| YouTube Channel

ष्तै (Stai)

 
धातुप्रदीपः
Sanskrit
ष्टै वेष्टने
- स्तायति तिष्टापयिषति ।। 626 ।।
धातुवृत्तिः
Sanskrit
ष्टै (अर्थः) वेष्टने
( स्तायति तस्तौ स्ताता स्तापयति अतिष्टपत् ) इत्यादि अयं पाठो मैत्रेयस्य भट्टभास्कारोऽप्यत्रवानुकूलः, यदाह"स्तायूनां पतये नम''इत्यत्र स्तेना वस्वादीनपहरन्ति, ( स्तायवः ) "ष्टे वेष्टेन' इत्यस्माद्वाहुलकादुणिति स्वाम्यादयस्तु ष्णै वेष्टन इति पठन्ति तथा चनिरुक्तम्-"उष्णीषं स्नायतेर्व्याचरकः' एवमुष्णीषं शिरोवेष्टनम् स्त्रायतेः शोभार्थस्य उभयत्रापि सम्भवादिति अत एव व्याख्यानात् ष्णै शोभन इत्यपि भूवादौ द्रष्टव्यः प्रयुज्यते भारते---
पाञ्चाल्याः पह्मपत्राक्ष्याः स्नायन्ति जघनं घनम् याः स्त्रियो दृष्टवन्त्यस्ताःपुम्भावं मनसा ययुः
इति क्रियानिघण्टौ स्तायति स्त्रायत्याप्लवत इति, दैवे स्त्रातीति शौचे स्त्रायेदिति चेच्छन्ति केचनेति 906