ष्मिङ् (SmiG)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit स्मि
ष्मिङ्
ईषद्धसने
भ्वादिः
अकर्मकः
अनिट्
आत्मनेपदी
स्मयते
इकारान्तः
धातुप्रदीपः
Sanskritष्मिङ् ईषद्धसने
- स्मयते । विसिष्मिये । स्मेता । विस्मापयते । विस्माययति । सिस्मयिषते । स्मेरम् । विस्मयः । स्मयः ।। 953 ।।
धातुवृत्तिः
Sanskritष्मिङ् (अर्थः) ईषद्धसने
एतदादयः स्वरन्त्यन्ता अनुदात्ता आत्मनेपदिनः (स्मयते सिष्मिये सिष्मियिढ्वे सिष्मियिध्वेसिष्मिये सिष्मियिवहे) "अचि श्नुधातु'' इत्यादिना इयङ् ( स्मेता स्मेष्यतेस्मयताम् अस्मयत स्मयेत स्मेषीष्ट अस्मेष्ट सिष्मयिष्यते) "स्तौतिण्योरेव'' इत्यषत्वम् "स्मिपूङ्रञ्ज्वशां सनि'' इतीट्, ( सेष्मीयते सेष्मेति ) ( मुण्डो विस्मापयते असिष्मपत् ) "नित्यं स्मयतेः'' इति हेत्वेककारके स्मयत्यर्थे आत्वं, तत्र पुक्, "भीस्म्योर्हेतुभये'' इति हेत्वेककारयोर्नित्यं तङ् अत्र भयग्रहणं चित्तविकारोपलक्षणं, तेन बिभेतेर्हेतुभये स्मयतेर्हेतुस्मय इत्यर्थो भवति यदा तु हेतुत एव स्मयो न भवति तदात्वं न, नापि तङ्नियम इति ( मुण्डो रूपेण विस्माययतीति भवति ) ( स्मेरं ) मुखम् "नमिकम्पि'' इति रः स्मित्वा स्मितम् ) अयमनादरे चुरादिः 929
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
कृदन्तरूपमाला
Sanskrit1 {@“ष्मिङ् ईषद्धसने”@} 2 षोपदेशोऽयम्।
‘ईषद्धासे स्मयेतेति स्माययेदित्यनादरे।’ 3 इति दैवे, तद्व्याख्याने पुरुषकारे च ‘स्मिङ्’ इति पठितम्।
4 सिस्मयिषकः-षिका, 5 विस्मापयमानः, 6 स्मयमानो विवक्षति, 7 स्मयः, 8 स्मेरः, स्मितम् इति विशेषरूपाणि।
सामान्यरूपाणि भौवादिककवतिवत् 9 बोध्यानि।
01 (१८८७)
02 (१-भ्वादिः-९४८। अक। अनि। आत्म।)
03 (श्लो। १५)
04 [[१। ‘स्मिपूङ्रञ्ज्वशां सनि’ (७-२-७४) इति सन्नन्ते इडागमः। ‘सनि ग्रहगुहोश्च’ (७-२-१२) इत्यस्यापवादः।]]
05 [[२। ‘भीस्म्योर्हेतुभये’ (१-३-६८) इति आत्मनेपदम्। ‘नित्यं स्मयतेः’ (६-१-५७) इति णिजन्ते सर्वत्र आकारः प्रकृतेः। आत्वे कृते पुगागमोऽपि भवति।]]
06 [[३। ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति लक्षणे शानच्।]]
07 [[४। ‘अज्विधौ भयादीनामुपसंख्यानम्’ (वा। ३-३-५६) इति अच्। अत्र ल्युडपवादो- ऽयमिति केचित्। स्मयनम् इत्यपि लक्ष्येऽस्ति इति केचित्।]]
08 [[५। ‘नमिकम्पिस्म्यजसकमहिंसदीपो रः’ (३-२-१६७) इति ताच्छ{??} रप्रत्ययः।]]
09 (१९८)
1 {@“ष्मिङ् अनादरे”@} 2 सक।
सेट्।
उभ।) ‘ईषद्धासे स्मयेतेति स्माययेदित्यनादरे’ 3 इति देवः।
‘मैत्रायादिसम्मतः पाठोऽयं चुरादिषु’ इति व्याख्यातारः।
रूपाणि यथा- सम्भवमूह्यानि।
01 (१८८८)
02 (१०-चुरादिः-१५७३। (पा।)
03 (श्लो। १५)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
