| YouTube Channel

ष्ठल (SThala)

 
Wilson
English
ष्ठल r. 1st cl. (स्थलति)
1 To stand.
2 To be firm.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्थल्
मूलधातुः:
ष्ठल
धात्वर्थः:
प्रतिष्ठायाम्
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
स्थलति
शब्दकल्पद्रुमः
Sanskrit
ष्ठल, स्थितौ इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सेट् ।) ज, स्थालः स्थलः स्थलतिलोकस्तिष्ठतीत्यर्थः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ष्ठल स्थितौ
भ्वा०
प० अक० सेट् ज्वला० स्थवति अस्थालीत्
कृदन्तरूपमाला
Sanskrit
1 {@“ष्ठल स्थाने”@} 2 ज्वलादिः।
‘स्थल--’ इति माधवः।
3 स्थालः-स्थलः, 4 स्थलम्, 5 कपिष्ठलः, कपिस्थलम्, 6 स्थली-स्थला, 7 स्थाली, 8 विष्ठलम्-कुष्ठलम्-शमिष्ठलम्-परिष्ठलम्, इति विशेषरूपाणि।
इतराणि सामान्यरूपाणि भौवादिकचलतिवत् 9 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८७५)
02
=>
(१-भ्वादिः-८३६। अक। सेट्। पर।)
03
=>
[[१। ‘ज्वलितिकसन्तेभ्यः--’ (३-१-१४०) इति कर्तरि णप्रत्ययविकल्पः। पक्षे पचाद्यचि स्थलः इति साधुः।]]
04
=>
[[२। अधिकरणे घप्रत्ययो बाहुलकात्। बाहुलकादेव घान्तस्य क्लीबत्वम्।]]
05
=>
[[३। ‘कपिष्ठलो गोत्रे’ (८-३-९१) इति निपातनात् षत्वम्। कपिष्ठलः = गोत्रप्रवर्तको ऋषिः। अन्यत्र कपीनां स्थलम् कपिस्थलम् इत्येव।]]
06
=>
[[४। ‘जानपदकुण्डगोणस्थल--’ (४-१-४२) इत्यादिना अकृत्रिमार्थे (स्वाभाविके स्थले विवक्षिते) ङीष्। स्थली = अकृत्रिमा भूमिः। स्थला = कृत्रिमा सौधादिषु भूः।]]
07
=>
[[५। संज्ञायां ‘हलश्च’ (३-३-१२१) इति घञ्। घञन्तात् स्थालशब्दात् गौरादिषु (४-१-४१) पाठात् ङीष्। स्थाली = पात्रविशेषः।]]
08
=>
[[६। ‘विकुशमिपरिभ्यः स्थलम्’ (८-३-९६) इति षत्वमत्र।]]
09
=>
(५१०)