| YouTube Channel

ष्तभि (Stabhi)

 
धातुप्रदीपः
Sanskrit
ष्तभिँ ष्टभि
मानकरूपान्तरम् - ष्कभिँ
ष्कभि प्रतिबन्धे
- स्तम्भते तिष्टम्भयिषति विष्टम्भते विष्टभ्यते इति स्तभ्नातेः सौत्रधातो रूपम् टकारपरः षकारोऽयमित्येके-उपष्टम्भते टिष्टम्भिषते स्कम्भते चस्कम्भे विस्कम्भ्यते (58) विष्कभ्यत इति स्कभाते रूपम् ।। 387, 388 ।।
क्षीरतरङ्गिणी
Sanskrit
ष्तभिँ ष्टभि
मानकरूपान्तरम् - स्कभिँ
स्कभि प्रतिबन्धे
-(अर्थविवरणम्) प्रतिबन्धः क्रियानिरोधः
स्तम्भते स्तभ्भः विष्टम्भः आवादौर्जित्यालम्बनाविटूर्येषु (चान्द्र 6453 सर0 क0 7456) इति षत्वम्-अवष्टम्भते शूरः, दण्डमवष्टम्भते, अवष्टब्धे सेने उदः स्थास्तम्भोः पूर्वस्य (8461) इति तत्वम्-उत्तम्भते झरो झरि सवर्णे (8465) वा लोपः तिस्तम्भिषते, तिष्टम्भयिषति, टपरः षकारोऽमित्येके-ष्टम्भते [ टिष्टम्भे ], टिष्टम्भिषते, टिष्टम्भयिषति, विष्टम्भ्यते विष्टभ्यत इति तु स्तभ्नातेः स्कम्भते, स्कम्भ्यते विष्कभ्यत इति स्कभ्नातेः स्तन्भुस्कन्भू सौत्रौ स्तः-स्तभ्नाति स्तभ्नोति, स्कभ्नाति स्कभ्नोति (द्र0 अ0 3 182) वेः स्कभ्नातेर्नित्यम् (8377) षत्वङ्किष्कम्भः 378-379
धातुवृत्तिः
Sanskrit
ष्तभिँ ष्टभि
मानकरूपान्तरम् - स्कभिँ
स्कभि (अर्थः) प्रतिबन्धे
( स्तम्भते तस्तम्भेखयः शेषः स्तम्भिता तिस्तम्भिषते)"स्तौतिण्योरेव'' इत्यषत्वम् षोपदेशफलं ण्यन्तात्सनि तिष्टम्भयिषतीति षत्वम् ( उत्तम्भते उत्तम्भिता उत्तम्भितः) ( सूत्रम्) उदः स्थास्तम्भोः पूर्वस्य (इति सूत्रम्) इति उदः परयोरनयोः सकारस्थाने पूर्वस्य सवर्ण इति तकारः स्तम्भेः'' इत्यादावुपसर्गात्परस्य षत्वविधौ स्तम्भुस्तुम्भ्विति प्रतिपदोक्तस्यैव ग्रहणं स्तम्भेः, त्वस्य लाक्षणिकस्येति विस्तम्भ इत्यादौ षत्वम् "उदः स्थास्तम्भोः'' इत्यत्र तु नायं न्यायः, यतस्तम्भुरूपमुभयोरपि लाक्षणिकम् अत्र स्वामिमैत्रैयो ष्टभेष्टकारमेकीयमतेनौपदेशिकमाहतुः तत्र ष्टम्भते विष्टम्भतइत्यादौसर्वत्र ष्टुत्वेन षत्वे लिडादावभ्यासे टकारस्य शेषे तष्टम्भइत्यादि भवति स्कम्भते ( चस्कम्भे स्कभित स्कम्भिता ) "यसितस्कभत'' इति निपातनं तु छन्दसि "वेः स्कम्भातेर्नित्य इति षत्वं श्नानिर्देशात् सौत्रस्येव नास्येति विस्कम्भितइति भवति स्तम्भु स्तुम्भुस्कम्भुस्कुम्भु इति सैत्राश्चत्वारो धातवस्ते "स्तम्भुस्तुम्भुस्कम्भुस्कुम्भस्कुञ्भ्य श्नुश्चे'' इति वा श्नाश्नुविकरणा इति तत्रोदाह्रियते स्तोभतइत्यग्रे स्तम्भार्थे 384