ष्ठिवु (SThivu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit ष्ठिव्
ष्ठिवु
निरसने
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
ष्ठीवति
ष्ठिव्
ष्ठिवु
निरसने
दिवादिः
सकर्मकः
सेट्
परस्मैपदी
ष्ठीव्यति
धातुप्रदीपः
Sanskritष्ठिवुँ ष्ठिवु निरसने
- ष्ठीवति । ष्ठिवेरभ्यासस्य तो वेति तन्त्रान्तरीयम् । टिष्टेव ।तिष्ठेव ।ष्ठ्यूत्वा ।ष्ठेवित्वा । मधुलिट् ष्ठीवति (71) इवन्तत्वादिड् विकल्पः-तिष्ठेविषति। तिष्ठ्यूषति। निष्ठेवनम् । निष्ठीवनम् ।।561।।
ष्ठिवुँ ष्ठिवु निरसने
- ष्ठीव्यति तिष्ठेव तुष्ठ्यूषति तिष्ठेविषति तेष्ठीव्यते ष्ठीवतीति भ्वादिपाठात् 4
क्षीरतरङ्गिणी
Sanskritष्ठिवुँ ष्ठिवु निरसने
- न सुब्धातुष्टिवुष्वक्कीनाम (तु0 6164 वा0) इति धात्वादेः षः सो नास्ति, ष्ठिवुक्लम्वाचमां शिति (तु0 7375) इति दीर्घः-ष्ठीवति ल्युटि वा गुणः- ष्ठेवनम्, ष्ठीवनम् ष्ठ्यूत्वा, ष्ठीवित्वा टिष्ठेव षकारात् परस्थकारोऽयमित्येके तिष्ठेव 548
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritष्ठिवुँ ष्ठिवु (अर्थः) निरसने
[ सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेध] इति प्रतिषेधः सत्वस्य अस्य द्वितीयस्थकारष्ठकारो वेति वृत्तिः, आचार्येण शिष्येभ्य उभयथा प्रतिपादानात् उभयमपि प्रमाण मिति व्याख्यातारः ( वीवति ) "ष्ठिवुल्लमुचमां शिति'' इति दीर्घः ( तिष्ठेव तिष्ठिवतुः अभ्यासे खयः शेषः ( ष्ठेविता ष्ठेविष्यति ष्ठीवतु आशिषि ष्ठीव्यात् ) "हलि च'' इति दीर्घः ( अष्ठेवीत् तिष्ठेविषति तुष्ठयूषति ) "सनीवन्तर्द्ध'' इति सनः पक्षे इडागमः, अन्यदा च "हलन्ताच्च'' इति सनः कित्त्वे वलि लोपं बाधित्वा "च्छ्वोः शूठ'' इति ऊठि य णादेशे द्विवर्चनम् अत्र वर्णमात्राश्रयत्वेन चान्तरङ्गे यणि कर्त्तव्ये बाह्मप्रकृतिप्रत्ययाश्रयत्वेन बहिरङ्गस्योठोऽसिद्धत्वंन भवति "नाजानन्तर्ये' इति निषेधात् ( तेष्ठीव्यते ष्ठेवयति अतिष्ठिवत् ) ऊङ्भाविनां वकारान्तानां यङ्लुङ्नास्तीति तेवतावुक्तम् ठकारपक्षे सार्वत्राभ्यासे टकार उदाहायः ( टिष्ठेवेत्यादि ष्ठयवित्वा ष्ट्यूत्वा ) उदित्त्वादिङ्विकल्प इति "नक्त्वासेट्'' इति कित्त्वनिषेधाद्गुणः, अन्यदा तु कित्त्वादूठि यणादेशः ष्ठ्यतः ष्ठ्यतिः "यस्य विभाष'' "सितुत्र'' इत्यनिट्तृवम् ( ष्ठीवनम् ष्ठेवनम् ) पृषोदरादित्वात्पक्षे दीर्घः, तथा च चान्द्रसूत्रम् "ष्टिवुसिवोर्दीर्घश्च'' इति अयं दिवादावपि 553
ष्ठिवुँ ष्ठिवु (अर्थः) निरसने
(ष्ठीव्यति) इत्यादि सीव्यतिवत् ( तिष्ठेव ) इत्यादौ अभ्यासे खयश्शेषः अत्र वक्तव्यं भूवादौ ष्ठेवतावुक्तम् "सुब्धातुष्ठिवुष्वष्कतीनाम्'' इति षः सकारनिषेधः अमुं धातुमात्रेयादयः पठन्ति अन्ये तु न पठन्ति यदाह "धात्वादेष्षस्स'' इत्यत्र न्यासकारः ष्ठिवुं दिवादिष्वपि केचिदधीयते इति4
कृदन्तरूपमाला
Sanskrit1 {@“ष्ठिवु निरसने”@} 2 ‘ष्ठीवति ष्ठीव्यतीत्येते स्यातां निरसने ष्ठिवेः।’ 3 इति देवः।
4 ष्ठेवकः-विका, ष्ठेवकः-विका, 5 6 तिष्ठेविषकः-तुष्ठ्यूषकः-षिका, ठिष्ठेविषकः-टुष्ठ्यूषकः-षिका, 7 तेष्ठेवकः- टेष्ठेवकः-विका
ष्ठेविता-त्री, ष्ठेवयिता-त्री, तिष्ठेविषिता-तुष्ठ्यूषिता-टुष्ठ्यूषिता-टिष्ठेविषिता-त्री, तेष्ठेविता-टेष्ठेविता-त्री
इत्यादीनि रूपाणि दीव्यतिवत् 8 बोध्यानि।
9 ष्ठीवन्-निष्ठीवन्, 10 निष्ठीवनम्-ष्ठेवनम्, 11 निष्ठीवः, 12 ष्ठेवित्वा-ष्ठ्यूत्वा, 13 निष्ठ्यूतम्, निष्ठ्यूतिः, इति विशेषरूपाणि।
01 (१८७७)
02 (१-भ्वादिः-५६०। सक। सेट्। पर।)
03 (श्लो। १६२)
04 [[९। ‘सुब्धातुष्ठिवु--’ (वा। ६-१-६४) इति सकारादेशप्रतिषेधः। ‘ष्ठिवु’ इत्यत्र ठकारः औपदेशिकः, थकारो वा इत्यत्र उभयथा मतमेदः। थकारपक्षे ष्टुत्वेन सकारस्य षकारश्रवणम् इति विशेषः।]]
05 [पृष्ठम्१३६३+ २७]
06 [[१। इवन्तत्वात् ‘सनीवन्त--’ (७-२-४९) इति इडागमविकल्पः। इट्पक्षे द्विर्व- चनादिकेषु ‘शर्पूर्वाः--’ (७-४-६१) इति खयः शेषः। हलादिशेषापवादः। इडभावपक्षे ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, वलि लोपं बाधित्वा ‘च्छ्वोः शूठ्--’ (६-४-१९) इति ऊठि यणादेशे, पश्चात् द्विर्वचनम्। प्रतिपदोक्तविधित्वात्, अन्तरङ्गत्वात् वा प्रथमं ऊठ्। विस्तरस्तु माधवीये द्रष्टव्यः। ‘ष्ठिवु’ इत्यत्र ठकार औपदेशिकः इति पक्षे टिष्ठेविषकः--टुष्ठ्यूषकः-षिका इति रूपम्। अत्र न्यासकारः-- “केचिद् आचार्येण शिष्याः ‘ठकारोऽयम्’ इत्युपदिष्टाः। अपरे पुनः ‘थकारोऽयम्। ष्टुत्वेन ठकारः श्रुयते’ इतीममर्थं ग्राहिताः। उभयञ्चैतत् प्रयोजनम्। अन्ये पुनराहुः-- ‘ष्ठिवुर्दिवादिष्वपि पुनरधीयते, तत्र एकस्य द्वितीयस्थकारः, अपरस्य तु ठकारः’ इति” इति (६-१-६४)।]]
07 [[२। यङन्तेऽपि थकारपक्षे तेष्ठेवकः इति, ठकारपक्षे टेष्ठेवकः इति च रूपम्।]]
08 (८३८)
09 [[३। शतरि, ‘ष्ठिवुक्लमु--’ (७-३-७५) इति दीर्घः।]]
10 [[४। ल्युटि पृषोदरादित्वात् (६-३-१०९) पाक्षिक उपधादीर्घः इति माधवादयः। चान्द्रास्तु ‘ष्ठिवुसिवोर्दीर्घश्च’ इति ल्युड्विषये सूत्रमेव पठन्ति।]]
11 [[५। घञ्यपि पृषोदरादित्वात् दीर्घः इति चान्द्राः। ल्युटि घञि च पृषोदरादित्वादेव दीर्घ इति शब्दकल्पद्रुमः।]]
12 [[६। उदित्त्वात् इड्विकल्पः। इडभावपक्षे ऊठ्।]]
13 [[७। निष्ठायामिण्निषेधः। ऊठ्। निष्ठ्यूतम् = उद्गीर्णम्। एवं क्तिन्यपि ऊठ्।]]
1 {@“ष्ठिवु निरसने”@} 2 दैवश्लोकः पूर्वधातौ द्रष्टव्यः।
केचिदमुं धातुं न पठन्ति इति न्यासकार- संवादपुरस्सरं माधवीये प्रतिपादितम्।
ष्ठीव्यन्-न्ती-ती इति शतरि विशेषः।
विशेषरूपाणि सर्वाण्यपि पूर्वधातौ द्रष्टव्यानि।
दैवादिकदीव्यतिवत् 3 बोध्यानि।
4
01 (१८७८)
02 (४-दिवादिः-१११०। सक। अनि। पर।)
03 (८३८)
04 [पृष्ठम्१३६४+ ३०]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
