| YouTube Channel

षोडशदान (SoDazadAna)

 
Monier Williams Cologne
English
षोडश—दान
n.
the aggregate of 16 kinds of gifts given at a Śrāddha
&c.
(said to be ‘room, a seat, water, clothes, a lamp, food, betel, a parasol, perfumes, a garland, fruit, a bed, shoes, cows, gold, and silver’),
MW.
शब्दकल्पद्रुमः
Sanskrit
षोडशदानं,
क्ली,
(षोडशप्रकारं दानम् ।)श्राद्धादौ षोडशप्रकारदेयद्रव्यम् तत्क्रममाहुःसाम्प्रदायिकाः ।“भूभ्यामनं जलं वस्त्रं प्रदीपोऽन्नं ततः परम् ।ताम्बलच्छत्रगन्धाश्च माल्यं फलमतः परम्
शय्या पादुका गावः काञ्चनं रजतं तथा ।दानमेतत् षोडशकं प्रेतमुद्दिश्य दीयते
”तत् षोडशषोडशकैरेको दानसागरो भवति
तत्र भूमेः पूजायां दानवाक्ये प्रियदत्तेतिविशेषणम् भूमेर्द्देवता विष्णुः षष्ठिवर्षसह-स्रावच्छिन्नस्वर्गवासः फलम् प्रतिग्रहे तद्भूमेःप्रदक्षिणीकरणम् तद्भूमेरसन्निधाने तामुद्दिश्यप्रदक्षिणम्
आसनस्य उत्तानाङ्गिरसोदेवता राज्यस्थानानुत्तमस्वर्गप्राप्तिः फलम् ।तत्र विशेषानुपदेशात् करमध्यात्माग्नेयेनतीर्थेन प्रतिग्रहः एवमन्यत्रापि आग्नेयं कर-तलम्
जलस्य वरुणो देवता तृप्तिप्राप्तिःफलम्
वस्त्रस्य बृहस्पतिर्द्देवता चन्द्र-सालोक्यप्राप्तिः फलम् प्रतिग्रहे दशान्तग्रहण-परिधाने
दीपस्य अग्निर्द्देवता उत्तमचक्षुःप्राप्तिः फलम्
अन्नस्य प्रजापतिर्देवताअक्षयसुखप्राप्तिः फलम् प्रतिग्रहे मुष्टिग्रह-णम्
ताम्बूलस्य वनस्पतिर्देवता मेधा-वित्वसुभगत्वप्राज्ञत्वदर्शनीयत्वप्राप्तिः फलम्
छत्रस्य उत्तानाङ्गिरसो देवता सर्व्वव्याधिविनि-र्मुक्तत्वश्रीमत्त्वबहुपुत्त्रत्वप्राप्तिः फलम् प्रति-ग्रहे दण्डधारणम्
गन्धस्य गन्धर्व्वो देवताब्रह्मपदप्रयाणं फलम्
माल्यस्य वनस्पतिर्देवता अत्यन्तसुखित्वभवनं फलम्
१० फलस्य-वनस्पतिर्देवता मुदा युक्तत्वं फलम्
११
शय्यायाः उत्तानाङ्गिरसो देवता अत्यन्तसुखित्वभवनं फलम् प्रतिग्रहे आरोहणम्
१२
पादुकायुगलस्य उत्तानाङ्गिरसो देवता सर्व्व-लोकसुखगमनं फलम् प्रतिग्रहे आरोह-णम्
१३
धेनो रुद्रो देवता सूर्य्यलोकप्राप्तिःफलम् तत्र धेनुं प्राङ्मुखीमात्मसमीप-मानीय ।“ओँ या लक्ष्मीः सर्व्वभूतानां या देवेष्वव-स्थिता ।धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु
ओँ देवस्था या रुद्राणी शङ्करस्य याप्रिया ।धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु
ओँ विष्णोर्वक्षसि या लक्ष्मीर्या लक्ष्मीर्धनदस्यच ।या लक्ष्मीः सर्व्वभूतानां सा धेनुर्वरदास्तु मे
ओँ चतुर्मुखस्य या लक्ष्मीः स्वाहा चैव विभा-वसोः ।चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये
ओँ स्वधा त्वं पितृसंघानां स्वाहा यज्ञभूजांयतः ।सर्व्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ मे
सर्व्वदेवमयीं देवीं सर्व्ववेदमयीन्तथा ।सर्व्वलोकनिमित्ताय सर्व्वलोकमपि स्थिराम् ।प्रयच्छामि महाभागामक्षयाय सुखाय
”इत्युच्चार्य्य उत्सृजेत् प्रतिग्रहे पुच्छधार-णम्
१४
हिरण्यस्याग्निर्देवता दीर्घायुः-प्राप्तिः फलम्
१५
रजतस्य चन्द्रमा देवताउत्तमरूपप्राप्तिः फलम्
१६
इति शुद्धि-तत्त्वम्
*
गयापद्धत्युक्तषोडशदादनं यथा, “स्वर्णं रौप्यं तथा ताम्रं कांस्यं गावो गजाहयाः ।गृहं भूमिर्वृषो वस्त्रं शाय्या क्षेत्रमुपानहौ
दास्यन्नं पितृयज्ञेषु दानं षोडशकं मतम्
”इति वायुपुराणे गयामाहात्म्यम्