| YouTube Channel

ष्विद (Svida)

 
Wilson
English
ष्विद (ञि आ) ञिष्विदा r. 1st cl. (स्वेदते) r. 4th cl.
(स्विद्यति)
1 To perspire, to sweat.
2 To be greasy or unctuous.
3 To be fascinated, to be tempted or deluded.
4 To quit, to yield.
शब्दकल्पद्रुमः
Sanskrit
ष्विद, ञि स्विदि इति कविकल्प-द्रुमः
(दिवा०-पर०-अक०-अनिट् ।) ऌ, अस्विदत् औ, स्वेत्ता य, स्विद्यति आ, स्वेदितं स्विन्नं तेन ञि, स्विन्नोऽस्ति स्विदीतिमोहस्नेहमोक्षेष्विति वोपदेवः गात्रप्रक्षरणेइति प्राञ्चः स्विद्यति तस्याङ्गमितिहलायुधः
इति दुर्गादासः
ष्विद, ञि मोहस्नेहमोक्षेषु इति कवि-कल्पद्रुमः (भ्वा०-आत्म०-अक०-सेट् ।) ञि, स्विन्नोऽस्ति
आ, स्वेदितं स्विन्नं तेन ङ, स्वेदते तिलः तैलं मुञ्चति इत्यर्थः ऌ, अस्वि-दत् स्नेहः स्निग्धीभावः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ष्विद मोहे म्नेहे अक० मोचने
सक०
भ्वा०
आ० लुङि उ०सेट् स्वेदते अस्विदत् अस्वेदिष्ट
ष्विद गात्रप्रक्षरणे अक० दि०
पर०
अनिट् स्विद्यति ऌदित् अस्विदत् ।इति श्रीतारानाथतर्कवाचस्पतिभट्टचार्य्य-सङ्कलिते वाचस्पत्याभिधाने षकारादिशब्दार्थसङ्कलनम्