| YouTube Channel

ष्टभि (STabhi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्तम्भ्
मूलधातुः:
ष्टभि
धात्वर्थः:
प्रतिबन्धे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्तम्भते
कृदन्तरूपमाला
Sanskrit
1 {@“ष्टभि प्रतिबन्धे”@} 2 ‘स्तभ्नाति स्तभ्नुयात् स्तुभ्नात्यपि स्तुभ्नोति सौत्रयोः।
स्तम्भते प्रतिबन्धार्थे स्तम्भेऽर्थे स्तोभते शपि।।’ 3 इति देवः।
भौवादिककन्दतिवत् 4 सर्वाणि रूपाणि ज्ञेयानि।
5 उत्तम्भनम्, 6 ष्टम्भमाणः स्तम्भमानः।
प्रासङ्गिक्यः
01
=>
(१८६१)
02
=>
(१-भ्वादिः-३८६। सक। सेट्। आत्म।)
03
=>
(श्लो। १४२)
04
=>
(१६३)
05
=>
[[१। ‘उदः स्थास्तम्भ्वोः पूर्वस्य’ (८-४-६१) इति सकारस्य पूर्वसवर्णस्थकारः। उपसर्ग- दकारस्य तस्य चर्त्वेन तकारः। ततश्च उपसर्गतकार-पूर्वसवर्णप्राप्ततकार-तकाररूपाः त्रयस्तकाराः। प्रयोगे परमुच्चारणक्लेशात् द्वितकारश्रवणम्, ‘झरो झरि--’ (८-४-६५) इति कस्यचित् तकारस्य लोपः। ‘उदः स्थास्तम्भ्वोः--’ (८-४-६१) इत्यत्र ‘स्तम्भु--’ (३-१-८२) इति सौत्रस्तम्भुधातोः, अस्य ग्रहणम्-अविशेषेण।]]
06
=>
[[२। “‘औपदेशिकोऽयं टकारः, तु ष्टुत्वनिबन्धनः इत्येके’ इति क्षीरस्वामि- मैत्रेयरक्षितौ--” इति पुरुषकारः। तदानीं ‘धात्वादेः षः सः’ (६-१-६४) इति षकारस्य सत्वाभावात् ष्टम्भमाणः इति शानचि रूपम्। निदर्शनार्थमिदमेकं प्रदर्शितम्। ‘सादेशे सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधः’ (वा। ६-१-६४) इति भाष्यपरामर्शे तु औपदेशिकटकारपक्षो भाष्यसम्मत्त इति ज्ञायते।]]