षोडशी (SoDazI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English षोडशी SoDazI one of the 12 forms of durgA called mahA-vidyA
षोडशी SoDazI having the length of the 16th of a man
Monier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Indian Epigraphical Glossary
Englishशब्दकल्पद्रुमः
Sanskritषोडशी, [न्] यज्ञपात्रविशेषः । यथा अति-रात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनंगृह्णातीति । षोडशी ससोमकपात्रविशेषः ।इति मलमासतत्त्वम् ॥
षोडशी, द्वादशमहाविद्यान्तर्गतविद्या-विशेषः । यथा, --“काली तारा महाविद्या षोडशी भुवनेश्वरी ।भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥
वगला सिद्धविद्या च मातङ्गी कमलात्मिका ।एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥
”तत्र पारिभाषिकीं षाडशीमाह ज्ञानार्णवे ।“चन्द्रान्तं वारुणान्तञ्च शक्रादिमहितं पृथक् ।वामाक्षिबिन्दुनादाढ्यं विश्वमातृकलात्मकम् ॥
विद्यादौ योजयेद्देवि साक्षात् जाग्रत्स्वरूपिणी ।विकुटाः सकला भेदाः पञ्चकूटा भवन्ति हि ।वैष्णवी वसुकूटा स्यात् षट्कूटा शाङ्करीभवेत् ॥
”अस्यार्थः चन्द्रान्तं हकारः । वारुणान्तंशकारः । शक्रादी रेफः । वामाक्षि ईकारः ।विद्यादौ पुर्व्वोक्तद्वादशविद्यादौ ।“वेदादिमण्डिता देवि शिवशक्तिमयी सदा ।तदा भेदास्तु सकलाः षट्कूटा परमेश्वरि ।वैष्णवी नवकूटा स्यात् सप्तकूटा च शाङ्करी ॥
”अस्यार्थः शिवशक्तिमयी पूर्व्वोक्ता बीजद्वय-वती । वेदादिः प्रणवः । मण्डिता आदौभूषिता ॥
* ॥
अथ महाषोडशी ।“आद्यवीजद्वयं भद्रे विपरीतक्रमेण हि ।विलिख्य परमेशानि ततोऽन्यानि समुद्धरेत् ॥
अन्तर्म्मुखी वरारोहे कुमारी त्रिपुरेश्वरी ।एभिस्तु पञ्चसंख्याकैर्बीजैः संपुटितां यजेत् ॥
षट्कूटां परमेशानि विद्येयं षोडशाक्षरी ।त्रिकूटाः सफला भद्रे षोडशार्णा भवन्ति हि ।वैष्णव्येकोनविंशार्णा शैवी सप्तदशाक्षरी ॥
”अस्यार्थः । आद्यबीजद्वयं मायारमात्मकम् ।विपरीतक्रमः आदौ रमा पश्चान्माया ।अन्तर्मध्य स्थितं कामबीजं मुखे आदौ यस्याःकुमार्य्याः । एभिः पञ्चसंख्याकैर्बीजैः षट्कूटांसप्तकूटां नवकूटां वा संपुटितां संपुटवत्कृतां तेनांनुलोमविलोमतः संपुटितामित्यर्थः ।योगिनीतन्त्रे ।“श्रीबीजमायास्मरयोनिशक्ति-स्तारञ्च माया कमलाथ विद्या ।शक्त्यादिबीजैश्च विलोमतोक्त्याश्रीषोडशीयञ्च शिवप्रदिष्टा ॥
”तथा च रुद्रयामले ।“श्रीर्म्माया मदनो वाणी परा तारं शिवप्रिया ।हरिप्रिया त्रिकूटा सा परा वाणी मनोभवः ।मातालक्ष्मीर्म्महाविद्या श्रीबीजं षोडशी परा ॥
”अथ बीजावली षोडशी । रुद्रयामले ।“श्रीबीजमाये संलिख्य तथैव च कुमारिकाम् ।श्रीबीजमाये कामञ्च वाङ्माया कमला तथा ॥
परां कामञ्च वाग्बीजं माया श्रीबी जमेव च ।बीजावली षोडशीयं सर्व्वतन्त्रेषु गोपिता ॥
राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥
” * ॥
तन्त्रान्तरे ।“आद्या कुण्डलिनी शक्तिः शक्तिराद्या ततः परानिवेशयेत्तयोर्म्मध्ये देवि गोविन्दवल्लभाम् ॥
ततस्तु मन्मथं बीजं श्रीबीजं तदनन्तरम् ।हृल्लेखा रभयोर्वक्त्रे वेदवक्त्रं विनिःक्षिपेत् ॥
ततो लोपा न्यसेद्देवि त्रिकूटामथवा पराम् ।आद्यानि पञ्चबीजानि पश्चाद्विन्यस्य सुन्दरि ।षोडशीयं सुगोप्या हि स्नेहाद्देवि प्रकाशिता ॥
अस्या माहात्म्यमतुलं जिह्वाकोटिशतैरपि ।वक्तुं न शक्यते देवि कि पुनः पञ्चभिर्मुखैः ॥
अपि प्रियतमं देयं सुतदारधनादिकम् ।राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥
”तन्त्रान्तरे ।“सिन्दूररजसा वापि कुङ्कु मेन विलेपिते ।लिखित्वा दर्शयेद्भूमौ न च कर्णे प्रकाशयेत् ॥
ततः स्वात्मविशुद्ध्यर्थं लक्षमेकं जपेद्गुरुः ॥
” * ॥
बीजषोडशीमाह । सिद्धयामले ।कामो माया रमा बाला त्रिकूटा स्त्री भगा-ङ्कुशौ ।काली कामकला कूर्च्चं सर्व्वादौ प्रणवः प्रिये ॥
श्रीमहाषोडशीयञ्च या ख्याता भुवनत्रये ।ज्ञानेन मृत्युहा विद्या सर्व्वाम्नायैर्नमस्कृता ॥
सप्तलक्षमहाविद्यास्तन्त्रादौ कथिताः प्रिये ।सारात्सारतरा भूता या या विद्याः सुगोपिताः ॥
बहुना किमिहोक्तेन तासां सारा तु षोडशी ।प्रकाशिता महादेवी या पृष्टा ते पुनः पुनः ॥
” *शाक्तकामराजन्तु श्रीक्रमे ।“मायाबीजं तथा झिण्टी कामं शक्रं वियत्क्रमात् ।जातवेदो मृगाङ्केन लाञ्छितं परमेश्वरी ॥
एतद्वाग्भवकूटञ्च पूर्व्ववत् कामराजकम् ।तथैव शक्तिबीजन्तु सुन्दर्य्येषा प्रकीर्त्तिता ॥
”अत्रापि पूर्व्ववद्बीजसंयोगः । माया ईकारः ।झिण्टी एकारः । पुनः शाक्तमाह ।“एतद्भगं ततो माया ब्रह्मा शक्रो हरोऽग्निनावामनेत्रेण संयुक्तो नादबिन्दुविभूषितः ।एतद्वाग्भवमुद्दिष्टं पूर्व्ववत् कामशक्तिकम् ॥
”भग एकारः । अत्रापि पूर्व्ववद्बीजसंयोगः । अत्रविशेषः ।“ब्रह्मबीजं यदा दद्यात् त्रिकूटेषु वरानने ।प्रथमा सुन्दरी देवी द्वितीया ब्रह्मसुन्दरी ॥
शक्तिकूटे महेशानि अनन्तसुन्दरी मता ।एषा तु सुन्दरी विद्या मतभेदेन दर्शिता ॥
त्रिकूटान्ते हंसवीजं बिन्दुसर्गविभूषितम् ।एषा श्रीप्राणसंयुक्ता दारिद्य्रदुःखमोचिनी ॥
”इति तन्त्रसारः ॥
* ॥
ऊनविंशतिपिण्डदानक्रिया । यथा, --प्रेतशिलोक्तरीत्या द्वादशपिण्डान् षोडशी-पिण्डांश्च दद्यात् । इति तीर्थयात्राप्रयोगतत्त्वम्तद्विधानं यथा, --“अमावस्यान्तु कन्यार्के तीर्थप्राप्तौ तथा नृपकृत्वा श्राद्धं विधानेन दद्यात् षोडशपिण्डकम् ॥
वायुपुराणीयस्तत्प्रयोगो यथा । ऊनविंशति-दास्यमानप्रिण्डस्थानानि यथादक्षिणं भाग-चतुष्टयेन कृतानि तत्र दक्षिणाग्रान् कुशान्आस्तीर्य्य ।“अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ।आवाहयिष्ये तान् सर्व्वान् दर्भपृष्ठे तिलोदकैः ॥
मातामहकुले ये च गतिर्येषां न विद्यते ।आवाहयिष्ये तान् सर्व्वात् दर्भपृष्ठे तिलोदकैःबन्धुवर्गकुले ये च गतिर्येयां न विद्यते ।आवाहयिष्ये तान् सर्व्वान् दर्भपृष्ठे तिलोदकैः ॥
”इत्येतैस्तिलोदकैरावाह्य ।“आब्रह्मस्तम्बपर्य्यन्तं देवर्षिपितृमानवाः ।तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥
अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् ।आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम ।”इत्येताभ्यां तिलोदकाञ्जलीन् दद्यात् । ततो मू-लादितः पितृतीर्थेन पिण्डान् दद्यात् । तत्र क्रमः“अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
१ ॥
मातामहकुले ये च गतिर्येषां न विद्यते ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
२ ॥
बन्धुवर्गकुले ये च गतिर्येषां न विद्यते ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
३ ॥
अजातदन्ता ये केचित् ये च गर्भे प्रपीडिताः ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
४ ॥
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथा परे ।विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम् ॥
५दावदाहे मृता ये च मिंहव्याघ्रहताश्च ये ।दष्ट्रिभिः शृङ्गिभिर्व्वापि तेभ्यः पिण्डं ददा-म्यहम् ॥
६ ॥
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये ।आत्मापघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥
७अरण्ये वर्त्मनि वने क्षुधया तृषया हताः ।भूतप्रतपिशाचाश्च तेभ्यः पिण्डं ददाम्यहम् ॥
वने जले ॥
८ ॥
रौरवे चान्धतामिस्रे कालसूत्रे च ये स्थिताः ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
९ ॥
अनेकयातनासंस्थाः प्रेतलोके च ये गताः ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
१० ॥
अनेकयातनासंस्था ये नीता यमकिङ्करैः ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
११ ॥
नरकेषु समस्तेषु यातनासु च ये स्थिताः ।तेषामुद्धरणाथयि इमं पिण्डं ददाम्यहम् ॥
१२ ॥
पशुयोनिगता ये च पक्षिकीटसरीसृपाः ।अथवा वृक्षयोनिस्थास्तेभ्यः पिण्ड ददाम्य-हम् ॥
१३ ॥
जात्यन्तरसहस्रेषु भ्रमन्तः स्वेन कर्म्मणा ।मानुष्यं दुर्ल्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥
१४दिव्यन्तरीक्षभूमिष्ठाः पितरो बान्धवादयः ।मृता असंस्कृता ये च तेभ्यः पिण्डं ददाम्य-हम् ॥
१५ ॥
ये केचित् प्रेतरूपेण वर्त्तन्ते पितरो मम ।ते सर्व्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा ॥
१६येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।तेषां पिण्डो मया दत्तः अक्षय्यमुपतिष्ठताम् ॥
१७पितृवंशे मृता ये च मातृवंशे च ये मृताः ।गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥
ये मे कुले लुप्तपिण्डाः पुत्तदारविवर्ज्जिताः ।क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा ॥
विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम ।तेषां पिण्डो मया दत्तः अक्षय्यमुपतिष्ठताम् ॥
१८आब्रह्मणो ये पितृवंशजातामातुस्तथा वंशभवा मदीयाः ।कुलद्वये य मम दासभूताभृत्यास्तयैवाश्रितसेवकाश्च ॥
मित्राणि सख्यः पशवश्च वृक्षादृष्टा ह्यदृष्टाश्च कृतोपकाराः ।जन्मान्तरे ये मम दासभूता-स्तेभ्यः स्वधा पिण्डमहं ददानि ॥
१९ ॥
अत्रोनविंशतिपिण्डे षोडशपिण्डत्वं पारिभाषिकंपञ्चाम्रवत् । इति तिथ्यादितत्त्वम् ॥
* ॥
एतेषांमन्त्राणां स्त्रीलिङ्गोहेन स्त्रीषोडशीत्वं भवति ॥
*अथ मातृषोडशी ।“गर्भादवगमे चैव विषमे भूमिवर्त्मनि ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
मासि मासि कृतं कष्टं वेदना प्रसवेषु च ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
शैथिल्ये प्रसवे चैव मातुरत्यन्तदुष्करम् ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
पद्भ्यां जनयते मातुर्दुःखञ्चैव सुदुस्तरम् ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
पद्भ्यामित्यत्र दद्भ्यामिति च पाठः ॥
४ ॥
अग्निना शोषते देहं त्रिरात्रानशनेषु च ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
पिबेच्च कटुद्रव्याणि क्लेशानि विविधानि च ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
दुर्ल्लभं भक्षद्रव्यस्य त्यागे विन्दति यत् फलम् ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
रात्रौ मूत्रपुरीषाभ्यां भिद्यते मातृकर्पटम् ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
पुत्त्रं व्याधिसमायुक्तं मातृदुःखमहर्निशम् ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
यदा पुत्त्रो न लभते तदा मातुश्च शोचनम् ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
क्षुधयां विह्वले पुत्त्रे ददाति निर्भरं स्तनम् ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
दिवा रात्रौ यदा मातुः शोषणञ्च पुनः पुनः ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
पूर्णे तु दशमे मासि मातुरत्यन्तदुष्करम् ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
गात्रभङ्गो भवेन्मातुस्तृप्तिं नैव प्रयच्छति ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
अल्पाहारवती माता यावत् पुत्त्रोऽस्ति बालकःतस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
यमद्वारे महाधीरे पथि मातुश्च शोचनम् ।तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
इति गयायां प्रसिद्धिः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
