| YouTube Channel

ष्नु (Snu)

 
धातुप्रदीपः
Sanskrit
ष्णु प्रस्रवणे
- स्नौति स्नूयते प्रस्नुते गौः स्वयमेव प्राष्नोष्ट [गौः] स्वयमेव सुष्णाव स्नविता सुस्नूषति स्नुषा ।। 29 ।।
क्षीरतरङ्गिणी
Sanskrit
ष्णु प्रसवणे
- स्नौति स्नुक्रमोरनात्मनेपदनिमित्ते (7236) इतीट्-प्रस्नविता सुस्नूषति दुहस्नुनमां यक्चिणौ (3189) प्रस्नुते गौः स्वयमेव, प्रास्नेष्ट स्नुव्रश्चि (उ0 366) इति कित् सः-स्नुषा 26
धातुवृत्तिः
Sanskrit
ष्णु (अर्थः) प्रस्रवणे
( स्नौति सष्णाव स्नविष्यति स्नौतु अस्नौत् स्नुयात् स्नूयात् अस्नावीत् सुस्नूषति ) "स्तौतिण्योरेव'' इति षत्वं, ( सोष्णूयते सोष्णवीति सोष्णोति स्नावयति असुष्णुवत् ) कर्मणि ( स्नूयते सुष्णुवे, सुष्णुषे, सुष्णुध्वे सुष्णुवहे स्नोता स्नोतासे स्नोष्यते स्नूयताम् अस्नूयत स्नूयेत स्नोषीष्ट अस्नावि अस्नोषाताम् ) इत्यादि "स्नुक्रमोरनात्मनेपदनिमित्ते'' इत्यात्मनेपदेन समानपदस्थस्य स्नुक्रमभ्यां परस्य वलादेरार्द्धधातुकस्येण्निषेधः प्रस्नवितेवाचरति (प्रस्नवित्रीयत) इत्यत्रात्मनेपदेन समानपदस्थत्वेऽपि निषेधात्प्रागेवान्तरङ्गत्वादिडागमः प्रवर्त्ततइति पदमञ्जर्यादौ व्यवस्थापितम् अस्माभिरपि क्रामतावेवं प्रतिपादितम् स्यादिषु पक्षे चिण्वदिटि (स्नाविष्यत) इत्याद्युदाहार्यम् कर्मकर्त्तरि तु "न दुहस्नुनमां यक्चिणौ'' इति यक्चिणौ भवतः प्रस्नुते गौः स्वयमेव प्रत्नुता गौः स्वयमेव प्रास्नुत गौः स्वयमेव प्रस्नुवीत गौः स्वयमेव प्रास्नोष्ट गौः स्वयमेवेति ननु कर्मवदित्यतिदेशेन प्राप्ते "चिण्भावकर्मणोः'' इति चिणि "न दुहस्नुनमाम्'' इतिप्रतिषिद्धेऽपि "अचः कर्मकर्त्तरि'' इति वैकल्पिकश्चिण् पक्षे कस्मान्न भवति चैवं सति स्नुग्रहणमनर्थकं स्यादिति वाच्यम् तस्य यङ्निषेधार्थत्वेनाप्युपपत्तेः नैष दोषः कर्मवदित्यतिदेशेन नित्यं प्राप्तस्य चिणः विकल्पः, अस्य तु "न दुहस्नुनमाम्'' इति चिणोऽतिदेश एव निषिध्यते तथा वृत्तिः, प्राप्तविभाषेयमिति चोभयत्रविभाषाश्रयणेन चिणः प्रसङ्गः आश्रीयमाणेऽप्युभयत्रविभाषात्वे यतः परत्वात् "न दुहस्नुनमाम्'' इति प्रतिषेध एव भवष्यिति अत्रात्रेयो "न दुहस्नुनमाम्''इति चिण्वद्भावस्यापि निषेध इत्याह, सूत्रवृत्तौ यक्चिणोरेव निषेध इति, तस्याभिप्रायो मृग्यः (स्नुषा) "स्नुव्रश्चिकृत्यृषिभ्यः क्स'' इति क्सः युप्रभृतय उदात्ता उदात्तेतः तौतिस्त्वनुदात्तः 27