| YouTube Channel

ष्टुञ् (STuJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्तु
मूलधातुः:
ष्टुञ्
धात्वर्थः:
स्तुतौ
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
स्तौति
कृदन्तरूपमाला
Sanskrit
1 {@“ष्टुञ् स्तुतौ”@} 2 स्तुवन्- 3 अभिष्टुवन्, 4 तुष्टूषन्-तुष्टूषमाणः, 5 अग्निष्टुत्-पुरुष्टुत्, 6 स्तुत्यः-अवश्य- स्तुत्यः, 7 ग्रावस्तुत्, 8 आयतस्तूः, 9 स्तोत्रम्, 10 प्रस्तावः, स्तवः, 11 संस्तावः-संस्तवः, 12 13 स्तुतिः, 14 प्रस्तोता, 15 परिष्टुवन्-निष्टुवन्-विष्टुवन्, 16 स्तोमः, 17 अग्निष्टोमः 18 ज्योतिष्टोमः-आयुःष्टोमः, परिष्टोमः, 19 स्तोभः, ‘मृडा जरित्रे रुद्र 20 स्तवानः’ 21, 22 त्रिभिःष्टुतः-त्रिभिःस्तुतः, इति विशेषरूपाणि।
सामान्यरूपाणि आदादिकक्ष्णौतिवत् 23 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८६८)
02
=>
(२-अदादिः-१०४३। सक। अनि। उभ।)
03
=>
[[५। शतरि उवङ्। अभिष्टुवन् इत्यत्र ‘उपसर्गात् सुनोतिसुवतिस्यतिस्तौति--’ (८-३-६५) इत्यादिना षत्वम्।]]
04
=>
[[६। सन्नन्तादुप्रत्यये रूपम्। अभ्यासे ‘शर्पूर्वाः खयः’ (७-४-६१) इति खयः शेषः। हलादिशेषापवादः। ‘स्तौतिण्योरेव--’ (८-३-६१) इति षत्वम्।]]
05
=>
[[७। अग्निं स्तौतीति अग्निष्टुत्। ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्। तुक्। ‘अग्नेः स्तुत्--’ (८-३-८२) इति षत्वम्। पुरु स्तौतीति पुरुष्टुत् = ऋत्विग्विशेषः। अत्र सुषामादित्वात् (८-३-९८), छान्दसत्वाद्वा षत्वम्।]]
06
=>
[[८। ‘एतिस्तु--’ (३-१-१०९) इति क्यप्। प्रकृतसूत्रे ‘क्यप्’ इत्यनुवर्तमानेऽपि पुनः क्यब्ग्रहणं ‘ओरावश्यके’ (३-१-१२५) इति प्राप्तस्य ण्यतोऽप्यपवादार्थम्। अवश्यस्तुत्यः इत्यत्र मयूरव्यंसकादित्वात् समासः।]]
07
=>
[[९। ‘भ्राजभास… ग्रावस्तुवः क्विप्’ (३-२-१७७) इति ग्रावशब्द उपपदे स्तौतेः क्विप् ताच्छीलिकः। तुक्। ग्रावस्तुत् = ऋत्विग्विशेषः।]]
08
=>
[[१०। आयतं स्तौति इति आयस्तूः। ‘क्विब् वचिप्रच्छ्यायतस्तु--’ (वा। ३-२-७६) इति क्विप्। दीर्घश्च। ह्रस्वाभावात् तुक् न।]]
09
=>
[[११। ‘दाम्नीशसयुयुजस्तु--’ (३-२-१८२) इति करणे ष्ट्रन्प्रत्ययः।]]
10
=>
[[१२। प्रपूर्वकादस्मात् ‘प्रे स्तुद्रुश्रुवः’ (३-३-२७) इति घञ्। उवर्णान्तत्वलक्षणापो- ऽपवादः। अन्यत्र स्तवः इत्येव।]]
11
=>
[[१३। ‘यज्ञे समि स्तुवः’ (३-३-३१) इति संपूर्वकादस्मात् घञ्। यज्ञकर्मणि यत्र देशे छन्दोगाः समेत्य स्तुवन्ति देशः संस्ताव इत्युच्यते। अन्यत्र संस्तवः परिचयः।]]
12
=>
[पृष्ठम्१३५४+ २९]
13
=>
[[१। ‘श्रुयजीषिस्तुभ्यः--’ (वा। ३-३-९४) इति करणे क्तिन्प्रत्ययः। स्तूयतेऽनयेति स्तुतिः स्तोत्रम्।]]
14
=>
[[२। प्रपूर्वकादस्मात् ताच्छीलिके ‘तृन्’ (३-२-१३५) इति तृन्प्रत्यये रूपमेवम्। प्रस्तोता = ऋत्विग्विशेषः।]]
15
=>
[[३। अत्र सर्वत्र ‘परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तु--’ (८-३-७०) इति षत्वम्।]]
16
=>
[[४। औणादिके (द। उ। ७-२६) मन्प्रत्यये रूपमेवम्। स्तोमः स्तुतिव्यूहः। उपचारात् स्तोमः समूहार्थकः।]]
17
=>
[[५। ‘अग्नेः स्तुत्स्तोम--’ (८-३-८२) इति षत्वम्।]]
18
=>
[[६। ‘ज्योतिरायुषः स्तोमः’ (८-३-८३) इति षत्वम्। परिष्टोम इत्यत्र तु ‘उपसर्गात् सुनोतिसुवतिस्यतिस्तौति--’ (८-३-६५) इत्यादिना षत्वम्।]]
19
=>
[[७। औणादिके भप्रत्यये रूपम्। स्तोभः = केवलस्तुतिप्रयोजनको वर्णसमूहः।]]
20
=>
[[८। औणादिके (द। उ। ५-३२) आनच्प्रत्यये रूपम्। लोकेऽपि प्रयोगार्होऽयं शब्दः।]]
21
=>
(तै। सं ४-५-२४)
22
=>
[[९। ‘स्तुतस्तोमयोश्छन्दसि’ (८-३-१०५) इति एकेषां मतेन षत्वम्। अन्येषां मते न। तेन रूपद्वयम्।]]
23
=>
(३२३)