| YouTube Channel

ष्तुञ् (StuJ)

 
धातुप्रदीपः
Sanskrit
ष्टुञ् स्तुतौ
- स्तौति स्तुते तुष्टाव तुष्टुवे स्तोता अस्तावीत् अस्तोष्ट तुष्टूषति तुष्टूषते स्तुत्यम् स्तुतः स्तवः प्रस्तावः संस्तावश्छन्दोगानाम् तु इति सौत्रो धातुर् वृद्ध्यर्थः हिंसार्थ इत्येके तौति तवीति छान्दसो ऽयमित्यापिशलिः ।। 34 ।।
क्षीरतरङ्गिणी
Sanskrit
ष्टुञ् स्तुतौ
- स्तौति उपसर्गात् सुनोति (8365) इति षत्वम्-अभिष्टौति स्तोता, प्रस्तोता, कृसृभृ (7213) इति नेट् तुष्टोथ सिवादीना वाड्व्यवायेऽपि (7371) इति षत्वम्-पर्यष्टौत् पर्यस्तौत् स्तौतण्योरेव षण्यभ्यासात् (8361) षः तुष्टूषति परिनिविभ्यः सेवः (8370) इति षः-परिष्टौति एतिस्तुशासु (31109) इति क्यप्-स्तुत्यः अप् (द्र0 3357) स्तवः प्रेः द्रुस्तुस्रुवः (3327) घञ्-प्रस्तावः यज्ञे समिस्तुवः (3331) संस्तावः, अन्यत्र संस्तवः भ्राजभास (32177) इति क्विप्-ग्रावस्तुत् करणे क्तिन् इष्यते स्तुतिः दाम्नी (32182) इति ष्ट्रन्-स्तोत्रम् अर्तिस्तुसु (उ0 1140) इति मन् स्तोमः ण्टुभु स्तम्भे (1278) ऽस्मात् तु स्तोभः श्रौतोऽनर्थकः श्रुतिपूरणः 31
धातुवृत्तिः
Sanskrit
ष्टुञ् (अर्थः) स्तुतौ
अनुदात्त उभयतोभाषः (स्तुते स्तुवाते, स्तुवते स्तुषे स्तुध्वे, स्तुवे स्तुवहे तुष्टुवं तुष्टुवाते, तुष्टुविरे तुष्टुषे तुष्टुध्वे तुष्टुवहे) अभ्यासे खयः शेषः क्रादिषु पाठादिडभावः (स्तोता स्तोष्यते स्तुताम् स्तुवाताम् स्तुष्व स्तुध्वम् स्तवै अस्तुत अस्तुवाताम्, अस्तुथाः, अस्तुवि, स्तुवीत स्तुवीयाताम् स्तुवीथाः स्तुवीय ) आशिषि (स्तोषीष्ट) इत्यादि (अस्तोष्ट, अस्तोषाताम् अस्तोष्ठाः अस्तोढ्वम् अस्तोषि) हलादौ सार्वधातुके शिब्विषये यदा "तुरुस्तुशम्यम'' इतीट् तदा (स्तुवीते स्तुवीषे स्तुवीध्वे स्तुवीवहे, स्तुवीताम् स्तुवीष्व स्तुवीध्वम्, अस्तुवीत अस्तुवीथाः, अस्तुवीध्वम् अस्तुवीवहि ) इति लिङि सलोपे ऽहलादित्वान्नेट् प्रसङ्गाः अन्यत्र सार्वधातुके विकरणेन व्यवधानान्नैवास्तीटः प्राप्तः ( स्तौति स्तुवीति स्तुतः, स्तुवीतः, स्तौषि स्तवीषि स्तौमि स्तवीमि स्तुवः स्तुवीवः ) तिप्सिपोरिट्पक्षे गुणः अन्यदा वृद्धिः अन्यत्रेटि सर्वत्रोवङ्, ( तुष्टाव तुष्टोथ, तुष्टव ) थलि भारद्वाजनियमं बाधित्वा पुरस्तात्प्रतिषेधारम्भसामर्थ्यात् क्रादिप्रतिषेध एव भवति ( स्तोता स्तोष्यति स्तौतु स्तवीतु स्तुतात् स्तुवीतात् स्तुतां, स्तुवीतां, स्तुवन्तु स्तुहि स्तुवीहि ) हेरपित्त्वान् ङित्त्वान्न गुणो नापि वृद्धिः, ( स्तवानि अस्तौत् अस्तवीत् अस्तुताम् अस्तवीतामस्तुवन् अस्तौः अस्तवीः अस्तवम् अस्तुव अस्तुवीव स्तुयात् स्तुवीयात् स्तुयाताम्, स्तुवीयाम्, स्तुयुः, स्तवीयुः, स्तुयाः, स्तुवीयाः स्तुयाताम् स्तुवीयाताम् स्तुयाम् स्तुवीयाम् ) अत्र यासुटि पिद्वचनेषु "उतो वृद्धिर्लुकि हलि'' इति वृद्धिः "ङिच्च पिन्न"इति पित्त्वनिषेधान्न भवति आशिषि (स्तूयात्)इत्यादि (अस्तावीत्, अस्ताविष्टाम् अस्तावीः अस्ताविषम्) "स्तुसुधूञ्भ्यः परस्मैपदेषु'' इतीटि शिचि वृद्धिः (अष्टौति अभ्यष्टौत् ) "उपसार्गात्सुनोति'' इति "प्राक्सितादड्व्यायेऽपि'' इति, षत्वं ( पर्यस्तौत् ) "सिवादीनां वाड्व्यवायेऽपि'' इति परिनिविभ्यः परस्याड्व्यवाये वा षत्वम् ( अग्निष्टुत् ) "क्विप् च'' इत्यग्नावुपपदे क्विप् ( अग्निष्टोमः ज्येतिष्टोमः आयुष्टोमः ) "अर्तिस्तु'' इत्यादिना मन्प्रत्ययान्तस्तोमशब्दः, एते यज्ञविशेषाः "अग्नेस्तुत्स्तोमसोमाः'' "ज्योतिरायुषः स्तोम'' इति षत्वं, ( परिस्तोमः ) इत्यत्र "उपसर्गात्'' इत्यादिना षत्वम् "उणादयोऽव्युत्पन्नानि प्रातिपदिकानि' इति भवति (स्तुत्यः) "एतिस्तु'' इत्यादिना क्यप् क्यबित्यनुवर्त्तमाने पुनःक्यब्ग्रहणात् (अवश्यस्तुत्यः) इत्यत्राप्यावश्यके ण्यतं बाधित्वा क्येव मयूरव्यंसकादित्वात्समासः "लुप्येदवश्यमः कृत्य'इत्यवस्यमो मलोपः (ग्रावस्तुत्) "भ्राजभास'' इत्यादिना ताच्छीलिकः क्विप् ( आयतस्तूः ) "क्विब् वचि'' इत्यादिना क्विप्दीर्घा ( स्तोत्रम् ) "दाम्नी'' इत्यादिना ष्ट्रन् ( प्रस्तावः ) "प्रे दुस्तुश्रुव'' इति घञ् यज्ञकर्मणि छन्दोगा इयत्र देशे समेत्य स्तुवन्ति (संस्तावः) "यज्ञे समि स्तुव'' इति घञ् अन्यत्र (संस्तवः) स्तूयतेऽनयेति (स्तुतिः) "यजिदशिस्तुभ्यः ( 1 ) ( 1 ) श्रूयजीषिस्तुभ्यः करणे इति साम्प्रदायिकः पाठोऽत्र ज्ञेयः करणे'' इति क्तिन् स्तवमर्हति स्तव्यः दण्डादेराकृतिगणत्वाद्यदित्यात्रेयः (सस्तवानः) "सम्यानच् स्तुव'' इत्यानच् अयं बहुलवचनात्केवलादपि भवति निच्च भवति "मृडाजरित्रे रुद्रस्तवान' इति 32