| YouTube Channel

ष्टन (STana)

 
Wilson
English
ष्टन r. 1st cl. (स्तनति) To sound.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्तन्
मूलधातुः:
ष्टन
धात्वर्थः:
शब्दे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
स्तनति
शब्दकल्पद्रुमः
Sanskrit
ष्टन, मि शब्दे इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सेट् ।) मि, स्तनयति स्तानयतिअतिष्टनत् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ष्टन शब्दे
भ्वा०
पर०
सक०
सेट् वा घटा० स्तनति अस्तानीत् अस्तनीत् स्ता(स्त)नयति
कृदन्तरूपमाला
Sanskrit
1 {@“ष्टन शब्दे”@} 2 ‘शब्दे देवशब्दे स्तनति स्तनयेत् क्रमात्।’ 3 इति देवः।
‘स्तन--’ इति न्यासकारः 4।
तत् भाष्यविरोधादुपेक्ष्यम्।
5 अभिनिष्टानः अभिनिस्तानः = विसर्जनीयः।
6 स्तनः, स्तान्यम्, इति विशेषरूपाणि।
सामान्यरूपाणि कगतिवत् 7 बोध्यानि।
8
प्रासङ्गिक्यः
01
=>
(१८६०)
02
=>
(१-भ्वादिः-४६१। अक। सेट्। पर।)
03
=>
(श्लो। १२७)
04
=>
(८-३-८६)
05
=>
[[५। ‘अकर्तरि कारके--’ (३-३-१९) इति संज्ञायां घञ्। ‘अभिनिसः स्तनः शब्दसंज्ञायाम्’ (८-३-८६) इति षत्वविकल्पः। शाब्दिकसंज्ञायां अभिनिष्टानः इति विसर्जनीयस्य नाम। तथा आपस्तम्बः--’ ‘द्व्यक्षरं चतुरक्षरं वा नाम पूर्वमाख्यातोत्तरं दीर्घाभिनिष्टानान्तं घोषवदाद्यन्तरान्तःस्थम्’ इति। विसर्ग- स्थानिकजिह्वामूलीयोपघ्मानीययोः अभिनिष्टानः इति संकेत इति केचित्। तत्तु न्यासपदमञ्जर्यादिविरोधादुपेक्ष्यम्।]]
06
=>
[[६। पचाद्यचि स्तनः। स्तान्यम् इति तु ण्यति बोद्ध्यम्।]]
07
=>
(१४३)
08
=>
[पृष्ठम्१३५२+ २९]