संक्रान्ति (saMkrAnti)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishसंक्रान्तिः [saṅkrāntiḥ],
Going together, union.
Passage from one point to another, transition.
The passage of the sun or any planetary body from one zodiacal sign into another.
Transference, giving over (to another)
संपातिताः ... पयसो गण्डूषसंक्रान्तयः 3.16.
Transferring or communicating (one's knowledge to another), power of imparting (instruction to another)
विवादे दर्शयिष्यन्तं क्रियासंक्रान्तिमात्मनः 1.19
शिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता 1.16.
Image, reflection.
Depicting.
Monier Williams Cologne
Englishसं-क्रान्ति going from one place to another, course or passage or entry into, transference to (loc. or comp. ),
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Benfey
Englishसंक्रान्ति संक्रान्ति, i. e. सम्-क्रम् +
ति,
1. Union, Mālat. 153, 17
Utt. Rāmac. 63, 4 (imbibing).
2. Passage from
one point to another.
3. The passage
of the sun or planetary bodies from
one sign of the zodiac to another.
4.
Proceeding, Mālav. d. 15
18.
5. Imi-
tation.
6. Reflection.
-- उत्त-
रायण-, i. e.
उत्तर-अयन-, the sun's
entrance into its northern journey,
Pañc. 119, 1.
सूर्य-, the sun's
entrance into a new sign.
Lanman
EnglishWordnet
Sanskrit द्वादश, सूर्य, मास, राशि, संक्रान्ति, गुहबाहु, सारिकोष्ठ, गुहनेत्र, राजमण्डल
द्व्याधिका दश।
"नौकायां द्वादशाः पुरुषाः सन्ति।"
वाचस्पत्यम्
Sanskritसंक्रान्ति स्त्री सम् + क्रम--भावे क्तिन् । संक्रमणशब्दार्थेसंक्रान्तिपदार्थरविसंक्रान्तिनामभेदफलभेदादि मु० चि०पी० धा० निरूपितं यथा“घोरा १ ऽर्कसंक्रमणमुग्ररवौ हि शूद्रात्, ध्वाङ्क्षी २ विशो, लघुविधौ च चरर्क्षभौमे । चौरान्, महोदरयुता ३ नृप-तीन्, ज्ञमैत्रे मन्दाकिनी ४ स्थिरगुरौ सुखयेच्च, मन्दा । ५ ।विप्रांश्च, मिश्रभभृगौ तु पशूंश्च मिश्रा ६ तीक्ष्णर्कजेऽ-न्त्यजसुखा खलु राक्षसी ७ च । त्र्यंशे दिनस्य नृपतीन्प्रथमे निहन्ति मध्ये द्विजानपि विशोऽपरके च शूद्रान् ।अस्ते निशाप्रहरकेषु पिशाचकादोन्नक्तञ्चरानपि नटान्पशुपालकांश्च । सूर्य्योदये सकललिङ्गिजनञ्च सौम्यया०म्यायनं मकरकर्कटर्निरुक्तम् । षडशीत्याननञ्चापमृयु-क्वन्याझषे भवेत् । तुलाजौ विषुवं, विष्णुपदं सिंहालिगोघटे । संक्रान्तिकालादुभयत्र नाडिकाः पुण्या मनाःषोडशषोडशोष्णगोः । निशीथतोऽर्वागपरत्र संक्रमे पूर्वा-पराहान्तिमपूर्वभागकौ । पूर्णे निशीथे यदि संक्रमः स्या-द्दिनद्वयं पुण्यमथोदयास्तात् । पूर्वं परस्ताद् यदि या-म्यसौम्यायने दिने पूर्वपरे तु पुण्ये । सन्ध्या त्रिनाडी-प्रमितार्कबिम्बादर्द्धोदितास्तादधऊर्द्ध्वमत्र । चेद्याम्यसौव्ये-अयने क्रमात्स्तः पुण्यौ तदनीं परपूर्वघस्रौ । थाभ्या-यने विष्णुपदे चाद्या मध्यास्तुनाजायीः । षडशीत्याकनेसौम्ये परा नाड्योऽतिपुण्यदाः” मु० चि० ।“तत्र ग्रहाणां प्राग्राशितोऽपरराशौ संक्रमणं संक्रान्ति-रिति संक्रान्तिलक्षणं सा च द्विविधा मध्यमा स्पष्टा च ।षट्कर्मसंस्कृतो मध्यमग्रहोराश्यन्तरं यदा संक्रानतिसा मध्यमसंक्रान्तिरुच्यते । यदा तु स्पष्टीकृतसंस्कार-विशिष्टो ग्रहो राश्यन्तरं गच्छेत् सा स्पष्टसंक्रान्तिरु-च्यते । तत्र मध्यममानस्य स्पष्टोकरणार्थत्वादेव तज्ज-नितसंस्कारानुपयोगादत्रा तत्त्यागेन स्पष्टसं क्रान्तिरेव गृ-ह्यते । सापि द्विविधा सायनांशा निरयनांशा चेति ।तत्र यदा सिद्धान्तगणनागतायनांशसंस्कृता ग्रहाराश्य-न्तरगमनमुररीकुर्वते सा सायनांशसंक्रान्तिरुच्यते । यदात्वयनांशसंस्काररहिताग्रहाराश्यन्तरगास्तदा निरय-नांशा संक्रान्तिरुच्यते । तत्रान्यासां चन्द्रांदिसंक्रान्तीनान्तु“देवद्व्यङ्कर्त्तवोऽष्टाष्टौ नाड्योऽङ्काः खनृपाः क्रमात्” ।वर्ज्याः संक्रामणेऽर्कादेः प्रायोऽर्कस्यातिनिन्दिता” इतिवर्ज्यधटीत्वमेव विवाहप्रकरणे वक्ष्यति न तु फलकथनेआसां संक्रान्तीनां कश्चिदुपयोगः । सूर्य्यसंक्रान्तीनान्तुनक्षत्रवारसमयभेदेन ववादिकरणभेदेन च शुभाशुभफल-कथनयोग्यता पुण्यकालता संक्रान्तिविशेषे वर्ज्यघटी-न्यूनाधिकभावश्चास्तीत्यतो बहुवक्तव्यत्वात् स्वतन्त्रमेव सू-र्य्यसंक्रान्तिप्रकरणर रिप्सुर्नक्षत्रवारभेदेन फल तावत्सार्द्धवसन्ततिलकयाह । घोरेति अर्कस्य सूर्य्यस्य सं-क्रमणं निरयनाशा संक्रान्तिरुग्ररवावुग्रसंज्ञकनक्षत्रेरविवारेऽर्कवारे वा स्यात् तदा घोरानाम्नी सा शूद्रान्सुखयेत् सुखिन उत्पादयेत् । अत्रार्कसंक्रमणमिति पदौ-पादानसामर्थ्यात् सूर्य्यसं क्रान्तिष्वेवायं विचारो नाखि-लग्रहसंक्रान्तिष्विति फलितोऽर्थः ।अथ लघुनक्षत्रे विधौ चन्द्रवारे वा सूर्य्यसंक्रान्तिर्ध्या-ङ्क्षीनार्म्ना विशी वैश्यान् सुखयेत् । चरर्क्ष चरनक्षत्रेभौमे मङलवारे वा संक्रान्तिर्महोदरयुता महोदरी-नाम्नी चोरान् सुखयेत् ज्ञमैत्रे बुधे मैत्रसंज्ञकनक्षत्रेवा संक्रान्तिर्मन्दाकिनीनाम्नी नृपतीन् राज्ञः सुखयेत् ।स्थिरनक्षत्रे गुरुवारे वा संकान्तिर्मन्दानाम्नी विप्रान्सुणयेत् । मिश्रनक्षत्रे भृगुवारे वा संक्रान्तिर्मिश्रनाम्नीपशून् सुखयेत् । तीक्ष्णनक्षत्रे अर्कजे शनिवारे वा सं-क्रान्तिः खलु निश्चयेन राक्षसीनाम्नी अन्त्यजांश्चाण्डालान्सुखयतीत्यन्त्यजसुखा स्यादित्यर्थः । यद्राह कश्यपः“घोराष्वाङ्क्षीमहोदर्य्यो मन्दा मन्दाकिनी तथा मिश्रा-राक्षसिका सूर्य्यसंक्रान्तष्वर्कवासरात्” । वसिष्ठ “घो-रोग्रर्क्षे ध्वाङ्क्षी लघुभे चरमे महोदरी मृदुभे । मन्दा-किनी चरर्क्षे मन्दा मिश्रा मिश्रे च राक्षसी तीक्ष्णे” ।अत्र छन्दीभङ्गस्त्वार्षः । देवीपुराणे “मन्दा ध्रुवेषु विज्ञेयामृदौ मन्दाकिनी तथा । क्षिप्रे ध्वाङ्क्षीं विजानीयादुग्रे घोरा प्रकीर्त्तिता । चरे महीदरी ज्ञेया क्रूरैरुग्रैस्तु राक्षसी । मिश्रिता चैव विज्ञेया मिश्रऋक्षैस्तुसंक्रमे” इति । रत्नमालायाम् “उग्रक्षिप्रचरे मित्रध्रुव-मिश्राख्यदारुणैः । ऋक्षैः संक्रान्तिरर्कस्य घोराद्या क्रमशोभवेत्” । नारदकश्यपौ “शूदूतस्करवैश्ये क्ष्मादवभूप-गवां क्रमात् । अनुक्तानाञ्च सर्वेषां धरिद्याः सुखदाःस्मृताः” । क्ष्मादेवाः ब्राह्यणाः अनुक्तानां चाण्डाला-दीनाम् । ननूक्तं वक्ष्यमाणं वा शुभाशुभफलं सायनांश-संक्रान्तितः कुतो न विचार्य्यते इति चेत् उच्यते साय-नांशसंक्रान्तेः स्नानदानजपादावेव कार्य्यं न सर्वत्र य-दाह पुलस्त्यः “स्नानदानजपश्राद्धव्रतहोमादिकर्मसु ।सुकृतं चलसंक्रान्तावक्षयं पुरुषोऽश्नुते” इति । चलसं-क्रान्तिः सायनांशसंक्रान्तिः । अतश्चलसंक्रान्तेः परिगणि-तस्नानादिकविषयत्वादेव कृत्यान्तरेषु विवाहादिशुभकर्मसुसंक्रान्तिमासाङीकारे शुभाशुभफलकथनञ्च नास्या उप-यीग इति युक्तमुत्पश्यामः । इदं चाग्रे सम्यक्ततया नि-र्णेष्यते” । “अथ दिनरात्रिविभागेन संक्रान्त्यशुभफल-मुत्तरायणदक्षिणायनसंज्ञाञ्च सार्द्धवसन्ततिलकय्याह ।त्र्यंशे इति अत्रार्कसंक्रमणमित्यनुवर्त्तते दिनप्रमाणं त्रि-भिर्भक्तं घट्यात्मकस्तृतीयांशो भवति तत्र दिनस्य प्रथमत्र्यंशेऽर्कसंक्रमणं नृपतीन् हन्ति मध्ये द्वितीयत्र्यंशेद्विजान् ब्राह्मणान् हन्ति अपरके तृतीयत्र्यंशे वैश्यान्इत्येवं सर्वेत्र व्याख्येयम् । अस्ते सूर्य्यास्तसमयेऽर्कसंक्रमणंशूद्रान् । अथ रात्रिसं क्रान्तिफल तत्र रात्रिप्रथमप्रहरेपिशाचकादीन् आदिशब्देन भूवादीन् । द्वितीयप्रहर न-क्तञ्चरान् राक्षसान् तृतीयप्रहरे नदान् नर्त्तकान्, चतुर्थ-प्रहरे पशुपालकान् आभीरान् । सूर्य्योदयसमयकालेऽर्क-संक्रमणं सकललिङ्गिजनं पाखण्डादिकं हन्तीत्यर्थः“पाखण्डाः सर्वलिङ्गिन” इत्यभिधानात् । यदाहतुर्नार-दकश्यपौ “पूर्वाह्णे नृपतीन् हन्ति विप्रान् मध्यदिनेविशः । अपराह्णेऽस्तगे शूद्रान् प्रदोषे च पिशाचकान् ।निशि रात्रिञ्चरान्नाट्यकारानपररात्रके । गोचारिणश्चसन्ध्यायां लिङ्गिनं रविसंक्रमः” इति । संक्रान्तेः क्रूर-सौम्यवारपरत्वेन फलविशेषमाह वसिष्ठा रविरविज-समवारे संक्रान्तौ दिनकरस्य तन्मामे । पित्तकफा-निलजामयनरपतिकलहस्त्ववृष्टिश्च । बुधगुरुसितचन्द्राहेसति संक्रान्तावनामयं नॄणाम् । क्षितिपतिनिकरक्षेमं सस्यविवृद्धिर्विधर्मिणां पीडा” । अत्र मेषसंक्रान्तौ विशेष-माह कश्यपः “यदा मेषगतः सूर्य्यो भरण्यादिचतु-ष्टये । सस्यवृद्धिर्भवेत्तत्र वृद्धिरार्द्राचतुष्टये । मघादिदशके हानिः क्षेमं चानुक्तभेषु च” । अस्यार्थः । यस्मिन्दिने मेषसंक्रमस्तद्दिने चन्द्रो यदि भरण्यादिनक्षत्रचतु-ष्टये स्यात् तदा सस्यवृद्धिः एवमग्रेऽपि व्याख्येयम् ।अथ जन्मनक्षत्रे संक्रान्तिफलं दीपिकायां “यस्य जन्म-र्क्षमासाद्य रविसंक्रमणं भवेत् । तन्मासाद्यन्तरे तस्य रोगःक्लेशो धनक्षयः” इति । तत्र शान्तिकमपि दिपिकाया-मुक्तम् “तगरसरोरुहपत्रैरजनीसिद्धार्थलोधरसंयुक्तैः ।स्नानं जन्मन्यृक्षे रविसंक्रान्तौ नृणां शुभदमिति” । अथसंक्रान्तिषु वृष्टौ जातायां फलमुक्तम् वसिष्ठेन “अज-कन्याझषकर्किणि संक्रान्तौ यदि भवेद्वर्षम् । अतुलं क्षेम-सुभिक्षं नृपसज्जनगोकुलक्षेमम् । घटचापसिंहमिथुन-संक्रान्तौ यदि भवेद्वर्षम् । आमयडामरभूभृद्युद्धमनर्थंत्ववृष्टिश्च । वृषवृश्चिकतुलमकरे वृष्टिः स्यात् संक्रमेसमये । विस्फोटामयतस्करपीडावृष्टिः कृशानुभयमिति” ।अथ सौम्येति मकरकर्कटयोः संक्रान्तिश्चेत् तदा क्रमेणसौम्ययाम्यायनं निरुक्तं कथितं मकरे उत्तरायणं कर्कटेयाम्यायनं स्यादित्यर्थः । यदाह नारदः “सौम्ययाम्यायनेनूनं भवतो मृगकर्किणि” इति । अथावशिष्टतादृशसंक्रा-न्तीनां षडशीतिमुखादिकाः संज्ञा अनुष्टभाह षडशीतीतिधनुर्मिथुनकन्यामीनेषु संक्रान्तिश्चेत् तदा षडशीतिमुखा-नाम्नी संक्रान्तिः, तुलामेषयोः संक्रान्तिर्विषुवनाम्नी ।सिंहवृश्चिकवृषकुम्भेषु संक्रान्तिर्विष्णुपदाख्या । उक्तञ्चनारदेन “स्थिरभेष्वर्कसंक्रान्तिर्ज्ञेया विष्णुपदाह्वया । षड-शीतिमुखं ज्ञेयं द्विस्वमावेषु राशिषु । तुलाधराजयो-र्ज्ञेयं विषुवं सूर्य्यसंक्रमः” । संज्ञाप्रयोजनञ्च “याभ्यायनेविष्णुपदे चाद्या मध्यास्तुलाजयोः । षडशीत्यानने सौम्येपरा नाद्योऽतिपुण्यदाः” । इति ग्रन्थकृदग्रे वक्ष्यति ।अत्र मनुः “संक्रान्तौ यानि दत्तानि हव्यकव्यानि दा-तृभिः । तानि नित्यं ददात्यर्कः पुनर्जन्मनि जन्मनि ।रविसंक्रमणे पुण्ये न स्नायाद् यदि मानवः । सप्तजन्मसुरोगी स्यात् दुःखभागी हि जायते” इति शातात-पोक्तेः स्नानदाश्राद्धादिकृत्यस्य संक्रान्तिकालेऽवश्यकर्त्त-व्यता प्रतीयते तत्र श्राद्धादेरनेकक्षणसाध्यत्वादननुष्ठानलक्षणमप्रामाण्यमापद्येत संक्रान्तिकालस्यातिसूक्ष्ममत्वात्तदुक्तम् देवीपुराणे “सुस्थे नरे सुखासीने यावत्स्पन्दति लोचनम् । तस्य त्रिंशत्तमोभागस्तत्परः परि-कीर्तितः । तस्माच्छततमोभागस्त्रुटिरित्यभिधीयते । त्रुटेःसहस्रभागी यः स काली रविसंक्रमः” इति । देव-लोऽपि “संक्रान्तिसमयः सूक्ष्मो दुर्ज्ञेयः पिशितेक्षणैः”इति पिशितेक्षणैः मनुष्यैः । अतोमुख्यकालानुपलब्धौगौणकालेऽपि कार्य्यं वचनप्रामाण्यात् । स च गौण-कालः प्रतिनिधिरित्यतो गौणकालमुषजातिकाच्छन्दःपूर्वार्द्धेनाह संक्रान्तीति । गणितमार्गेण यः उष्णगोःसूर्य्यस्य संक्रान्तिकाल आगतस्तत उभयत्र पूर्वतः पर-तश्च षोडश नाड्यः पुण्यसम्पादकत्वात् पुण्या मताः स-म्मता सूर्य्यसंक्रान्तिसमयात् पूर्वं षोडश पश्चाच्च षोडश-घटिकाः पुण्यकाल इति द्वात्रिंशद्घटिका भवन्तीत्यर्थः ।तदाह वसिष्ठः “दिनपतिसंक्रमणात् प्राक् षोडश नाड्यश्चपुण्यकालः सः । परतः षोडश नाड्यः सर्वत्र स्नानदान-कार्य्येषु । ब्रह्मसिद्धान्तेऽपि “सक्रान्तेः प्राक्परस्ताच्चसार्द्धाः षोडश नाडिकाः । त्रयस्त्रिंशत् संक्रमस्यपुण्याः सर्वस्य नाडिकाः” । अनेन “संक्रान्तेः पुण्यका-लस्तु षोडशोभयतः कलाः” इति स्मृतिवाक्ये “यैः पूर्वतःपरतश्चाष्टावष्टौ घटिकाः पुण्यकालं इत्येवं षोडशेतिव्याख्यातं तदपाकृतं भवति । किञ्चायमर्थोवासनासिद्धःसूर्य्यसिद्धान्तेऽभिहितः “अर्कमानकलाः षष्ट्या गुणिताभुक्तिभाजिताः । तदर्द्धनाड्यः संक्रान्तेरर्वाक् पुण्यंतथा परे” । सिद्धान्तशिरोमणावपि “षष्टिघ्नबिम्बं ग्रह-भूक्तिभक्तं संक्रान्तिनाड्योऽखिलधर्मकृत्ये । रवेस्तु ताःपुण्यतमा ग्रहः स्वसंक्रान्तिगोमिश्रफलं विधत्ते” । इतिवासना चेयं यदि ग्रहस्पष्टगतितुल्यकलाभिरहोरात्र-मानरूपाः षष्टिघटिकालभ्यन्ते तदा ग्रहबिम्बकलाभिःकिमिति त्रैराशिकेन ग्रहे बिम्बकलानां षष्टिर्गुणकोजहाभुक्तिर्भाजको निष्पन्न इत्यर्थः । एवं सर्वग्रहाणामपिसंक्रान्तिः स्यात् तदुक्तं सिद्धान्त एव । अत्र तु विस्तरभया-दनुपयुक्तत्वाच्च नास्माभिरलेखि । अतएव त्रिं शद् एक-त्रिंशत्सार्द्धद्वात्रिंशत्त्रयस्त्रिंशदादिभेदेन स्मृतिषु पुण्य-घटिकाभिवधान स्पष्टीकृत्या भेदसंभवाद्भिन्नं तदेव सामा-न्यतः संक्रान्तिषु द्वात्रिंशत् घटिकारूपः पुण्यकालोनिर्णीतः । देवीपुराणे तु मन्दादिसंज्ञाभेदात् पुण्यकाल-विशेष एवोक्तः “द्विचतुःपञ्चसप्ताष्टनपद्वादश एव च । क्र-भेण घटिकाह्येतास्तत् पुण्यं पारमार्थिकम्” इति ।अस्यार्थः मन्दायामन्तरालवर्त्तिघटिकाद्वयं मन्दाकिन्याञ्च-तस्रो घटिकाः ध्वाङ्क्ष्यां पञ्च, घोरायां सप्त, महोदर्या-मष्टौ, राक्षर्स्या नव, मिश्रायां दश” प्रागभिहितदेवीपुरा-णोक्तमन्दादिसंज्ञावाक्यान्नक्षत्रजनितसंज्ञासु मन्दादिष्वयंविचारो न वारप्रयुक्तास्वचनात् एवं संक्रान्तिषु पुण्य-कालमभिधाय इदानी रात्रिसंक्रान्तौ विशेषमुपजा-त्युत्तरार्द्धेनाह निशीथत इति । निशीथोऽर्द्धरात्रं तस्मा-दवाक् पूर्वत्र अपरत्र पश्चाच्च सं क्रमे संक्रान्तिकाले सतिपूर्वापरयोरह्नोः क्रमेणान्तिमपूर्वभागौ पुण्यौ स्यातां भा-गकाविति स्वार्थे कः । यद्यर्द्धरात्रात् प्राक्संक्रान्तिस्तदापूर्वदिनस्योत्तरार्द्धं पुण्यं यद्यर्द्धरात्रादुपरि संक्रान्तिस्तदीत्तरदिनस्य पूर्वार्द्धमेव पुण्यमित्यर्थः । उक्तञ्च ब्रह्म-सिद्धान्ते “भवनान्तं बिम्बमध्यं रात्र्यर्द्धात् प्रागुवेतिचेत् । स्नानदानादि मध्याहात् कुर्य्यादूर्ध्वं गते दिने ।रात्र्यर्द्धादुपरि क्षेत्रं याति चेदन्यथार्यमा । अह्न्यागा-मिनि मध्याह्नात् पूर्वं स्नानादि पुण्यदम्” । भवनं राशिःबिम्बमध्यं रवेः, क्षेत्रं राशिः । वृद्धवसिष्ठोऽपि अह्नि-संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम् । रात्रौ संक्र-मणे भानोर्दिनार्द्धं म्नानदानयीः । अर्द्धरात्रादधास्तस्मिन्मध्याह्नस्योपरिक्रिया । ऊर्ध्वं संक्रमणे चोर्ध्वमुदयात्प्रहरद्वयम्” इति । ननु रात्रौ शेषदिनसंक्रान्तौ वा रात्रावपिघुण्यकालसत्त्वात् तदा स्रानादि कुतो न क्रियते यदर्थम-यसुद्यम आरब्ध उच्यते “रात्रौ म्नानं न कुर्वीत दानं चैवविशेषतः” इति सुमन्तुवाक्याद्रात्रौ म्नानाद्यधिकारास-त्त्वात् । यत् तु नैमित्तिकं ग्रहणादिप्रयुक्तं तद्भवत्येव“नैमित्तिकञ्च कुर्वीत म्नानं दानञ्च रात्रिषु” इति सुमन्तुवा-क्यशेषात् “अर्द्धरात्रसमये संक्रमणे मकरकर्कयोश्च विशेषमुपजातिकयाह । पूर्णे इति । “अर्द्धरस्त्रनिशीथौ द्वौद्वौ यामप्रहरौ समौ” इत्थभिधानादर्द्धरात्रो निशीथशब्दवाच्यः तणिन्निशीथे पूर्णे रात्रिद्वितीयप्रहरान्तिमकलाव-च्छिन्ने यदि संक्रमः स्यात् तदा प्रागपरं दिवद्वये पुण्यमुक्तम् । उक्तञ्च वृद्धवसिष्ठेन “पूर्णे चेदर्द्धरात्रे तु यदासंक्रमते रविः । प्राहुः दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटाविति” । ब्रह्मसिद्धान्तेऽपि “यद्यर्द्धरात्र एव स्यात्संपूर्णे संक्रमो रवेः । तदा दिनद्वयं पुण्य म्नानदानादिकर्मसु” । अत्र मुक्त्वा मकरकर्कटावित्य क्तं तत्रः मकरकर्क-टयोस्तु कथमित्यत आहाथेति अथानन्तरमुदयास्तात्सूर्य्योदयात् सूर्य्यास्ताच्च पूर्वं परस्ताच्च यदि याम्यसौम्य-यने कर्कटमकरसंक्रान्ती भवतस्तदा पूर्वपरदिने पुण्येस्यातां यदि सूर्य्योदयात् पूर्वं कर्कटसंक्रमणं स्यात् तदापूर्वदिन एव पुण्यकालो न परदिने । तदाह वृद्धगार्ग्यः“यदास्तमयवेलायां मकरे याति भास्करः प्रदोषे चार्द्धरात्रे वा स्नार्न दानं परेऽहनि । अर्द्धरात्रे तदूर्ध्वं वासंक्रान्तौ दक्षिणायने । पूर्वमेव दिनं ग्राह्यं यावन्नोदयतेरविः” इति । अस्तमयवेलाया इति पञ्चम्यन्तं पदंवाशब्द इवार्थे । भविष्योत्तरपुराणेऽपि “कार्मुकन्तु परि-त्यज्य मृगं संक्रमते रविः । प्रदोषे चार्द्धरात्रे वा कुर्य्या-दहनि पूर्वतः” इति । प्रदोषलक्षणं स्कन्दपुराणे “त्रिमुहर्त्तः प्रदोषः स्याद्रवावस्तं गते सति” इति ।अथार्द्धोदयास्तादिति वचनस्याप्यवादमिन्द्रवज्राछन्दसाहअर्द्धोति अर्द्धोदितादर्द्धास्ताच्चाध ऊर्द्ध्वं च क्रमात्त्रिघटि-कास्ताभिः प्रमिता सन्ध्यासन्ध्याकालः स्यात् अर्द्धोदितार्क-विम्बात्पूर्वं त्रिघटीप्रमिता प्रातःसन्ध्या तथार्द्धास्तादर्क-बिम्बादुपरि त्रिनाडीप्रमिता सायसन्ध्येत्यर्थः । तदाहवराहः “अर्द्धास्तमितानुदितात् सूर्यादस्पष्टभं नभो या-वत् । तावत् सन्ध्याकालञ्चिह्नैरेतैः फलं ब्रूयादिति” ।तत्प्रमाणमाह नारदः “अर्द्धास्तमनसन्ध्या हि घटिकात्रयसन्मिता । तथैवार्द्धोदयात् प्रातर्घटिकात्रयस-म्मिता” इति । स्कन्दपुराणेऽपि “उदयात् प्राक्तनी सन्ध्याघटिकत्रयमुच्यते । सायसन्ध्या त्रिघटिका ह्यस्तादु-परि भास्वतः” इति । अत्र सन्ध्यांलक्षणे अर्द्धास्तमिता-नुदितवाक्यस्य स्कन्दपुराणीयवाक्यस्य च व्रीहिय-यवद्विकल्पः । अथः सन्ध्यालक्षणप्रयोजनमाहात्रेति ।अथ सन्ध्यायां पातःसन्ध्यायां सायंसन्ध्यायां च क्रमा-च्चेदु याम्यसौम्ये अयने दक्षिणोत्तरायणे तदानीं पर-पूर्वौ घस्रौ दिवसौ पुण्या याम्यसौम्ये अयने इत्यत्रयदि प्रातःसन्ध्यायां दक्षिणायनप्रवृत्तिस्तदा सूर्योदयादनन्तर सम्पूर्णमहः पुण्यं तथा यदि सायंस-न्ध्यायामुत्तरायणप्रवृत्तिस्तदा सूर्य्यास्तात्पूर्वं सम्पूर्णमहः पुण्यं स्यादिर्थः । यदाह नारदः “सूर्य्यस्योदय-सन्ध्यायां यदि याम्यायनं भवेत् । तदोदयादहःपुर्ण्यपूर्वाहः पूर्वतो यदि । सूर्य्यास्तमनसन्ध्यायां यदि सौ-म्यायनं भवेत् । तदाहः पुण्यकालः स्यात् परतश्चोत्तरे-ऽहनि इति । अत्र यद्युदयसन्ध्यातः प्राक्कर्कसंक्रम-स्तदा प्रागदिन एव पुण्यकालो नोत्तरदिने । तथा यद्य-स्तसन्ध्यामतिक्रम्य मकरसंक्रान्तिस्वदोत्तरदिन एव पुण्य-कालोनोत्तरदिने इति निष्कृष्टोऽर्थः । अतो वृद्धगार्ग्यादिवाक्यनारदवाक्ययोः प्रदोषसन्ध्यापदोपादानेन सामान्य-विशषमावोऽवगन्तव्यः । यत्तु हेमाद्रौ स्कन्दपुराणीयं वा-क्यम् “धनुर्मीनावतिक्रम्य कन्यां च मिथुनं ततः । पूर्वापर-विभागेन रात्रौ संक्रमते यदा । दिनानान्ते पञ्च नाड्र्यस्तुतदाः पुण्यतमाः स्मृताः । उदये च तथा पञ्च दैवे पित्र्येच कर्मणि” इति । तदपि सन्ध्याविषयकमेवेत्याहुरभि-युक्ताः । वषुवे तु यथाश्रुतम् एवेति, अन्यदपि सन्ध्या-लक्षणप्रयोजनं प्राक्सन्ध्यागर्जित इत्यादिषु वक्ष्यति ।ननु नायमयनपुण्यकालोक्त्युद्यमः सफलः शास्त्रान्तर-विरुद्धत्वात्तथा हि “अह्नि संक्रमणे पुण्यमहः कृत्स्नंप्रकीर्त्तितम् । रात्रौ संक्रमणे भानोर्दिनार्द्धं स्नानदा-नयोः । अर्द्धरात्रादधस्तस्मिन् मध्याह्नस्योपरिक्रिया ।ऊर्द्धं संक्रमणे चोर्द्ध्वमुदयात् प्रहरद्वयम् । पूर्णे चेद-र्द्धरात्रे च यदा संक्रमते रविः । प्राहुर्दिनद्वयं पुण्यंमुक्त्वा मकरकर्कटौ” इति वृद्धवसिष्ठेनायनव्यतिरिक्तेषुदशसु संक्रमेषु रात्रिगतेषु “यायाः सन्निहिता नाड्य-स्तास्ताः पुण्यतमाः स्मृताः” इति कश्यपोक्तसामान्यवा-क्याद्रात्रावेवानुष्ठानं प्रसक्तमहः संक्रम इत्यादिनाप्येत-देवानुष्ठानं विहितं तस्यापि पर्युदासः क्रियते मुक्त्वा म-करकर्कटाविति तस्मान् मकरकर्कटयोः संक्रमणे रात्रा-वेवानुष्ठानं कर्त्तव्यमित्युक्तं भवति अतएवाह याज्ञव-ल्क्यः “राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु । स्नान-दानादिकं कार्यं निशि काम्यव्रतेषु च” इति वसिष्ठोऽपि“सुतजनने संक्रान्तावुपरागे चन्द्रसूर्ययोर्नियतम् । रात्रावपि कर्त्तव्यं स्नानं दानं विशेषतो नॄणामिति” सुमन्तुश्च“ग्रहणोद्वाहसंक्रान्तियात्रार्त्तिप्रसवेषु च । श्रवणेचेतिहासस्य रात्रौ दान प्रशस्यते” इति । एषु वाक्येषुसामान्यवाचिनोऽपि संक्रातिपदस्य मकरकर्कटसंक्रान्ति-परत्वमवसीयते यस्तु “रात्रौ स्नानं न कुर्वीत दानं चैवविशेषतः” इति निषेधः स संक्रान्त्यन्तरे व्यवतिष्ठते अत-एवोक्तं कश्यपेन “स्नानं दानं ग्रहणवत् सौम्ययाम्या-यनद्वये” इति । तस्मादयनसंक्रमे रात्रौ सत्यां तत्रैवस्नानदानाद्यनुष्ठातव्यमितिः । अत्राहुः शास्त्रद्वयेन तुल्य-बलत्वाद्विकल्पसिद्धौ तत्तद्देशप्रसिद्धशिष्टाचारेण व्यवस्थादष्टव्या । तत्र गौर्जरास्तु कश्यपादिवाक्यमभ्युपेत्य रात्रा-वयनसम्भवे सति रात्रौ एव स्नानदानादिकं कुर्वन्ति ।दाक्षिणात्यास्तु वृद्धगार्ग्यादिवाक्यमङ्गीकृत्य दिवस एवस्नानदानादि कुर्वन्तीत्यलमतिप्रसङ्गेन । यदा तु दिने क-र्कमकरसंक्रमस्तदा क्रमेण पूर्वोत्तरघटिकानियममाह वृद्धवसिष्ठः “अतीतानागते पुण्ये द्वे तूदग्दक्षिणायने ।त्रिंशत् कर्कटके नाड्यो मकरे विंशतिः स्मृता” इति । उत्त-रायणमतीतं सत् पुण्यं कर्कटायनमागामि पुण्यं तत्रकर्कटसंक्रान्तेः प्राक्त्रिशत् घटकिः पुण्याः मकरेतूत्तरविंशतिर्घटिकाः पुण्या इत्यर्थः । अत्र वाक्ये यद्यपिदिनपदानुपादानं तथापि यदास्तमयवेलायामिति रात्रिपरविशेषवाक्यालोचनादिदं दिनपरं प्रतिभाति तथ-सति केनापि हेतुना समीपथटीषु श्राद्धाद्यनुष्ठानासम्भवेपरमावधित्वेन त्रिंशदादयो घटिका अत्रानुज्ञायन्ते यदातु प्रतिबन्धस्तदा “यायाः सन्निहिता नाड्यस्तास्ताः पूण्य-तमाः स्मृता” इति कश्योपोक्तेः समीपघटिकास्वेवश्राद्धादि विधेयं “सन्निहितपरित्यागे कारणाभावादितिंन्यायच्चि” । “अथ पूर्वापराः षोडश घटिकाः पुण्याइति पूर्वं सामान्येनोक्तमिदानीं विष्णु पदादिषु स क्र-मेषु विशेषमनुष्ट भाह याम्यति । याम्यायने कर्कमं-क्रान्तौ तथा विष्णुपदे वृषसिंहवृश्चिककुम्भसं क्रान्तिकालेआद्याः नाड्यः प्रथमाः षोडशघटिकाः अतिपुण्टदाःस्नानदानादावनन्तफलदाज्ञेयाः अपिमास्तु न तथेतिनिष्कृष्टोऽर्थः । तुलाजयोस्तुलामेषयोः मध्या उभयतःषोडश षोडश घटिकाः पुण्याः अथ वा षोडशैव घटिकाःपुण्या । षडशीत्यानने मिथुनकन्याधनुर्मीनसंक्रान्तिषुतथा सौम्ये मकरसंक्रातौ संक्रान्तिकाल त्परा अग्रिमाःषोडश घटिकाः अतिपुण्यदाः प्रथमास्तु न तथेति निष्-कृष्टोऽर्थः । यदाह श्रीपतिः याम्यायने विष्णुपदेतथादौदानाद्यनन्तं विषुवे च मध्ये । वदन्त्यतीते षडशीतिवक्त्रेमहर्षयः खल्वयने च सौम्ये” । तत्र कर्के प्रागेव मकर-संक्रान्तौ पश्चादेव पुण्यकाल इति तु प्राङ्निरणायि ।विष्णुपदे तु अग्रिमादिघटीनां पुण्यकाले तरतमभावः“पुण्यायां विष्णुपद्यां च प्राकपश्चादपि षोडशेति” वृद्ध-वसिष्ठोक्तेः । विषुवे तु सामान्यनिर्णय एवेति केचित्दीपिकाटीकाकारस्त्वेवमाह “मेषे तुलायां संक्रान्तिमध्य एव संक्रान्तिकालात्पूर्वमष्टौ घटिकाः परतश्चाष्टौघटिका पुण्य इति” । युक्तं चैतत् । विषुवे च मध्यपदो-पदानान् मध्ये षोडश धटिकाः पुण्याः इत्युच्यते अस्पात्कालान् मध्य इत्यपेक्षायां संक्रान्तिकालादेवेत्यतः पूर्व-भष्टौ पश्चाच्चाष्टौ घटिकाः पुण्या इत्यर्थः । यत्तूक्तं वृह-स्पतिना “वर्त्तमाने तुलामेषे नाड्यस्तूभयतो दश” इति ।तुलामेषसक्रान्तिकालात् प्राक्पश्चाच्च पञ्च पञ्च ष्टट्यः पुण्याइत्युक्तम् यदप्युक्तम् आद्यन्तसापेक्षत्वान् मध्यशब्दस्यगणितागतपुण्यकालघटिकानां मध्ये त्रिभागः स्थूलदृशादशघटिकात्मको भवतीति । “यायाः सन्निहिता नाड्य”इति कश्यपोक्तेः । षडशीतिमुखेऽप्याद्याग्रिमघटीनांपुण्यकाले तरतमभावः । यत्तु षडशीत्यां व्यतीतायां षष्टि-स्तुल्यास्तु नाडिका” इति वृद्धवसिष्ठवाक्यं तत् प्राग्घ-टीषु प्रतिवन्धवशात् श्राद्धादेरसम्भवे सत्यन्तिमघटीषु श्रा-द्धादिक्रियाभ्यनुज्ञायाः परमावधिकालेयत्तार्थम् । इदंसर्वं दिनसंक्रान्तिविषयं वेदितव्यम् “अह्नि सं क्रमणेपुण्यमहः कृत्स्वं प्रकीर्त्तितम्” इति सामान्यवाक्यस्यसौम्यायने विष्णुपदे इत्यस्य च विशेषवाक्यस्यैकवाक्यता ।अतएव “रात्रौ संक्रमणे भानोर्दिनार्द्धं स्नानदानयोः”इति रात्रिपरविशेषस्य सत्त्वाच्च । एवं निर्णीते पुण्यकालेस्नानदानाद्यवश्यं विधेयमिति फलितोऽर्थः । तत्र स्ना-नदानाद्यकुर्वतश्च प्रत्यवायमाह वसिष्ठः “इति सञ्चिन्त्य-विनिर्णयमादेष्टव्यं सदैव दैवज्ञैः । विषुवत्यसने ग्रहणेसंक्रान्तौ पुण्यदिवसेऽपि । पितृतृप्तिं यो न कुरुतेदत्त्वा शापं व्रजति तस्य पिता । आगतगतसमयेऽपि चकरोति यद्दानजपहोमाद्यम् । ऊषरवापितवोज यद्वत्तद्वच्च निष्फलं भवतीति” । अयते अयनघ्रवृत्त्याख्ये हलसंक्रमणे आगतसमये निर्णीते पुण्यकालातिक्रमसमयेस्नादि निष्फलमित्यर्थः । संक्रान्तिषु स्नानदानादेः फ-लमाह भरद्वाजः “षडशीत्यां तु यद्दानं विषुवद्वितयेतथा । दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृशते” । वृद्ध-वसिष्ठोऽपि “अयने कोटिः पुण्यानि सहस्रं यिषुवे फ-लम् । षडशीत्यां सहस्रन्तु फलं विष्णुपदेषु च” इत्यल-मतिप्रसङ्गेन । इति सूयसङ्क्रान्तिनिर्णयः । अथ नायंकेवलं सूर्यसङ्क्रमण एव पुण्यकालः किन्तु चन्द्रादीनांग्रहाणां नक्षत्रसङ्क्रमे राशिसङ्क्रमे च पुण्यकालोभवति सोऽपि सोपपत्तिकः प्रसङ्गतः प्रोच्यते अस्माभिःयदाह जैमिनिः “नक्षत्रराश्यो रविसङ्क्रमे स्युरर्वाक्परत्रापि रमेन्दुनाद्यः १६ । पुण्यास्तथेन्दोस्त्रिघरापलै-र्पुक् शुभैकनाडी १ । १३ सुनिभिः शुभोक्ता । नाद्ध्यश्चतस्रःषपलाः कुजस्य ४ । १ बुधस्य तिस्रो मनवः पलानि ३१४अब्ध्यब्धिनाड्यः पलसप्तयुक्ता गुरौ च ४४ । ७ शुक्रे सप-लाश्चतस्रः ४ । १ । द्विनागनाड्यः पलसप्तयुक्ताः ८२ । ७शनैश्चरस्याभिहिताः सुपुण्याः । आद्यन्तमध्ये जपदा-नहोमं कुर्वन्नवाप्नोति सुरेन्द्रधाम” । अस्यार्थः सूर्यस्यनक्षत्रसंक्रमे राशिसंक्रमे च प्राक्परतश्च षोडश घटिकाःपुण्याः एवं चन्द्रस्यैकधटी त्रयोदश पलानि । भौमस्यचतस्रो घटिका एकं पलम् । बुधस्य तिस्रो घटिकाश्चतु-र्दश पलानि, गुरोश्चतुश्चत्वारिंशत्घटिकाः सप्त पलानिशुकस्य चतस्रो घटिकाः पलमेकं, शनेर्द्व्यशीतिघटिकाःसप्त पलानि चोभयतः पुण्यकाल इत्थर्यः । अत्रोपपत्तिः ।“भानोर्गतिः स्वदशभागयुतार्द्धिता वा बिम्बं विधोस्त्रिगु-णितायुगशैलभक्ता ७४ । तिथ्यद्रि ७१५ हीनशशिभुक्तिरिषुद्वि २५ भक्ता नन्दाक्षि २९ युग्भवति वा विधुविम्बमे-वमिति” सिद्धान्तशिरोमण्युक्तप्रकारेण रविचन्द्रयोर्मा-नकला आनेयाः “व्यङ्घ्रीषवः सचरणा ऋतवस्त्रिभा-गयुक्ताद्रयो नव च सत्रिलवेषवश्च । स्युर्मध्यमास्तनुकलाःक्षितिजादिकानां त्रिज्याशुकर्णविवरेण पृथग्विनिघ्ना ।इति तत्रैवोक्ताः भौमादूनां मानकलास्तत्र क्रमेणमानकलाः । तत्र “षष्टिघ्नविध्बं ग्रहभुक्तिभक्तं संक्रा-न्तिनाड्योऽखिलधर्मकृत्ये । रवेस्तु ताः पुण्यतमाग्रहःस्वसंक्रान्तिगोमिश्रफलं विधत्ते” इति भास्करोक्तदिशासंक्रान्तिनाड्ग्यः स्युः तत्र ग्रहभुक्तयस्तेबैवीक्ताः “न-न्दाक्षाभुजगारवेः शशिगतिः खार्काद्रयः क्ष्माग्नयस्तुङ्ग-स्याङ्गकलाः कुर्वेद ४४ विकलाः पातस्यरामाभवाः । माहे-यस्य महीगुणारसकरा ज्ञस्येषुसिद्धारदाः पञ्चेज्यस्य सि-तस्य षण्णवमिता अष्टौ शने र्द्वे कले” इति बुधशुक्रयोस्तुसंक्रान्तिघटिकानयने सूर्य्यगतिरेव हारः कल्प्यस्तद्गति-तुल्यत्वात्तयोः, वासनाभाष्ये हि बुधशुक्रौ तु रवेरासन्ना-वेव कदाचिदग्रतः कदाचित् पृष्ठतस्तस्यानुचराविव सदा-व्रजन्तौ दृश्येते । ततस्तयोरपि रविभगणतुल्या एवभगणा इत्युपपन्नमिति भास्करेणाभिहितत्वात् । पठ्य-मानानुगतिस्तच्छीघ्रयोः शीघ्रफलानयानार्थं वासनासिद्ध-जीर्णैः कल्पिता तदेवं ग्रहगतय इमास्त्रिप्रकारेण सा-धिताः पुण्यकालघटिकाः सूर्य्यस्य यथा त्रिंशत् घटिकाएवं चन्द्रस्य द्वे धटिके षड्विंशतिप्रलानि भौमस्य नव-घटिकाश्चत्वारिंत्पलानि बुधस्य षट्घटिकाः विंशतिपलानिगुरोरष्टाशीतिर्घटिका एवं शुक्रस्य नव घटिका अष्टौपलानि शनेः षष्ट्यधिकं शतं घटिकाः । पूर्वापरकालौमिलित्वा पुण्यकाल इत्यर्थः । अत्र वासना प्रागुक्ताएतदर्द्धा नाद्ध्य प्राक्परतश्चपुण्या । अत्र गणितागतघटी-पलेषु लिखितजैमिनिवाक्ये च क्वचित् किञ्चित्पलभेदोघटिकाभेदश्च सगतिस्पष्टकृतिवशतः । युक्तं चैतत् आकाशेहि वेधादिना स्पष्टा एव स्वगा दृश्यन्ते न मध्यमाः“दिनद्वयस्पष्टखगान्तरालकालः स्फुटस्तु स्फुटभुक्तिबिम्बै-रिति” स्पष्टगत्यैव बिम्बसंक्रान्तिघट्यानयनमुचितम् उक्तञ्चकेशवार्केण “कुजादिकानामपि बिम्बलिप्ताः षष्ट्यागुणाःस्वस्वजवेन भक्ताः । नाड्यादिकः संक्रमणान्तराल कालःस्फुटस्तु स्फुटभुक्तिविम्बैरिति” अपिशब्दात् सूर्यचन्द्रम-सोर्ग्रहणं तथा सति मध्यमाग्रेक्षया स्पष्टगतिबिम्बयो-रुपचयापचयाम्यां साम्यैस्तत्तद्घटिकानामप्युपचयापच-यसाम्यातिक्रमेणापतति तेषां चानियतत्वात्पद्ये उपनिब-न्धायोगाज्जीर्णैर्नियतमध्यगत्या सूर्य्यादीनां ग्रहाणांपुण्यकालघटीरानीयोपनिबन्धः कृतः । अत्र मत्कृतं प-द्यम् “नाड्यो रामगुणा ३३ रवेरथ विधोः षट्दोः पलै-र्युग्द्वयं २ । २६ भौमस्याब्धिपलैर्युतानव ९ । ४ विदो ६ । २० यु-क्ताः पलैः खाश्विभिः । षण्णाद्ध्योऽष्टगजा ८८ गुरोरथ भृगो-र्नन्दा ९ । ८ पलैरष्टभिः पुण्याः स्युः खनृपाः शने १६०रुभयतो राश्यृक्षयोः संक्रमे । अतो यो जैमिनिवाक्ये सा-र्द्धाश्चतस्रः पलसप्तयुक्ता गुरोरितिपाठो माधवादिभिरपाठितथा हेमाद्रिणापि द्विनागनाड्यः इति पदै नागा अष्टौद्विरावृत्ता नागा द्विनागाः षोडशनाडिकाः शनैश्चरसं-क्रान्तौ पुण्यकाल इति यत् व्याख्यातवान् तदुभयमपा-कृत भवति तथा रामचन्द्राचार्य्या अपि कालनिर्णयदीपि-कायां हेमाद्र्यादिमूलकममुमर्थं स्वपद्येनोपानिबध्नात्अतश्चिन्त्योक्तयोज्ञेयाः । तस्मात्सर्वग्रहाणां राशिनक्षत्रयोः संक्रान्तिषु पुण्यकालताप्यास्त । भास्करोऽपि “रवे-स्तु ताः पुण्यतषाः” इतिवदंश्चन्द्रादिसंक्रान्तिषु नाड्यःपुण्या इत्यसूचयत् । अतिशायने तमविष्ठनावितिपाणिनिवचनात् “ग्रहः स्वसंक्रान्तिगोमिश्रफलं विधत्ते”इति । सूर्य्यादिसंक्रान्तिसाधारणं तत्र सकलसंक्रान्तिषुदिनरात्रिविष्णुपदादिभेदेन सूर्यसंक्रमवन्निर्णयोध्येयः ।एतत्संक्रान्तिमान्यता हि गुर्जरदेशेऽस्तोत्यलं प्रसक्ता-नुप्रसक्तेन । इति सकलग्रहसंक्रान्तिनिर्णयः” पी० धा०करणभेदेऽर्कसंक्रान्तिफलं तत्रैवनारदः “निविष्टो वणिजे विष्ट्यां वालवे च यवे गरे ।कौलवे शकुनौ भानुः किंस्तुत्रे चोर्ङ्गसंस्थितः । चतुष्पा-त्तैतिले नागे सुप्तः क्रान्तिं करोति सः । धान्यार्धवृष्टिषु समंश्रेष्ठं हीनं भवेत्क्रमात्” क्रान्तिं संक्रान्तिम । रत्नमाला-यामपि “चतुष्पदे तैतिलनागयोश्च सुप्तो रविः संक्रमणंकरोति । विष्ट्यां ववाख्ये च गराह्वये च स बालवाख्येबणिजे निबिष्टः । किंस्तुघ्ननाम्नि शकुनावपि कौलवाख्येचोर्द्ध्वस्थितस्य खलु संक्रमणं रवेः स्यात् । धान्यार्घवृष्टिषुभवेत् क्रमशस्त्वनिष्टमध्येष्टतेति मुनयः प्रवदन्ति पूर्वे” इति ।“संक्रान्तौ ग्रहणर्क्षं वा जन्मन्युभयपार्श्वयोः । नेष्टंत्रयं षट्शुभदं पर्य्यायाच्च पुनःपुनः । हानिर्वृद्धिः स्थान-हानिस्तथा प्राप्तिरिति क्रमात्” नारदेनोक्तम् ।संक्रान्तेर्यन्नक्षत्रं ग्रहणनक्षत्रं वा यदि जन्मभं भवेदथ वाताभ्यामुभयपार्श्वगतं जन्मभं भवेत्तदा अनिष्टमेव नक्षत्रत्रयंनिषिद्धं तत्रो नक्षत्रषट्कं शुभं ततस्त्रिकेऽर्थहानिस्ततः षट्केवृद्धिः ततस्त्रिके स्थानहानिस्ततः षट्सु वृद्धिः षट्सु स्थान० प्राप्तिरिति । अतएव पठन्ति दाक्षिणात्याः “संक्रान्त्यधर-नक्षत्राद्गणथेज्जन्मभावधि । त्रिकं षट्कं त्रिकं षट्कं त्रिकंषट्कमिति क्रमात् । पन्थाभोगो व्यथा वस्त्रं हानिश्चविपुलं धनम्” इति त्रिकं शुभं षट्कमशुभमिति फलितो-ऽर्थः” पी० धा० । अधिकमयनसंक्रान्तिशब्दे ३३९ पृ० दृश्यम् ।स्थूलतया मेषादौ रविसंक्रान्तेर्वारदण्डाद्यानयनप्रकारःज्यो० त० उक्तो यथा“नवाष्टशक्र १४८९ हीनेन शकाव्दाङ्केन पूरिताः । भूर्वा-णचन्द्रावेकाम्नी कुरामौ वेदयुग्मके । १ । १५ । ३१ । ३१ । २४अङ्का अनुपलादेस्तु षष्ट्या लब्धाङ्कमिश्रिताः । दण्डात्खाग्नी हयेषू च ३० । ५७ पलाद्धित्वा ततः पुनः । सप्ता-वशिष्टा वाराः स्युस्ततो दण्डादिकाः परे । मेषस क्रमणेभानोः सिद्धान्तस्फुटसम्मताः । भुजौ षडिषूरामाग्नी २ ।५६ ३३ कालोजातिर्गजावनी । ६ । २२ । १८ रामश्चन्द्रो-ऽग्नियुम्मञ्च ३ १ २३ तर्कोऽङ्कदृक् नवाशुगौ । ६२९ ५९द्वावङ्कदृग् वेदवाणा २ । २९ । ५४ अब्धिर्वाणशरौ सुराः ।४ । ५५ । ३३ षस्मागवेदौ शून्येन्दू ६ ४८ १० एकं शैल-भुवौ शराः । १ । १७ । ५ । द्वौ षडग्नी तथा काला २ । ३६ ।६ अब्धीरामः शराचनी । ४ । ३ । १५ । पञ्चाग्नीषू तथारुद्रा ५ । ५३ । ११ । मेषसंक्रमवारतः । अङ्कैर्योज्या वृ-षादेस्तु वाराद्याः संक्रमे रवेः” ।राशिभेदे संक्रान्तिनामभेद तत्संक्रमकाले स्वनक्षत्रस्य पुरुषा-कृतिसंक्रान्तिचक्रस्थानविशेषस्थितौ फलभेदश्च तत्रोक्तो यथामृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषे गोलमध्ये तथापराः । धनुर्मिथुनकन्यासु मीने चषडशीतयः । वृषवृश्चिककुम्भेषु सिंहे विष्णुपदी स्मृता ।मूर्ध्नि सप्त मुखे त्रीणि हृदये पञ्च विन्यसेत् । त्रितयं हस्त-पादेषु महाविषुवभक्रमात् । मस्तके भूपतेः सौख्यं वदनेपटुता शुभे । हृदये च धनाध्यक्षोऽर्थप्राप्तिर्दक्षिणे करे ।वामे करे महद्दुःखं सुखं पादे च दक्षिणे । भ्रमणंवामपादे च कथितं विषुवत् फलम् । षड्मूर्ध्नि वदने पञ्चचत्वारि हृदये तथा । त्रितयं करपादेषु पयोविषुवतःक्रमात् । मानं मूर्ध्नि मुखे वैरं हृदये सुखसम्भवः । दोः-पदोर्दक्षयोर्भोगस्त्रासश्च वामयोः स्वभे” जलविषुवफलम् ।“शीर्षे पञ्च मुखे त्रीणि हस्तयोश्च त्रयं त्रयम् । हृदिपञ्च शशी नाभौ गुदे च पादयोरसाः । उत्तरायणभा-ज्ज्ञेयं स्वनक्षत्रस्थितेः फलम् । शीर्षेऽथ लाभो वदनेसुखानि दक्षे करेऽङ्घ्रौ हृदये च सौख्यम् । नाभौ शुभंवामकरेऽर्थनाशो गुह्ये भयं वामपदे प्रवासः उत्तरा-यणफलम् । “शीर्षे त्रीणि मुखे त्रीणि हृदये पञ्च ह-स्तयोः । अष्टौ पादद्वयेऽप्यष्टौ दक्षिणायनसंक्रमात् । शीर्षेमानो मुखे विद्या हृदये वित्तसञ्चयः । प्रवासः स्यात् करेवामे भिक्षालाभश्च दक्षिणे । निष्फलं वामपादे च कि-ञ्चिल्लाभश्च दक्षिणे” दक्षिणायनफलम् । “ऋक्षे संक्रमणंयत्र विष्णुपद्यां मुखे तु तत् । चत्वारि दक्षिणे वाहौत्रीणि त्रीणि पदद्वये । चत्वारि वामवाहौ च हृदयेपञ्च निर्दिशेत् । अक्ष्णोर्द्वयं द्वयं योज्यं मूर्ध्नि द्वे चैककंगुदे” “रोगो भोगस्तथा यानं बन्धनं लाभ एवच । ऐश्वर्य्यं राजपूजा च अपमृत्युरिति क्रमात्”विष्णुपदीफलम् “मुखे चैकं करे वेदाः पादयुग्मे द्वयंद्वयम् । क्रोडे वाणस्तथा वेदाः करे सव्येतरेऽपि च ।द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा । द्वयञ्चैव तथागुह्ये षडशीत्यां स्वभे स्थिते । मुखे दुःखं करे लाभःपादयोर्भ्रमणं हृदि । कान्ता स्याद्बन्धनं वामे हस्तेस्यात् स्त्रीयभेनॄणाम् । सम्मानो नेत्रयोश्चैव अपमानश्चमस्तके । गुह्ये चैव भवेन्मृत्युः षडशीतिफलश्रुतिः” षड-शीतिफलम्” । गुरुसंक्रान्तिफलमुक्तं ज्यो० त० यथा“शीर्षे चत्वारि राज्यं जलधिरपि करे दक्षिणे चापिसौख्यं चैकं कण्ठे विभूतिं मदनशरसितं वक्षसि प्रीति-सङ्गम् । पादस्थाः षट् च पीडा पुनरपि जलधिर्वाम-हस्ते च मृत्युं नेत्रे त्रीणि प्रदद्युः सुखमथ निजभेवाकपते संक्रमर्क्षात्” ।संक्रान्तिपुण्यकालव्यवस्था ति० त० संक्षेपतो दर्शिता यथा“तदयं संक्षेपः । दिनसंकमणे कृत्स्नं दिनं पुण्यं षड-शीति मुखे” इत्याद्युक्तं पुण्यतरं मन्दामन्दाकिनी-त्यादि रूपेण त्रिचतुरादिघटिकाः पुण्यतमाः । दिन-वृत्तोत्तरायणादिविहितविंशतिदण्डादीनां रात्रिप्रविष्ट-भागस्यापि पुण्यत्वं रात्रिसंक्रमणे तु कलान्यून प्रथमा-र्द्धगते तद्दिवसीयशेषयामद्वयं पुण्यम् । कालद्वयात्मक-मध्यरात्रगते तद्दिवसीयतिथेरभेदे तद्दिवसीयशेषयामद्वयंपुण्यं भेदे तु तद्दिवसीयशेषयामद्वयं परदिवसीयाद्यया-मद्वयञ्च पुण्यम् । उभयदिने पुण्यकालेऽपि पूर्वदिनाकरणएव परदिने तद्विहितं कार्य्यम् । तिथिभेदाभेदयोर्द-क्षिणायने तद्दिवसीयशेषयामद्वयम् उत्तरायणे तु पर-दिवसीयाद्ययामद्वयं पुण्यमिति मध्यरात्रीयकलोत्तरशेषार्द्धरात्रसंक्रमणमात्रे तु परदिनाद्ययामद्वयं पुण्य-मिति सन्ध्यासंक्रमणे तु दिनदण्डे दिनस्य रात्रिदण्डेरात्रेर्व्यवस्थितिः” । तत्प्रमाणं ति० त० दृश्यम् ।संक्रान्तौ कालाशुद्धिदोषादिकं नास्ति यथोक्तं ति० त० स्कान्दे“एकान्ततो मया प्रोक्ताः कालाः संक्रान्तिसंज्ञकाः । नैतेषुविद्यतेऽनिष्टं यतश्चाक्षयसंज्ञिताः । अश्रद्धयापि यद्दत्तंकुपात्रेभ्योऽपि मानवैः । अकालेऽपि हि तत्सर्वं सत्य-मक्षयतां व्रजेत्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
