| YouTube Channel

ष्ना (SnA)

 
धातुप्रदीपः
Sanskrit
ष्णा शौचे
- स्नाति सस्नौ सिष्णासति सिष्णापयिषति निष्णातः प्रतिष्णातं सूत्रम् नदीष्णः ।। 43 ।।
क्षीरतरङ्गिणी
Sanskrit
ष्णा शौचे
- स्नाति निष्णाति ग्लास्नावनुवमां (1556) इति मित्त्वम्-प्रस्नपयति, अनुपसर्गाद् वा (द्र0 1555) स्नापयति स्नपयति निनदीभ्यां स्नातेः कौशले (8389) षत्वम् निष्णातः, नदीष्णः घञर्थे कः (द्र0 3358 वा0) प्रस्नः भ्वादौ ष्णै वेष्टने (1655) स्नायति स्नामदि (उ0 411) इति वनिप्-स्नावा, स्नायुः 40
धातुवृत्तिः
Sanskrit
ष्णा (अर्थः) शौचे
( स्नाति सस्नौ, सस्नाथ, सस्निथ, सस्निव स्नाता स्नास्यति स्नातु, स्नाहि, स्नानि अस्नात्, अस्नाताम्, अस्नुः, अस्नाः स्नायात्, स्नायाताम् ) आशिषि, ( स्नायात्, स्नेयात्, ) "वान्यास्य संयोगादेः'' इत्येत्वविकल्पः (अस्नासीत् सिष्णासति सास्नायते सास्नाति स्नापयति, स्नपयति, प्रस्नापयति ) "ग्लास्नावनुवमां च'' इत्यनुपसृष्टस्य वा मित्त्वम् "प्रतिष्णातम्'' इति सूत्रे षत्वम् सूत्रादन्यत्र ( प्रतिस्नातः) (निष्णातः, नदीष्णः ) "सुपि स्थ'' इत्यत्र "सुपि'' इति योगविभागात्कः, निनदीभ्यां स्नातेः कौशले'' इति षत्वम् कौशलादन्यत्र ( निस्नातः, नदीस्नातः ) सुस्नातं पृच्छति ( सौस्नतिकः ) [पृच्छतौ सुस्नातादिभ्य उपसङ्ख्यानम्] इति ठक् ( प्रस्नः ) "घञर्थे कविधानम्'' इति कः ( स्नानीयं ) चूर्णम् बाहुलकात्करणेऽनीयर् ( स्नात्वाकालिकः) मयूरव्यंसकादित्वात्तपुरुषः "समासेऽनञ्पूर्वे'' इति क्त्वो ल्यब्न भवति अनञ् इत्यस्य पर्युदासत्वाद् नञ्सदृशेनाव्ययेन क्वान्तस्य समासे विधिरिति मयुरव्यंसकादिषु पाठादेव वात्र ल्यपो नैव प्रसङ्गः ( ब्राह्मणस्नापकः ) ण्यन्ताण्णवुल् याजकादित्वात् षष्ठीसमासः स्नायतीति भौवादिकिस्य 42