| YouTube Channel

संयोगपृथक्त्व (saMyogapRthaktva)

 
Monier Williams Cologne
English
सं-योग—पृथक्-त्व
n.
(in
phil.
) separateness with conjunction (a term applied to express the separateness of what is optional from what is a necessary constituent of anything),
MW.
Apte Hindi
Hindi
संयोगपृथक्त्वम्
नपुं*
संयोग-पृथक्त्वम् -
अनित्य संबंधों का पार्थक्य
शब्दकल्पद्रुमः
Sanskrit
संयोगपृथक्त्वं
क्ली,
(संयोगेन फलसम्बन्धभेदेनपृथक्त्वं, नानाविधत्वं यत्र ।) न्यायविशेषः ।यथा एकस्य कर्म्मणो नित्यत्वकाम्यत्वाभ्यांद्वैरूप्याङ्गीकारे नित्यानित्यसंयगविरोधः मैवंसंयोगपृथक्त्वन्यायात् न्यायश्चतुर्थाध्यायेउक्तः यथा खादिरे पशुं बध्नाति खादिरंवीर्य्यकामस्य यूपं कुर्व्वीत इति श्रूयते अश्रसशयः किं काम्यस्यैव खादिरता नित्येऽपिस्यादुत नेति तत्र फलार्थत्वेनानित्यतया नित्य-प्रयोगाङ्गता युक्ता यत्तु नित्यऽपि खादि-रत्वश्रवणं तत् काम्यस्यैव पशुनन्धनाय यूपा-श्रयज्ञापनार्थं अतो नित्ये खादिरता इतिप्राप्ते राद्धान्ताय चतुर्थाध्यायसूत्रम् एकस्यतूभयत्वे संयोगपृथक्त्वमिति अत्र संयोगःसम्बन्धमात्रं पृथक्त्वं भेदः एकस्य खादिरस्यक्रत्वर्थत्वपुरुषार्थत्वरूपोभयात्मकत्वे वाक्यद्वयेनचक्रतुशेषत्वफलशेषत्वलक्षणसंयोगभेदावगमान्ननित्यानित्यसंयोगविरोधः चाश्रयज्ञानार्थंनित्यवाक्यं सन्निधानादेवाश्रयलाभात् अतउभयार्था खादिरतेति एवं दध्ना जुहोतिदध्नेन्द्रियकामस्य इत्यादावुभयार्थतैव दधि-त्वस्य द्वेधाश्रवणात् इति प्रायश्चित्ततत्त्वम्
वाचस्पत्यम्
Sanskrit
संयोगपृथक्त्व
न०
संयोगेन फलसम्बन्धभेदेन पृथक्त्वंनानारूपत्वं यत्र एकस्यैव कर्मणो नित्यानित्यत्वप्रतिपा-दके मीमासकोक्ते न्यायभेदे त्त्वबो० दर्शितो यथा“अग्नीषोमीयपशौ श्रूयते “खादिरे पशुं वघ्नाति खा-दिरं वीर्य्यकामस्य यूपं कुर्वीत” अत्र पशुबन्धनाय-यूपोविहतः नित्यत्वेनावश्यकः यागसाधनत्वात् पशु-कामनावतश्च अन्योयूपोविहितः कामनाधीन-त्वान्नावश्यकः अत्र संसयः किं काम्य एव खादिरोनित्येऽपि स्यात् उत एकः खादिरः क्रतुपुरुषोभयार्थःउत काम्य एव खादिरो नित्यस्त्वन्यकाष्ठनिर्मित इति ।तत्र काम्यनित्यप्रयोगाङ्गता सम्भवति कामनाधीनत्वेनतस्यानावश्यकत्वात् नित्यश्चावश्यकः नह्येकस्यावश्यकत्वमनावश्यकत्वञ्च सम्भवति विरोधात् तस्मात् काम्य एवखादिरः नित्यश्चान्यकाष्ठनिर्मितः तदुक्तं शास्त्रदीपि-कायाम् एतदधिकरणीयोदाहरणान्तरे “दघ्ना जुहोतिदध्नेन्द्रियकामस्येत्यधिकृत्य “पूर्वाधिकरणन्यायात् काम्यत्वेनश्रुतं दधि अनित्यार्थसुपादेयमतोऽन्यन्नित्यमिष्यताम्” ।अन्यद्द्रव्यान्तरं पूर्वाधिकरणन्यायात् प्रागुक्ताप प्रणय-नन्यायात् माधवाचार्य्योऽपि “नित्येऽग्निहोत्रे पूर्वाधि-करणन्यायेन दधि प्रयोक्तव्यं किन्तु अन्यदेव किञ्चित्द्रव्यम्” इत्याह ननु नित्येऽपि खादिर एव श्रूयतेणतो नित्य एकः स्वादिरः काम्यश्चान्यः स्वादिर इतियूपद्वयं विधोयते अन्यथा नित्ये खादिरत्वःभिधानं व्यर्थंस्यात् तथा क्व विरोधः येनैकस्योभयार्थत्वे विरोधमा-शङ्क्य समाहितमिति चेन्न स्वादिरेण वीर्य्यं कुर्य्यादित्यर्थ-कत्वषर्य्यवसन्नं स्वादिरत्वाभिधानं व्यर्थमिति तस्मान्नित्येस्वादिराविधानात् काम्य एव स्वादिरः नित्यस्तु काष्ठान्तरीयइति प्राप्ते आह “एकस्य तूभयत्वे संयोगपृथक्त्वम्” सू०संयोगः सम्बन्धः एकस्य खादिरस्य नित्यत्वकाम्यत्वो-भयरूपत्वे संयोगस्य पशुसम्बन्धस्य पृथकत्वं परस्परनिरपे-क्षेण पृथगभिधानं नियामकमिति शेषः अयम्भावःयदि द्वयोरेकस्य वाकाङ्क्षा तदा द्वयोरेकवाक्यता इहतु उभयमेव निराकाङ्क्षं तथा हि नित्यवाक्यं यूपस्यपशुबन्धनसम्यन्धे अलौकिकं किमपि नापेक्षते पशुबन्धन-दृष्टफसत्वात् च्चाम्बर्वाक्यामनुपन्यस्याभिधानाच्च काम्यवा-क्यमपि आश्रयसम्बन्धकरं किमपि प्रमाणं नापेक्षतेसन्निधानादेवाश्रयलाभे हि तथा स्यात् पृथक्पृथक्संयोगस्य निरपेक्षेण वाक्यद्वयेनाभिधानात् कासनासत्त्वेच खादिरं दृष्टफलद्वारा क्रतोरुपकरिव्यति पुरुषस्य वीर्य्यमप्यावक्ष्यति किस्त्वयं विशेषः कामनासत्त्वे तत्स-हकारेण पुरुषार्थस्तदभावेन कत्पर्थ इति तदुक्तम्“द्वयोरेकस्य वाकाङ्क्षा भवेद् यदि तयोस्ततः प्रकल्प्येतै-कवाक्यत्वं निराकाङ्क्षन्त्विहोभयमिति” तस्मादुभयार्थाखादिरतेति ननु नित्य एव खादिरोऽस्तु खादिरमित्या-दिनाऽङ्गस्य प्रशंसार्थं फलश्रुत्यर्थवादोऽस्तु यथा यस्यपर्णमयी जुहूर्भवति पापश्लोकं शृणोति” इत्यत्रेतिकिमेकस्योभयार्थत्वाङ्गीकारेणेति चेन्न तत्र जूहुप्राप्तावपितन्निष्यादकद्रव्यविशेषणामावात् तत्परिचायकत्वेनैव स्तु-त्यर्थवादस्यौचित्यात् चात्र तथा पूर्ववाक्यत एव खा-दिरत्वप्राप्तौ पुनः खादिरपदापन्यासेनान्यस्य वीर्यसामर्थ्य-कत्वबोधनेनैकप्रयोजनकत्वात् एवं दध्ना जुहोति दध्ने-न्द्रियकामस्य जुहूयादित्यादावपि उभयार्थता दध्नो बोध्याउभयत्र दध्नः कीर्त्तनात्”