| YouTube Channel

संयमः (saMyamaH)

 
Spoken Sanskrit
English
संयमः saMyamaH
adj.
restraining
Apte
English
संयमः [saṃyamḥ], Restraint, check, control
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति
Bg.*
4.26, 27
so संयमधनः
&c.
Concentration of mind, a term applied to the last three stages of Yoga
संयमाश्चानृशंस्य परस्वादानवर्जनम्
Mb.
* 14. 18.16
धारणाध्यानसमाधित्रयमन्तरङ्गं संयमपदवाच्यम् Sarva. S.
Ku.*
2.59.
A religious vow.
Religious devotion, practice of penance
अस्मान् साधु विचिन्त्य संयमधनान्
Ś.*
4. 17.
Humanity, feeling of compassion.
Any religious act on the day preceding a vow or course of penance.
Destruction of the world
यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः
Mb.
* 12.238.2
पुरा स्वयंभूरपि संयमा- म्भस्युदीर्णवातोर्मिरवैः कराले
Bhāg.*
6.9.24.
Closing (of the eyes).
Effort, exertion.
Apte 1890
English
संयमः 1 Restraint, check, control
श्रोत्रादीनींद्रियाण्यन्ये संयमाग्निषु जुह्वति Bg. 4. 26, 27
so संयमधनः &c.
2 Concentration of mind, a term applied to the last three stages of Yoga
धारणाध्यानसमाधित्रयमंतरंगं संयमपदवाच्यं Sarva. S., Ku. 2. 59.
3 A religious vow.
4 Religious devotion, practice of penance
Ś. 4. 16.
5 Humanity, feeling of compassion.
6 Any religious act on the day preceding a vow or course of penance.
Apte Hindi
Hindi
संयमः
पुं*
- सम् + यम् + अप्
"प्रतिबंध, रोकथाम, नियंत्रण"
संयमः
पुं*
- -
"मन की एकाग्रता, योग की अंतिम तीन अवस्थाओं को प्रकट करने वाला शब्द"
संयमः
पुं*
- -
धार्मिक व्रत
संयमः
पुं*
- -
"धार्मिक भक्ति, तपस्साधना"
संयमः
पुं*
- -
"दयाभाव, करुणा की भावना"
संयमः
पुं*
- सम्+यम्+अप्
"प्रयत्न, उद्योग"
Wordnet
Sanskrit
Synonyms:
संयमः
noun
ध्रूमाक्षुपुत्रः।
"संयमः राक्षसस्य मालिनः पुत्रः आसीत्।"
Synonyms:
प्रग्रहः, वागा, रश्मिः, वल्गा, दन्तालिका, संयमः, यन्त्रणम्, निग्रहः, वसुः, अभीषुः, अभीशुः
noun
अश्वादीनां नियमनार्थे उपयुज्यमाना रश्मिः।
"नहि मे मुच्यते कश्चित् कथञ्चित् प्रग्रहं गतः। गजो वा महिषो वापि षष्ठे काले नरोत्तमः॥"
Synonyms:
संयमः, संयामः, वियामः, वियमः, यामः, यमः, संयमनम्, नियमः, आत्मनियंत्रणम्, आत्मनिग्रहः
noun
चित्तादिवृत्तीनाम् नियंत्रणम्।
"संयमात् आरोग्यस्य रक्षणम्।"
अमरकोशः
Sanskrit
Word: संयमः
Root: संयम
Gender: पुं
Number: all
Meaning(s):
effort
closing
binding
control
tying up
exertion
restraint
fettering
self-control
holding together
control of the senses
concentration of mind
suppression i.e. destruction
Shloka(s):
3|2|18|2 वियामो वियमो यामो यमः संयामसंयमौ॥ (सङ्कीर्णवर्गः)
Synonym(s):
3|2|18|2 वियामः (वियाम) (पुं) rest, pain, stop, distress, restraint, cessation, forbearance, particular measure of length
3|2|18|2 वियमः (वियम) (पुं)
3|2|18|2 यामः (याम) (पुं) end, way, road, path, going, course, motion, chariot, progress, carriage, restraint, cessation, forbearance, coordinate [Math.], coordinates [math.], quarter of day or night, relating to or derived from or destined for yama
3|2|18|2 यमः (यम) (पुं) crow, twin, curb, rein, Pluto, fellow, bridle, driver, bad horse, restraint, twin-born, charioteer, suppression, god of death, forming a pair, self-restraint, any rule or observance, one of a pair or couple, self-control forbearance, act of checking or curbing, any great moral rule or duty, symbolical name for the number two
3|2|18|2 संयामः (संयाम) (पुं)
3|2|18|2 संयमः (संयम) (पुं) effort, closing, binding, control, tying up, exertion, restraint, fettering, self-control, holding together, control of the senses, concentration of mind, suppression i.e. destruction
Related word(s):
जातिः क्रिया
शब्दकल्पद्रुमः
Sanskrit
संयमः,
पुं,
(सं + यम + “यमः समुपनिविषु ।”३ ६३ इति अप् ।) व्रताद्यङ्गपूर्व्वदिन-कत्तव्याचारः तत्पर्य्यायः वियामः वियमः३ यामः यमः संयामः इत्यमरः
संयमनम् नियमः इति धरणिः
तद्-विधानं यथा अथ दशमीनियमाः सूरि-सन्तोषे ।“कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम् ।शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम्
”अत्रोपवसन्निति तद्दिने भोजनासम्भवात् सामी-प्यात् पूर्व्वापरदिनयोर्ग्रहणम् स्मृतिः ।“शाकं माषं मसूरञ्च पुनर्भोजनमैथुने ।द्युतमत्यम्बुपानञ्च दशम्यां वैष्णवस्त्यजेत्
कांस्यं मांसं सुरां क्षौद्रं लोभं वितथभाषणम् ।व्यायामञ्च व्यवायञ्च दिवास्वप्नं तथाञ्जनम्
तिलपिष्टं मसूरञ्च दशम्यां वर्ज्जयेत् पुमान् ।दशम्याकेकभक्तञ्च कुर्व्वीत नियतेन्द्रियः
आचम्यदन्तकाष्ठञ्च खादेत तदनन्तरम् ।पूर्व्वं हरिदिनाल्लोकाः सेवध्वं चैकभोजनम्
अवनीपृष्ठशयनाः स्त्रियाः सङ्गविवर्जिताः ।सेवध्वं देवदेवेशं पुराणं पुरुषोत्तमम् ।सकृद्भोजनसंयुक्ता द्वादश्याञ्च भविष्यथ
”इत्येकादशीतत्त्वम्
*
श्राद्धपूर्व्वदिनकर्त्तव्यनियमो यथा देवलः ।“श्वः कर्त्तास्मीति निश्चित्य दाता विप्रान्निमन्त्र-येत् ।निरामिषं सकृत् भुक्त्वा सर्व्वमुप्तजने गृहे ।असम्भवे परेद्युर्व्वा ब्राह्मणांस्तान्निमन्त्रयेत्
”वराहपुराणम् ।“वस्त्रशौचादि कर्त्तव्यंश्वः कर्त्तास्मीति जानता ।स्थानोपलेपनञ्चैव कृत्वा विप्रान्निमन्त्रयेत् ।दन्तकाष्ठञ्च विसृजेत् ब्रह्मचारी शुचिर्भवेत्
”विसृजेत् श्राद्धीयब्राह्मणेभ्यो दद्यात् मार्क-ण्डयपुराणम् ।“निमन्त्रयेच्च पूर्व्वेद्युः पूर्व्वोक्तान् द्विजसत्तमान् ।अप्राप्तौ तद्दिने वापि हित्वा योषित्प्रसङ्गिनम्
”यमः ।“प्राथेयेत् प्रदोषान्ते भुक्तान्न शयितान् द्धिजान् ।सर्व्वायासविनिर्मुक्तः कामक्रोधविवर्ज्जितैः
भवितव्यं भवद्भिश्च श्वोभूते श्राद्धकर्म्मणि ।दक्षिणं जानु चालभ्य त्वं मयात्र निमन्त्रितः ।एवं निमन्त्र्य नियमान् श्रावयेत् पैतृकान्बुधः
”तन्नियममाह ।“अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः ।भवितव्यं भवद्भिश्च मया श्राद्धकर्म्मणि
”इति श्राद्धतत्त्वम्
*
तीर्थयात्रापूर्व्वदिनकर्त्तव्यनियममाह ब्रह्म-पुराणम् ।“यो यः कश्चित्तीर्थयात्रान्तु गच्छेत्सुसयतः पूर्व्वं गृहे स्वे ।कृतोपवासः शुचिरप्रमत्तःसंपूजयेद्भक्तिनम्रो गणेशम
देवान् पितॄन् ब्राह्मणांश्चैव साधून्धीमान् प्रीणयन् वित्तशक्त्या प्रयत्नात् ।प्रत्यागतश्चापि पुनस्तथैवदेवान् पितॄन् ब्राह्मणान् पूजयेच्च
”एवं प्रकुर्व्वतस्तस्य तीर्थाद्यदुक्तं फलं तत्स्यान्नात्र सन्देह एव सुसंयतः पूर्व्वदिनेकृतैकभक्तादिनियमस्तदुत्तरदिने कृतोपवासइत्यादि उपवासदिने मुण्डनमपि ।“प्रयागे तीर्थयात्रायां पितृमातृवियोगतः ।कचानां वपनं कार्य्यं वृथा विकचो भवेत्
”इति विष्णुपुराणात् इति प्रायश्चित्ततत्त्वम्
प्रायश्चित्तपूर्व्वाहकृत्यं यथा शङ्खलिखितौ ।“वाप्य केशनखान् पूर्व्वं घृतं प्राश्य वहिर्निशिप्रत्येकं नियतं कालमात्मनो व्रतमादिशेत्
”इति प्रायश्चित्ततत्त्वम्
(बन्धनम् यथा, साहित्यदर्पणे १५५ ।“कापि कुन्तलसंव्यानसंयमव्यपदेशतः ।बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम्
”संकोचः यथा, मार्कण्डेये ७७ ।“मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् ।तस्माज्जनिष्यते मूढे प्रजासंयमनं यमम्
”)