ष्था (SthA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुप्रदीपः
Sanskritष्ठा गतिनिवृत्तौ
- तिष्ठति । संतिष्ठते । वितिष्ठते । अवतिष्ठते । तस्थौ । अभितष्ठौ । अधिष्ठास्यति । अध्यष्ठात् । स्थापयति । अतिष्ठिपत् । तिष्ठासति । तेष्ठीयते । निष्ठा । भूमिष्ठः । द्विष्ठः । त्रिष्ठः । उपस्थानीयो देवदत्तः । उपस्थानीयं देवदत्तेन । स्थास्नुः । स्थायुकः । स्थावरः । स्थायः । स्थितिः । स्थानम् । स्थिरः । स्थेयान् ।। 932 ।।
क्षीरतरङ्गिणी
Sanskritष्ठा गतिनिवृत्तौ
- स्थस्तिष्ठादेशः (द्र07378) तिष्ठति समवप्रविभ्यः स्थः (13 22) इत्यात्मनेपदम् सन्तिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते स्थाध्वोरिच्च (1217) समस्थित, समस्थिषाताम् आङः स्थः प्रतिज्ञाने (1322वा0) उपसंख्यानम्-अस्तिं सकारमातिष्ठते, शब्दं नित्यमातिष्ठते, नित्यत्वेन प्रतिजानीत इत्यर्थः प्रकाशनस्थेयाख्ययोश्च (1323) तिष्ठते कन्या छात्रेभ्यः, श्लाघह्नुङ्स्था (1434) इति सम्प्रदानसंज्ञा
संशय्य कर्णादिषु तिष्ठते यः (किरात 314) उदोऽनूर्ध्वकर्मणि, उद ईहायाम् (1324 सू0 वा0) गेह उत्तिष्ठते, मुक्तावुत्तिष्ठते
नेह-पीठादुत्तिष्ठति, ग्रामाच्छतमुत्तिष्ठति उपान्मन्त्रकरणे (1325) ऐन्द्रया गार्हपत्यमुपतिष्ठते, आग्नेय्याऽऽग्नीध्रमुपतिष्ठते , नेह-भर्तारमुपतिष्ठति यौवनेन, उपतस्थुः प्रकृतयः अकर्मकाच्च (1326) भोजन उपतिष्ठते उपाद् देवपूजासंगतकरणमित्रकरणपथिषु इति वाच्यम् (तु0 1325 वा0) आदित्यमुपतिष्ठते, गङ्गा यमुनामुपतिष्ठते, उपश्लिष्यतीत्यर्थः रथिकानुपतिष्ठते, मित्रीकरोतीत्यर्थः अयं पन्थाः स्रुघ्नमुपतिष्ठते, प्राप्नोत्यर्थः वा लिप्सायाम् (( 1325 वा0) भिक्षुर्दातॄनुपतिष्ठते, उपतिष्ठति वा अधिशीङ्स्थासां कर्म (1446) गृहमधितिष्ठति घुमास्था (6466) इतीत्त्वम्-स्थीयते उपसर्गात् सुनोति (8365) इति षत्वम्-अधिष्ठास्यति, अधिष्ठानम् स्थादिष्वभ्यासेन चाभ्यासस्य (8364) अधितष्ठौ उदः स्थास्तम्भोः पूर्वस्य (8461) इति सस्य थः, झरो झरि सवर्णे (8465) इति तस्य लोपः-उत्त्थितः गातिस्था (2477) इति सिज्लुक्- अभ्यष्ठात् प्राक् सितादड्व्यवाये ऽपि (8363) इति षत्वम् अनुवादे चरणानाम् , स्थेणोरद्यतन्यां च (243 सू0 वा0) इति द्वन्द्वैकत्वम्- प्रत्यष्ठात् कठकौथुमम् स्थाध्वोरिच्च (1217) उपास्थित तिष्ठतेरित् (745) अतिष्ठिपत् भव्यगेयप्रवचनीय (3468) इति कर्तरि उपस्थानीयश्चैत्रो गुरोः ग्रहादौ (द्र0 31134) स्थायी आतश्चोपसर्गे (33106)ऽङ् आस्था, व्यवस्था प्रष्ठोऽग्रगामिनि (8392) साधुः सुपि स्थः (324) इति कः-समस्थः योगविभागाद् भावेऽपीष्यते-आखूत्त्थो वर्तते, अग्न्युत्त्थो वर्तते अम्बाम्बगोभूमि (8397) इति षत्वम् अम्बष्ठः, आम्बष्ठः, गोष्ठः, भूमिष्ठः द्यतिस्यति (7440) इतीत्वम्-स्थितः गत्यर्थाकर्मक (3472) इति क्तः-उपस्थितो गुरुं चैत्रः ग्लाजिस्थश्च क्स्नुः (32139) स्थास्नुः लषपतपद (32154) इत्युकञ्-स्थायुकः स्थेशभास (32175) इति वरच्-स्थावरः घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् (3358 वा0) प्रस्थः स्थागपापचो भावे (3395) क्तिन्-स्थितिः अजिरशिशिर (उ0 154) इति स्थिरस्थविरौ स्थाचतिमृजेर् (उ0 1116) इति स्थाली सव्ये स्थश्छन्दसि (उ0 2 102) इति ऋन्-सव्येष्ठा सारथिः, स्थास्थिन्स्थॄणाम् (8397 तु0 वा0) इति षत्वम् परमे स्थः किच्च इतीन्-परमेष्ठी ब्रह्मा स्थो णुः (उ0 337)स्थाणुः स्थः स्तोऽम्बजबकौ च (तु0 उ0 496) स्तम्बः, स्तबकः स्थायी भविष्यति गम्यादयः (333) प्रस्थायी स्थूणा, स्थूरा जङ्घालोहपुत्तलिका 897
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
