| YouTube Channel

ष्वद (Svada)

 
Wilson
English
ष्वद r. 1st cl. (स्वदते) r. 10th cl. (स्वादयति)
1 To taste.
2 To be pleasing.
3 To cover
also स्वाद.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्वद्
मूलधातुः:
ष्वद
धात्वर्थः:
आस्वादने (अनुभवः)
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्वदते
धातुः:
स्वद्
मूलधातुः:
ष्वद
धात्वर्थः:
आस्वादने (अनुभवः)
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
स्वादयति-ते
धातुप्रदीपः
Sanskrit
ष्वदँ ष्वद
मानकरूपान्तरम् - स्वर्दँ
स्वर्द आस्वादने
- आद्यः षोपदेशः, नेतरः तदुक्तम् (11) अज्दन्त्यपराः सादयः षोपदेशाः ष्मिङ्ष्विदिष्वदिष्वञ्जिष्वपयश्च सृपिसृजिस्तृस्त्यासेकृसृवर्जम् (महा0 6/1/64) इति स्वदते असिष्वदत् सः स्विदिस्वदिसहीनाञ्च (8/3/62) इति षत्वस्यापवादः सत्वम् सिस्वादयिषति स्वर्द्दते सिस्वर्दयिषति ह्रस्ववत्प्रकरणे स्वदतिं निर्द्दिश्य रेफवत्संयोगान्तप्रकरणे स्वर्द्दतिं निर्दिष्टवान् स्वादतिस्तु दीर्घोपधप्रकरणे पृथगेव निर्देष्टव्यः ।। 18, 19 ।।
ष्वदँ ष्वद आस्वादने
- आस्वादयति यवागूम् असिष्वदत् 250
शब्दकल्पद्रुमः
Sanskrit
ष्वद, स्वादे छेदे इति कविकल्पद्रुमः
(चुरा०-पर०-सक०-सेट् ।) स्वादो रसो-पादानम् क, स्वादयति क्षीरं लोकः इतिदुर्गादासः
ष्वद, प्रीतिलिहोः इति कविकल्पद्रुमः
(भ्वा०-आत्म०-अक०-सेट् ।) प्रीतिः प्रीती-करणम् लिट् रसोपादानम् ङ, अपां हितृप्ताय वारिधारा स्वादुः सुगन्धिः स्वदतेतुषारा इति श्रीहर्षः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ष्वद स्वादे छेदने
चु०
उभ०
सक०
सेट् स्वादयति तेअसिष्वदत्
ष्वद प्रीतौ लेहने
भ्वा०
आ०
सक०
सेट् स्वदते अस्वदिष्ट
क्षीरतरङ्गिणी
Sanskrit
ष्वदँ ष्वद
मानकरूपान्तरम् - स्वर्दँ
स्वर्द आस्वादने
(अर्थविवरणम्) आस्वादनं जिह्वाया लेहः
चैत्राय स्वदते षोपदेशत्वाद् इण्कोः, आदेशप्रत्यययोः (8357-59) इति षत्वम् - असिष्वदत् स्तौतिण्योरेव षणि (द्र08361) इति नियमात् षत्वं नास्ति - सिस्वदिषते, सिस्वादयिषतीति सः स्विदिस्वदिसहीनां (8362) षत्वाभावः स्वदनः कृत्वापाजिमिस्वदीत्यादिना (द्र0उ011) उण् - स्वादुः चुरादौ ष्वद संवरणे (10228) स्वादयति स्वर्दोऽषोपदेशः, यत् स्मृति - अज्दन्त्यपराः सादयः षोपदेशाः स्मि-स्विदि-स्वञ्जि-स्वपयश्च, सृपि सृजि-स्तॄस्तृ-स्त्या-सेकृ-सृवर्जम् (तु0भा06164) स्वर्दते, असस्वर्दत् 18, 19
ष्वदँ ष्वद संवरणे
- स्वादयति, सिस्वादयिषति (द्र0 8362) भ्वादौ ष्वद आस्वादने (118) स्वदते 252
धातुवृत्तिः
Sanskrit
ष्वदँ ष्वद
मानकरूपान्तरम् - स्वर्दँ
स्वर्द (अर्थः) आस्वादने
संवरण इति क्षीरस्वामी (अर्थविवरणम्) आस्वादनमनुभवः
अत्रायं सकर्मकः स्वदन्ति देवा उपा निहव्येति दर्शनात् छान्दसं परस्मैपदम् तथा स्वादनइति ण्यन्तेनार्थनिर्द्देशाच्च सकर्मकोऽयम् यद्वक्ष्यति चुरादावास्वादने सकर्मक इति अस्यार्थस्यत्र प्रपत्र्चयिष्यते यदायमनेकायां धावत इति रुचौ वर्त्तते तदाऽकर्मकः आद्यः षोपदेशःतदुक्तं भाष्ये "अज्दन्त्यपराः सादयः षोपदेशाः स्मिङ्स्विदिस्वदिस्वञ्जिस्वपयश्च'इति प्रायेणायमाङ्पूर्वः ) ( आस्वदतेरसम् )इत्यादि ददिवत् रुच्यर्थत्वे खल्वपि ( दधि स्वदते देवदत्ताय ) ( सूत्रम्) रुच्यर्थानां प्रीयमाणः (इति सूत्रम्) इति तर्प्यमाणस्यैषां प्रयोगे संप्रदानत्वाद्देवत्ताच्चतुर्थी अन्यकर्तृकोऽभिलाषो रुचिरिति वृत्तिः अत्र हरदत्तः योभिलाषास्याश्रयः प्रीयमाणः ततोऽन्यकर्तृक इत्यर्थः कथं पुनरन्याश्रयस्याभिलाषस्यान्यः कर्ता भावति, यावता यदाश्रयव्यापारं धातुः प्राधन्येनाष्टे कर्त्ता नेदं कर्तृलक्षणं किं तर्हि स्वातन्त्रयमेव, तच्च क्कचिद्वास्तवं क्क चिद्वैवक्षिकम् तत्र माधुयांतिशयेन ह्मविषयं देवदत्ताश्रयमभिलाषं जनद् दधि तत्र कर्त्तेति गीयत इति अत्र ( सूत्रम्) सात्पदाद्योः (इति सूत्रम्) इति सातिप्रत्ययपदाद्योः सकारस्य षत्वनिषेधादिणः परत्वेपि षत्वम् कर्मादौ स्वद्य इत्यादि, सिस्वदिषते ( सूत्रम्) स्तौतिण्योरेव षण्यभ्यात् (इति सूत्रम्) इति षत्वं, कृतषत्वे सति यदि भावति स्तौतिण्यन्तानामेवेति सूत्रार्थः ( सास्वद्यते सास्वदीति सास्वत्ति स्वादयति स्वादयते असिष्वदत् ) शेषं पूर्ववत् ण्यन्तात्सनि "स्तौतिण्योरेव' इति नियमात् षत्वे प्राप्ते तदपवादः "सः स्विदिस्वदिसहीनां च'' इति सकारो विधीयत इति ( सिस्वादयिषतीति भवति )ये त्वमुं दन्त्यार्दि पठन्ति, तेषामिदं सत्ववचनं कधमर्थवदिति त्र एव प्रष्टव्याः ( स्वर्दते सस्वर्दे ) सस्वर्दे ) इत्यादि स्वदिवत् अर्जदन्त्येति षोपदेशलक्षणं केवलदन्त्यविषयमिति दन्त्योष्ठयपरोयं षोपदेशः अत एव दन्त्योष्ठयपराः ष्विद्यादयः स्वदीत्यादिना पुनः पठान्ते ( स्वादुः ) "कृवापाजिस्वदिसाध्यशूभ्य उण्'' इत्युण्प्रत्ययः स्वाद आस्वादन इत्यत्रैवाग्रे 19
कृदन्तरूपमाला
Sanskrit
1 {@“ष्वद आस्वादने”@} 2 ‘आस्वादनेऽर्थे स्वदते, स्वादयेदिति शब्णिचोः।’ 3 देवः।
‘संवरणे’ इति केचित्।
‘आस्वादनम् = जिह्वया लेहः’ इति क्षीरस्वामी।
‘अनुभवः’ इति माधवः।
‘स्वदन्ति देवा उभया निहव्या’ 4 इत्यत्र परस्मैपदं छान्दसम्।
रसम् 5 आस्वदमानः, दधि 6 स्वदमानं देवदत्ताय, 7 सिस्वादयिषु, 8 आस्वादनीं दावशोणितानाम्’ 9 इति विशेषरूपाणि।
सामान्यरूपाणि भौवादिककुर्दतिवत् 10 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८९०)
02
=>
(१-भ्वादिः-१८। सक। सेट्। आत्म।)
03
=>
(श्लो। १९३)
04
=>
(ऋक् ७-२-२)
05
=>
[[७। वस्तुतोऽकर्मकोऽयम्। धातोरत्र विवक्षावशेन सकर्मकत्वम्। विस्तरस्तु माधवीयादौ द्रष्टव्यः।]]
06
=>
[[८। ‘रुच्यर्थानां प्रीयमाणः’ (१-४-३३) इति रुच्यर्थस्यास्य धातोर्योगे देवदत्तस्य सम्प्रदानत्वात् चतुर्थी।]]
07
=>
[[९। ण्यन्तात् सनि उप्रत्यये रूपमेवम्। ‘सः स्विदिस्वदिसहीनां च’ (८-३-६२) इति सकारः। ‘स्तौतिण्योरेव--’ (८-३-६१) इति नियमस्य बाधकः।]]
08
=>
[[१०। ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बहुलग्रहणात् ण्यन्तात् कर्तरि ल्युट्
\n\n टित्त्वात् स्रियां ङीप्।]]
09
=>
(यादवाभ्युदये २०-३१)
10
=>
(२३०)
1 {@“ष्वद आस्वादने”@} 2 आस्वदीयः।
3 ‘आस्वादनेऽर्थे स्वदते स्वादयेदिति शब्णिचोः।’ 4 इति देवः।
सर्वाण्यपि रूपाणि चौरादिककालयतिवत् 5 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८९१)
02
=>
(१०-चुरादिः-१८०५। सक। सेट्। उभ।)
03
=>
[पृष्ठम्१३६९+ ३१]
04
=>
(श्लो। १०३)
05
=>
(१८५)