| YouTube Channel

ष्टुभु (STubhu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्तुभ्
मूलधातुः:
ष्टुभु
धात्वर्थः:
स्तम्भे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्तोभते
धातुवृत्तिः
Sanskrit
ष्टुभुँ ष्टुभु (अर्थः) स्तम्भे
( स्तोभते तुष्टुभे स्तोभितेत्यादि तुस्तुभिषते तुस्तोभिषते स्तुभित्वा स्तोभित्वा ) "रलो व्युपधात्'' इति वा कित्त्वम् उदित्त्वात्पक्षे क्त्वायामिडभावे "निष्ठा'' इति निष्ठायां "यस्य विभाष'' इति (स्तुब्धम्), सनि "स्तौतिण्योरेव'' इत्यषत्वं, ( निष्टोभिता निष्टोब्धा ) "उपसर्गात्सुनोति'' इत्यादिना "प्राक् सितादड्व्यायेपि'' इति नियम एवावतिष्ठते ( अनुष्टुप् ) पूर्ववत् षत्वं, ( त्रिष्टुप् ) "सुषामादिषु च'' इति षत्वम् अनुष्टुबेवानुष्टुभम् एवं (त्रैष्टुभं), [छन्दसः प्रत्ययविधाने नपुंसकेस्वार्थउपसंख्यानम् } इति स्वार्थे उत्सादिभ्यः प्राग्दीव्यतीयोण्, स्वार्थेपि प्राग्दीव्यतीयः तिप्यादय उदात्ता अनुदात्तेतः तिपिवर्जम् 391
कृदन्तरूपमाला
Sanskrit
1 {@“ष्टुभु स्तम्भे”@} 2 ‘--स्तम्भेऽर्थे स्तोभते शपि।’ 3 इति देवः।
4 स्तुब्धः, 5 नितुस्तोभिषकः-नितुस्तुभिषकः-षिका, 6 अनुष्टुप्-त्रिष्टुप्, 7 8 स्तुभिंत्वा-स्तोभित्वा-स्तुब्ध्वा, 9 निष्टोभिता-त्री
इति विशोषरूपाणि।
सामान्य- रूपाणि जृम्भतिवत् 10 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८७०)
02
=>
(१-भ्वादिः-३९४। सक। सेट्। आत्म।)
03
=>
(श्लो। १४३)
04
=>
[[१०। उदित्त्वेन क्त्वायामिड्विकल्पनात् निष्ठायामिण्निषेधः। ‘झषस्तथोर्धोऽधः’ (८-२-४०) इति धत्वम्, भकारस्य जश्त्वेन बकारः।]]
05
=>
[[११। अत्र अभ्यासेन व्यवधानात्, अस्थादित्वात् ‘स्तौतिण्योरेव--’ (८-३-६१) इति नियमात् षत्वम्। शर्पूर्वकत्वात् खयः शेषः।]]
06
=>
[[१२। अनु स्तोभते इति अनुष्टुप्। क्विपि ‘उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभति--’ (८-३-६५) इति षत्वम्। त्रिष्टुप् इत्यत्र सुषामादित्वत् (८-३-९८) षत्वम्। उभे छन्दोविशेषवाचिके, भकारान्ते च। पदान्तत्वनिमित्तकः पकारः प्रथमैकवचने। पक्षे अनुष्टुब्, ञिष्टुब् इति बकारान्तत्वमपि।]]
07
=>
[पृष्ठम्१३५५+ ३०]
08
=>
[[१। उदित्त्वादिड्विकल्पः। ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। तेन रूपत्रयम्।]]
09
=>
[[२। तृचि ‘उपसर्गात्--’ (८-३-६५) इति षत्वे रूपमेवम्। माधवधातुवृत्तौ अत्र प्रकरणे निष्टोब्धा इति अनिट्कं तृजन्तरूपं पठितं दृश्यते। धातावस्मिन् वलादेरार्धधातुकस्येड्विकल्पप्रतिपादकशास्त्राभावात् चिन्त्यमिदम्। किञ्च “‘प्राक् सितादड्व्यवायेऽपि’ (८-३-६३) इति षत्वम्” इत्युक्तं तत्र
\n\n तदपि सङ्गच्छते।]]
10
=>
(६१७)