षोडशार (SoDazAra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
Englishशब्दकल्पद्रुमः
Sanskritषोडशारं, (षोडश अराणि इव दलानियस्य ।) षोडशदलपद्मम् । यथा, तन्त्रे ।“आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूलेललाटेद्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्द्धेचतुष्के ।वासान्ते वादिलान्ते ड-फ-क-ठ-सहिते कण्ट-देशे स्वरणांहक्षौ कोदण्डमध्ये सकलदलगतं वर्णरूपंनमामि ॥
”जलाशयोत्सर्गीयवेदिकोपरिकर्त्तव्यचक्रम् । यथा, मत्स्यपुराणे ।“रजसा मण्डलं कुर्य्यात् पञ्चवर्णेन तत्त्ववित् ।षोडशारं भवेच्चक्रं पद्मगर्भं चतुर्म्मुखम् ॥
चतुरस्रन्तु परितो वृत्तं मध्ये गुणोत्तरम् ।वेद्याश्चोपरि तत् कृत्वा ग्रहाल्लोकपतींस्तथा ।विन्यसेन्मन्त्रतः सर्व्वान् प्रतिदिक्षु विचक्षणः ॥
”इति जलाशयोत्सर्गतत्त्वम् ॥
वाचस्पत्यम्
Sanskritषोडशार षोडश अरः कोणास्त इव वा अस्य । १ षोदशद-तयुक्ते कमले तन्त्रोक्ते २ यन्त्रभेदे च । तुलादानाद्यङ्गे२ चक्रभेदे षाडशारचक्रनिर्माणप्रकारस्तु तुलादानादि-पद्धतौ विधानपारिजाताद्युक्तोऽस्माभिर्दर्शितो यथा“गुरुर्वेदिमध्ये त्रिहस्तदीर्घविस्तारं चतुरस्रं प्रसाध्यतत्र प्राक्पश्चिमयोर्दक्षिणोत्तरतश्च नव नव रेखाः कृत्वाचतुःषष्टिकोष्ठकं मण्डल कुर्य्यात् । तत्र च सर्वाणिकोष्ठानि नवाङ्गुलदीर्घायामानि सम्पद्यन्ते । तत्र बाह्यासुपङ्क्तिषु चतुर्दिक्षु मध्ये पार्श्वयोः द्वे द्वे कोष्ठे परि-त्यज्य चत्वारि कोष्ठानि मार्जयित्वा चतुःकोष्ठानामेकतांसम्पाद्य स्वस्वसंलग्नोपान्त्यपङ्क्तिषु द्वे द्वे मध्यकोष्ठेपार्श्वयोः त्रीणि त्रीणि कोष्ठानि त्यक्त्वा मार्जयेत्तेन चतु-र्दिक्षु षट् षट् कोष्ठात्मकानि चत्वारि द्वाराणि जायन्ते ।ततो मध्यस्थानि षोडश कोष्ठानि प्रतिदिशं चत्वारि चत्वारिकोष्ठानि परित्यज्य मार्जयेत् । ततो बाह्यपङ्क्तिषु ए-कैकं कोणगं कोष्ठमुत्सृज्य कोणकोष्ठद्वारपीठान्तराल-वर्त्तीनि पञ्च पञ्च कोष्ठानि प्रतिदिशं मार्जयेत् । तेनमध्यचतुरस्रपीठस्य पादाः मवन्ति । ततो मध्यपीठमा-रभ्य क्रमशश्चत्वारि वृत्तानि कुर्य्यात् । तत्राद्ये चतुरङ्गुलीद्वितीयेऽष्टाङ्गलस्तृतीये चतुर्वि शत्यङ्गुलः चतुर्थे च षड-विंशत्यङ्गलो व्यासः । तत्राद्यं चतुरङ्गचव्यासकं वृत्तंकर्णिकारूपं पीतेन रजसा पूरयित्वा कर्णिकावधि रेखांसितेन रजसा विदध्यात् । तद्बहिरष्टाङ्गुलव्यासे द्वितीय-वृत्ते क्रमेण पीतरक्तसितरजोभिः सम्पादितमव्यमूला-ग्राणि षोडश केसराणि कृत्वा केसरावधिरेखां सितेनैवरजसाङ्गुलोन्नतां कुर्य्यात् । ततस्तद्वहिश्चतुर्विंशत्यङ्गुल-व्यासे तृतीयवृत्ते अष्टसु दिक्ष्वष्टौ पत्राणि सितरजसाविधाय रक्ताग्राणि कुर्य्यात् । ततो दलान्तरेषु सितेनरजसा रेखां विधाय दलमध्यानि कृष्णेन रजसा पूर-येत् । तद्वहिरेकाङ्गुलान्तरालां बहिर्वृत्तस्थ चतुर्थ-रेखां सितरजसा संपाद्य ततीयचतुथवृत्तद्वयान्तरस्थानेषुपरितोऽष्टदलाग्रतत्सन्धिषु षोडशभिः पत्रैः षोडशधाविभज्य प्रतिभागं यवाकारान् षोडशारान् श्यामपीता-रुणश्वेतरजोभिः कल्पयित्वा तन्मध्यं यंथायोगं रजोभिःपूरयेत् । तद्बहिः सितपीतारुणश्यामहरिताः पञ्चरेखाः क्रमशो लिखेत् । तद्बहिः पीठक्षेत्रचतुरस्रंयथाशोभं रजोभिरलङ्कृत्य पीठावधिरेखां सितेन रजमाकृत्वा द्वारक्षेत्राणि पूर्वादितः पीतश्वेतश्यामहरितर-जोभिः पूरयेत् । तत आग्नेयादिकोखस्थकोष्ठचतुष्टयंक्रमेण लोहितहरितश्यामधवलैः पूरयित्वा आग्नेया-दिपीठपादचतुष्टयं पञ्चकोष्ठात्मकं क्रमात् पितरक्तपीत-कृष्णरजोभिः पूरयेत् । ततः सितेन रजसाङ्गुलीन्नतेनबहिश्चतुरस्नरेखां कुर्य्यात् । ततः प्राच्यां वज्रम्, आ-ग्नेय्यां शक्तिं, दक्षिणे दण्डं, नैरृत्यां खङ्गं पश्चि-मायां पाशं, वायव्यां ध्वज, कौवेर्य्यां गदाम्, ऐशान्यांशूलं तहामे चक्रं, पाशदक्षिणे पद्मञ्च लिखेत्” ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
