषाञ्चतुर्णां दण्डानां क्रमेण ब्राह्मणादिचतुर्वर्ण-विषयत्वमित्याह तदज्ञानविलसितम् । एतादृशव्यवस्थायांप्रमाणाभावात् । ब्राह्मणस्य प्रवासन क्षत्रियादीनाञ्च-तुःसुवर्णादि दण्ड इत्यस्यानुचितत्वाच्च । मर्मोद्घाटका-दीनां पुरान्निर्वासनमेव दण्ड इत्याह वृहस्पतिः “अरु-न्तुदः सूचकश्च भेदकृत्साहसी तथा । श्रेणिपूगनृपद्विष्टःक्षिप्रं निर्वास्यते ततः” इति । अरुन्तुदः मर्मोद्घाटकः ।सूचकः पिशुनः । पिशुनौ खलसूचकावित्यभिधानात् ।भेदकृत् समुदायिषु वैमत्यकृत् । समूहस्थानान्निर्वास्यतेसमूहेनेति शेषः । न च समूहस्य दण्डकरणेऽनधिकारात्समूहेनेति शेषकरणमयुक्तमिति वक्तव्यम् । पूर्वोक्तकात्या-यनवचनेन समुहस्यैव मुख्यदण्डनेऽधिकारस्य प्रतिपा-दितत्वात् “पूगश्रेणिगणाध्यक्षाः पुरदुर्गनिवासिनः ।वाग्धिग्दण्डपरित्यागं प्रकुर्युः पापकारिणम् । तैःकृतं यत् सधर्मेण निग्रहानुग्रहं नृणाम् । तद्राज्ञ मनु-मन्तव्यं निसृष्टार्था हि ते स्मृताः” इति वृहस्पति-नामभिधानाच्च । वाग्दण्डः पापिष्ठोऽसीत्यादि भाष-णम् । धिग्दण्डोधिक्त्वामिति भाषणम् । परित्यागोऽस-द्व्यवहार्य्यत्व करणं निर्वासनं वा । उभयत्रापि लोकेपरित्यागशब्दप्रयोगदर्शनात् । एतच्चार्थदण्डादेरुपलक्ष-णार्थम् । निग्रहानुग्रहमित्येतेन पुनः साम्येनाभि-धानात् निसृष्टार्था अज्ञातकार्याः । नारदोऽपि “पृथग्-गणांस्तु ये भिन्द्युस्ते विनेया विशेषतः । आवहेयुर्भयंघोरं व्याधिवत्तेह्युपेक्षिता” इति । गणान् श्रेण्यादि-रूपान् । वृहस्पतिरपि “तत्र भेदमुपेक्षां वा यः कश्चित्-कुरुते नरः । चतुःघवर्णं षणिष्कांस्तख दण्डो विधी-यते” इति । मुवर्णचतुष्टयषण्णिष्कयोः शक्त्यादितारत-न्यानुनारेण गुणवदगुणवद्विषयत्वेन वा व्यवस्वा मन्तव्या ।पाषण्डादिसवसमूहेषु राज्ञा यथा वर्त्तितव्यन्तदाह ना-रदः “यो धर्मः कर्म यच्चैषामुपव्याटविधिश्च यः ।यच्चैषां प्रत्युपादानमभुमत्येत् तत्तथेति” । धर्मः सत्य-वदनादिः । कर्म प्रातःप्रर्धु षितमिक्षादनादिः उपस्यन-बिधिः षमूहकार्थार्थं मृदङ्गादिध्वनिमाकर्ण्यं मण्ड-पादौ मेसनम् । प्रत्थुपादानञ्जीवनाय तापसवेषपरि-ग्रहः । एषां पाषण्डिनामित्यर्थः । अन्यदपि राजकृत्यमाह स एव “प्रतिकूलरु यद्राज्ञः प्रकृत्या च मतञ्च यत् ।बाधकञ्च यदर्थानां तत्तेम्बोऽपि निवर्त्तयेत्” इति ।यद्राज्ञः प्रतिकूलम् “यथा यस्य राज्ञर्स्तु कुरुते शूद्रोधर्मविवेचगम् । तस्य प्रक्षुभ्यते राद्रं बलं कोशश्च नश्यति”इति । एवञ्च सार्थिकादिशूद्रविवादे घर्मविवेचनंच यद्राज्ञ इत्यस्योदाहरणम्मन्तव्यम् । प्रकृत्या स्वभा-वत एव मतम् अवज्ञातार्थं पाषण्डादिषु ताम्बू-लभक्षणादिकम् । यच्चार्थानां वाधकन्धननाशकचौरादि-संबाधादिकं तत्तेभ्योऽपि निवर्त्तयेत् । यथा ते न कुर्वन्तितथा कुर्व्यादित्यर्थः । अन्यदपि निवर्त्त्यमाह स एव“दोषंवत्करणं यत्स्यादनाभ्रायप्रकल्पितम् । प्रवृत्तमपितद्राजा श्रेयस्कामो निवर्त्तयेत्” । लोमादिदोषवत्करणश्रुतिस्मृतिविरुद्धं विधवादौ वेश्यात्वादिकं पाषण्डा-दिभिः प्रकल्पितम् । तद्बहुकालप्रवृत्तमपि राज्ञा निव-र्त्तनीयमित्यर्थः । त्रैविद्यानां प्रतिपादितं धर्मं श्रेण्या-दिष्वतिदिशति याज्ञवल्क्यः “श्रोणिनैगमपाषण्डिगणा-नीमप्ययं विधिः । भेदञ्चैषां नृपोरक्षेत् पूर्ववृत्तिं चपालयेत्” इति । समूहकार्यार्थमागताय यद्राज्ञा समूहपूजार्थं दत्तन्तद्यदि समूहायासौ न ददाति तदा त-द्दत्तं एकादशगुणं दाप्य इत्याह स एव “समूहकार्य्यआयातान् कृतकार्यान् विसर्जयेत् । सदानमानसत्कारैःपूजयित्वा महीपतिः । समूहकार्य्यं प्रहिता यल्लभेततदर्पयेत् । एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयम्” ।इति । यल्लभेत समूहसम्भाननार्थमिति शेषः । यतो रा-जदत्तं सर्वसाधाराणमतो यथांशतो विभागं कृत्वा ग्राह्यंनिस्वादिभ्यो वा दातव्यमित्याह वृहस्पतिः “ततो लभ्येतयत्किञ्चित् सर्वेषामेव तत्समम् । षण्मासिकं मासिकं वाविभक्तव्यं यथांशतः । देयं वा निःस्पवृद्धान्घस्त्रीयालातुररोगिषु । सान्तानिकादिषु तथा धर्म एव सतातनः”इति । एकस्य पुरुषस्य षण्मासनिर्वाहाय पर्य्याप्तं कुटु-म्बस्य वैकस्य षण्मासनिर्वाहाय पर्य्याप्तं, लब्धं वा यथां-शतः स्वस्वांशानुरूपेण विभजनीयन्निस्वादिभ्यो वा देय-मिति तात्पर्यार्थः राजप्रसादलब्धवदृणमपि सर्वेषां सम-मित्पाह स एव “यत्तैः प्राप्तं रपितं वा गणार्थं वावा ऋणं कृतम् । राजप्रसादलब्धञ्च सर्वेषामेव तत्समम्”इति । अयमर्थः । तैः समूहकार्य्यार्थं प्रहितैर्यत्सीमा-विवादावधिं क्षेत्रारामादिकं धर्माधिकरणे त्यायतः पा-प्तम् । यच्च परैरपह्रियमाणं रक्षितं यच्च लमूहप्रयो-जनार्थमुपात्तमृणम्, यच्च राजप्रसादलब्धं तत् सर्वंसर्वेषां समुदायिनां सममिति । गणकृतमृणं सर्वेषांसममित्यस्य क्वचिदपवादमाह कात्यायनः “गणमुद्दिश्ययत्किञ्चित् कृत्वर्णं भक्षितं भवेत् । आत्मार्थं विनियुक्तंवा दैयं तैरेव तद्भवेत्” इति । तैः मुख्यैः । ये तु समुदा-यानुग्रहात्तदन्तर्भावं प्राप्ताः ये च समुदायक्षोभादिनाततो बहिर्भूतास्तान् प्रत्याह स एव “गणानां श्रेणि-वर्गाणां गताः स्युर्य्येऽपि मध्यताम् । प्राकृतस्य घनर्णस्यसमाशाः सर्व एवेति । तथैव भोज्यवैभव्यदानधर्मक्रि-यासु च । समूहस्थोऽंशभागी स्यात् प्राग्गतस्त्वंशभा-ङ्नत्विति” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
