| YouTube Channel

ष्टुच (STuca)

 
Wilson
English
ष्टुच r. 1st cl. (स्तोचते) To be clear, to be bright, to be pellucid.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्तुच्
मूलधातुः:
ष्टुच
धात्वर्थः:
प्रसादे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्तोचते
शब्दकल्पद्रुमः
Sanskrit
ष्टुच, प्रसादे इति कविकल्पद्रुमः
(भ्वा०-आत्म०-सक०-सेट् ।) मूर्द्धन्यादिस्तमध्यः ।प्रसादः प्रसन्नीभावः ङ, स्तोचते जनं तोष्टु-च्यते षस्याधो मूर्द्धन्यण इति केचित् स्नोचतेमोस्नुच्यते इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ष्टुच प्रसादे अक०
भ्वा०
आत्म० सेट् स्तोचते अस्तोचिष्ट
धातुवृत्तिः
Sanskrit
ष्टुचँ ष्टुच (अर्थः) प्रसादे
स्तोचते "धात्वादेः षः सः'' ष्टुत्वं निमित्ताभावन्न भवति सत्वा त्पूर्वं तु पूर्वत्रासिद्धत्वेन भवति ( तुष्टुचे ) "शर्पूर्वाः खय'' इति शेशः ( स्तोचितेत्यादि तुस्तुचिषते तुस्तोचिषते स्तुचित्वा स्तोचित्वा ) "रलो व्युपधात्'' इति कित्वविकल्पः "स्तौतिण्योरेव'' इति नियमात्सन्यषत्वम् ( तोष्टुचयते तोष्टुचीति तीष्टोक्ति स्तोचयति अतुष्टुचत् स्तोकः ) घञ्( उदश्वित्स्तोकम् ) अल्पमुदश्विदित्यर्थः ( सूत्रम्) पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः (इति सूत्रम्) पोटादिभिः समानाधिकरणैः जातिवाचि सुबन्तं समस्यत इति तत्पुरुषः अत्रैव निर्देशाद्वार्त्तिककारमते कुत्वम् हि "चजोः कु घिण्ण्यतोर्निष्टायामनिटः'' इति सूत्रं न्यास्थत् ( स्तोकान्मुक्तः, स्तोकेन मुक्तः ) स्तोकत्वेन मुक्त इत्यर्थः "करणे स्तोकाल्पकृछ्रकतिपयस्यासत्ववचनस्य'' इति तृतीयापञ्चम्यौ असत्त्ववचनस्येति वचनात् स्तोकेन विषेण हत इति सत्त्ववचनात्तृतीयैव स्तोकान्मुक्त इत्यत्र "स्तोकान्तिक' इत्यादिना समासे "पञ्चम्याः स्तोकादिभ्य'' इत्यलुग्वचनात्तादेव रूपम् संस्तोज इति वर्णविकाराभ्युपगमादिति मैत्रेयः 173
कृदन्तरूपमाला
Sanskrit
1 {@“ष्टुच प्रसादे”@} 2 3 स्तोकः-स्तोककः, 4 उदश्वित्सोकम्, 5 स्तोकान्मुक्तः, स्तोकेन मुक्तः, 6 संस्तोजः
इति विशेषरूपाणि।
सामान्यरूपाणि भौवादिकचयतिवत् 7 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८६७)
02
=>
(१-भ्वादिः-१७५। अक। सेट्। आत्म।)
03
=>
[[१। घञि रूपमेवम्। धातोः प्रसादार्थत्वेऽपि स्तोक इत्यादिषु अल्पार्थत्वम्। निष्टायां सेट्त्वात् घञि कुत्वस्याप्रसक्तौ ‘करणे स्तोक--’ (२-३-३३) इत्यादिषु निर्देशात् कुत्वमिति माधवः। स्तोक एव स्तोककः।]]
04
=>
[[२। ‘पोटायुवतिस्तोक--’ (२-१-६५) इति तत्पुरुषः। स्तोकम् = अल्पं उदश्वित्, उदशिवत्स्तोकम्।]]
05
=>
[[३। ‘करणे स्तोकाल्प--’ (२-३-३३) इति तृतीयापञ्चम्यौ। पञ्चमीपक्षे ‘पञ्चम्याः स्तोकादिभ्यः’ (६-३-२) इत्यलुक्।]]
06
=>
[[४। “वर्णबिकाराभ्युपगमात् संपूर्वकात् घञि चकारस्य जकारे संस्तोजः इति मैत्रेयः” इति माधवाचार्याः।]]
07
=>
(५०२)