| YouTube Channel

ष्विदा (SvidA)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्विद्
मूलधातुः:
ष्विदा
धात्वर्थः:
गात्रप्रक्षरणे
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
स्विद्यति
अनुबन्धादिविशेषः:
पुषादिः
क्षीरतरङ्गिणी
Sanskrit
ष्विदा गात्रप्रक्षरणे
- (अर्थविवरणम्) गात्रप्रक्षरणं घर्मस्रुतिः
स्विद्यति सिष्वेद अष्विदत् असिस्विदत् स्वेत्ता स्विन्नः स्विन्नमनेन, स्वेदितमनेन, प्रस्विन्नः प्रस्वेदितः (द्र0 7217) भ्वादौ (1493 पाठा0) स्वेदते 76
धातुवृत्तिः
Sanskrit
ष्विदा (अर्थः) गात्रप्रक्षरणे
(अर्थविवरणम्) गात्रप्रक्षरणं घर्मस्रुतिः
ञिष्विदेति मैत्रेयादयः तथा "निष्ठाशीङ्'' इत्यत्र न्यासेऽप्ययं ञिदेवोदाहृतः अस्य ञित्त्वं हरदत्तस्यानभिमतम्, यदाह "निष्ठा शीङ्'' इत्यत्र "ञिष्विदास्नेहनमोचनयोः'' इति ञितो ग्रहणं तु ष्विदा गात्रप्रक्षरणइतिदैवादिकस्य , ञिद्भिस्साहचर्यात्, अस्य चाञित्त्वात्'' इति इदमेवानुसृत्य "ञित्वं तस्यापपाठ' इति पुरुषकारेऽप्युक्तम् तथा अनिट्कारिकावृत्तौ "स्विद्यतीति श्यना निर्देशो ञिष्विदेतत्यस्य निवृत्यर्थ' इति यद्ययमपि ञित्स्यात्, अनेन किं व्यावर्त्तितं स्यात् यद्येवं "निष्ठा शीङ्'' इत्यत्र "ञितां ग्रह' इति हरदत्तोक्तिरस्यानिट्त्वादेवाग्रहणसिद्धेरयुक्तेति चेन्न, भावादिकर्मणोः प्रस्वेदितमित्यादौ सेट्त्वम्भवात् ( स्विद्यति सिष्वेद, सिष्वेदिथ, सिष्वेदिव, ) क्रादिनियमादिट् ( स्वेत्ता स्वेत्स्यति स्विद्यतु, अस्विद्यत् स्विद्येत्, स्विद्यात्, ) लिङौ ( अस्विदत् सिष्वित्सति सेष्विद्यते सेष्वित्ति स्वदेयति असिष्विदत् सिस्वेदयिषति ) "सस्विदि'' इत्यादिना ऽभ्यासेणः परस्य सकारस्य "स्तौतिण्योरेव'' इति नियमापवादस्सकारः ( स्विन्नः ) "ञिष्विदा स्नेहनमोचनयोः'' इति द्यौतादिकाद् "द्युद्भ्यो लुङि'' इति परस्मैपदे ( अस्विदद् ) इति सिद्धावपि पुषाद्वावस्य पाठोऽर्थभेदात् 80
कृदन्तरूपमाला
Sanskrit
1 {@“ष्विदा गात्रप्रक्षरणे”@} 2 ‘गात्रप्रक्षरणे स्विद्येत, स्वेदते स्नेहमोकयोः।’ 3 इति देवः।
सर्वाण्यपि रूपाणि दैवादिकक्रुध्यतिवत् 4 बोध्यानि।
‘निष्ठा शीङ्- स्विदि--’ 5 इत्यत्र ञीतां क्ष्विदादीनां साहचर्यात् ञीतो भौवादिकस्यैव ग्रहणमिति पदमञ्जरी।
अयमपि ञीत् इति न्यासकारः।
तत्तु पुरुषकारे धातुवृत्तौ खण्डितम्।
भावादिकर्मणोः प्रस्वेदितम्-प्रस्वेदितः इत्यस्यापि रूपे।
आदित्त्वमस्य सर्वसम्मतम्।
अयं परस्मैपदी, भौवादिकस्तु आत्मनेपदीति
अयमनिट्, भौवादिकः सेट् इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१८९५)
02
=>
(४-दिवादिः-११८८। अक। अनि। पर।)
03
=>
(श्लो। १०७)
04
=>
(२७७)
05
=>
(१-२-१९)