| YouTube Channel

संयोगविरुद्ध (saMyogaviruddha)

 
शब्दसागरः
English
संयोगविरुद्ध
n.
(-द्धं) Any eatables which cause disease by being mixed.
Monier Williams Cologne
English
सं-योग—विरुद्ध
n.
food which causes disease through being mixed,
MW.
Apte Hindi
Hindi
संयोगविरुद्धम्
नपुं*
संयोग-विरुद्धम् -
साथ-साथ मिलाकर खाने से रोग उत्पन्न करने वाला खाद्यपदार्थ
L R Vaidya
English
saMyoga-virudDa {% n. %} any eatables which cause disease by being mixed.
शब्दकल्पद्रुमः
Sanskrit
संयोगविरुद्धं,
क्ली,
(संयोगेन विरुद्धम् ।) पर-स्परसंयोगेन रोगजनकखाद्यद्रव्यम् यथा, --“शाकाम्लपलपिण्याककुलत्थलवणामिषैः ।करीरदधिमाषैश्च प्रायः क्षीरं विरुध्यते
प्राणहारी तु हारीतो हरिद्रालवणैः शृतः ।रुरोस्तैलेऽनलैर्भृष्टं विषं मायूरमामिषम्
वराहवसया भृष्टा वलाका तु हरत्यसून् ।संयुक्ता सैव वारुण्या कुल्माषंश्च बिरुध्यते
अविं कुसुम्भशाकेन मत्स्यतैलैः कणां त्यजेत् ।मांसैरिक्षविकारांश्च काञ्जिकैस्तिलशस्कुलीम्
कपोतः सार्षपे भृष्टो घृतं कांस्ये दशाहगम् ।विषं घृतसमं क्षौद्रं मधुना गगनाम्बु
मूलकं माषसूपेन मधुना भक्षयेत् ।एकत्र सर्व्वमांसानि विरुध्यन्ते परस्परम्
रात्र्यन्धवीसर्पदकोदराणांविष्फोटिकोन्मादभगन्दराणाम् ।मूर्च्छामदाध्मानगलग्रहाणांपाण्ड्वामयस्यामविषस्य चैव
किलासकुष्ठग्रहणीगदानांशोथातिसारज्वरपीनसानाम् ।सन्तानदोषस्य तथैव मृत्यो-र्व्विरुद्धमन्नं प्रवदन्ति हेतुम्
विरुद्धाहारजान् रोगान् विनिहन्ति विरेचनम् ।वमनं शमनं वापि पूर्व्वं वा हितसेवनम्
”इति संयोगविरुद्धम् इति राजवल्लः
वाचस्पत्यम्
Sanskrit
संयोगविरुद्ध
न०
संयोगेन विरुद्धम् द्रव्यान्तरसंयोगेनविरुद्धगुणाश्रये द्रव्यभेदे तच्च राजवल्लभेन दर्शितं यथा“शाकाम्लपलपिण्याककुलत्थलवणामिषैः करीरद-धिमाषैश्च प्रायः क्षीरं विरुध्यते प्राणहारी तुहारीतो हरिद्रालवणैः शृतः रुरोस्तैलानलैर्भृष्टंविषं मायूरमामिषम् वराहवसया भृष्टा बलाका तुहरत्यसून् संयुक्ता सैव वारुण्या कुल्माषैश्च विरु-ध्यते अविं कृसुम्भशाकेन मत्स्यतैलैः कणां त्यजेत् ।मांसैरिक्षुविकारांश्च काञ्जिकैस्तिलशस्कुलीम् कपोतःसार्षपे भृष्टो घृतं कांस्ये दशाहिकम् विषं घृतसमंक्षौद्रं मधुना गगनाम्बु मूलकं माषसूपेन मधुनाच भक्षयेत् एकत्र सर्वमांसानि विरुध्यन्ते प्रस्परम् ।रात्र्यन्धवीसर्पदकोदराणां विस्फोटिकोन्मादभगन्दरा-णाम् मूर्च्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्याऽऽमवि-षस्य चैव किलासकुष्ठग्रहणीगदानां शोथातिसारज्वर-पीनसानाम् सन्तानदोषस्य तथैव मृत्योर्विरुद्धमन्नंप्रवदन्ति हेतुम् विरुद्धाहारजान् रोगात् विगिहन्तिविरेचनम् वभनं शमनं वापि पूर्वं वा हितसेवनम्”