| YouTube Channel

ष्निह (Sniha)

 
धातुप्रदीपः
Sanskrit
ष्निहँ ष्णिह प्रीतौ
- स्निह्यति ''न स्निह्यति कस्यचित्'' सिष्णेह स्नेहिता स्नेग्धा स्नेढा अस्निहत् स्निग्धं स्नीढम् स्निक् स्निट् उष्णिक् 94
ष्निहँ ष्णिह स्नेहने
- स्नेहयति असिष्णिहत् सिष्णेहयिषति 39
क्षीरतरङ्गिणी
Sanskrit
ष्निहँ ष्णिह प्रीतौ
- स्निह्यति सिस्नेह स्नेग्धा, स्नेढा स्नेहिता स्निग्धः स्नीढः अस्निहत् ऋत्विग्दधृग् (3259) इत्युष्णिक् छन्दः चुरादौ स्नेहयति 88
धातुवृत्तिः
Sanskrit
ष्निहँ ष्णिह (अर्थः) प्रीतौ
स्निह्यति सिष्णेह, सिष्णेहिथ, सिष्णेग्ध, सिष्णेढ, सिष्णहिव, सिष्णिह्व स्नेहिता स्नेग्धा, स्नेढा स्नेहिष्यति, स्नेक्ष्यति स्निह्यतु अस्निह्यत् स्निह्येत् स्निह्यात् अस्निहत् सिस्निहिषति, सिस्नेहिषति, सिस्निक्षति सेष्णिह्यते सेष्णेग्धि, सेस्नेढि स्नेहयति असिष्णिहत् स्निहित्वा, स्नेहित्वा स्निग्ध्वा, स्निढ्वा स्निग्धः, स्नीढः, उष्णिक् ) "ऋत्विक्'' इत्यादिना उत्पूर्वास्निह्यतेः क्विन् उदोऽन्तलोपः तस्य षत्वं निपात्यते "क्विन्प्रत्ययस्य'' इति हकारस्य घत्वे जश्त्वे चर्त्वम् ( उष्णिहा ) अजादिपाठात् टाप् 92
ष्निहँ ष्णिह (अर्थः) स्नेहने
षोपदेशः ( स्नेहयति असिष्णिहत् ) स्निह्यतीति प्रीता दिवादि अत्र स्फिट स्नेहनइति क्वचित्कोशे दृश्यतेतद्धनपालशाकटायनमैत्रेयपदेवादिभिश्चिरन्तनैर्व्याख्यातृभिर्न लिख्यते 38