| YouTube Channel

षो (So)

 
शब्दसागरः
English
षो r. 4th cl. (स्यति)
1. To destroy, to put an end to.
2. To be destroy-
ed, to perish.
3. To finish. With अव, To fail.
2. To complete.
With अधि and अव, 1. To practise.
2. To be able.
3. To determine.
4. To reflect. With परि and अव, 1. To endeavour.
2. To com-
plete, to conclude.
3. To resolve.
4. To be lost.
5. To be reduced
to. With वि and अव, 1. To determine upon, to accept.
2. To be
convinced.
3. To endeavour, to strive.
4. To effectuate.
5. To
desire.
6. To believe. With सम् and वि, To decree.
Yates
English
षो (य) स्यति 4.
a. To destroy
to perish.
Wilson
English
षो r. 4th cl. (स्यति)
1 To destroy, to put an end to.
2 To be destroyed, to perish.
Monier Williams Cologne
English
षो in comp. for षष्.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सो
मूलधातुः:
षो
धात्वर्थः:
अन्तकर्मणि
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
स्यति
अनुबन्धादिविशेषः:
ओकारान्तः
धातुप्रदीपः
Sanskrit
षो अन्तकर्मणि
- स्यति अभिष्यति प्रणिष्यति सीयते स्यतु स्यताम् स्य-अतो हेः (64105) इति हेर्लुक् स्यानि स्येत् अवसितम् सित्वा अवसाय 41
शब्दकल्पद्रुमः
Sanskrit
षो, नाशे इति कविकल्पद्रुमः
(दिवा०-पर०-सक०-अनिट् ।) मूर्द्धन्यादिः नाश इहनष्टीकरणम् य, स्यति यमो जन्तून् इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
षो नाशे दि०
पर०
अक० अनिट् स्यति असात्--असासीत् ।अव + समाप्तौ अवसानम् ज्ञाने
सक०
अवसोयते ।अधि + अव + उत्साहे अक० निश्चय ज्ञाने
सक०
अध्यवस्यति ।वि + अव + विशेषेण निश्चये
सक०
उद्यमे अक० व्यवस्यति ।अनु + वि + अव ज्ञानज्ञाने अनुव्यवसायः थटमहं जानामीत्या-दिरूपः
क्षीरतरङ्गिणी
Sanskrit
षो अन्तकर्मणि
- (अर्थविवरणम्) अन्तकर्म विनाशः
स्यति, अवस्यति प्रणिष्यति (द्र0 8417) उपसर्गात् (8365) षः प्राक् सितादड्व्यवायेऽपि (8363)-अभ्यष्यात् विभाषा घ्रा (2478) इति वा सिज्लुक्-अवासात्, अवासीत् घुमास्था (6466) इतीत्त्वम्-अवसीयते शाछा (7337) इति युक्-अवसाययति णः (द्र0 31141)-अवसायः द्यतिस्यति (7440) इतीत्त्वम्-अवसितः ऊतियूतिजूतिसाति (3397) इति सातिः सातिभ्याम् (उ0 4153) इति मनिन्-साम [सात्म ] सात्मनो भावः सात्म्यम् 38
धातुवृत्तिः
Sanskrit
षो (अर्थः) अन्तकर्मणि
( स्यति ससौ, ) इत्यादि सर्वे श्यतिवत् ( अभिष्यति, अभिष्यत्, अभ्यषात्, अभ्यषासीत् ) "उपसर्गात्सुनोति'' इत्यादिना "प्राक्सितात्'' इति षत्वम् ( अभिससौ ) इत्यत्र "स्थादिष्वभ्यासेन'' इति नियमाद् अभ्यासस्य षत्वम् ( अभिसिषासति ) इत्यत्र पूर्ववदभ्यासस्य षत्वम् उत्तरस्य तु "इण्कोः'' इति षत्वम् ( प्रणिष्यति प्रण्यष्यद् ) "नेर्गद'' इत्यादिना णत्वम् तच्च अड्व्यवायेऽपीष्यते ( सेषीयते ) "घुमास्था'' इतीत्वं हलादौ क्ङित्यार्धधातुके आशीर्लिड्यात्वम् "एर्लिङि'' इत्येत्वे (सेयात्) इति (अवसाय ) "न ल्यपि'' इतीत्वनिषेधः (सित्वा, सितः) "द्यतिस्यति'' इतीत्वम् "परिनिविभ्य'' इत्यत्र सित इत्यस्यापि ग्रहणम्, तच्च नियमार्थम् तेन पर्यादिभ्योऽन्यत्र सितशब्दस्य षत्वाभावात् प्रतिसितमित्यत्र षत्वमित्येके अन्ये तु साहचर्याद् अलाक्षणिकत्वादिविधिसम्भवे नियमायोगाद् विधिवैषम्यप्रसङ्गाच्च सिनोतेरेव सितशब्दस्य ग्रहणमित्यस्य "उपसर्गात्'' इति षत्वं सर्वत्र भवत्येवेत्याहुः अवस्यतीति ( अवसायः ) "श्याद्व्यध'' इत्यादिना णे युक्, (सायः) घञ् साये भवः, ( सायंतनः ) "सायञ्चिरम्'' इत्यादिना ट्युट्युलोरन्यतरः प्रत्ययः तुडागमः मान्तत्वं सायशब्दस्य वस्तुतो मान्तोऽव्ययं सायशब्दस्तस्याव्ययत्वादेव प्रत्ययस्सिद्धः ( सातिः ) "ऊतियूति'' इत्यादौ निपातनात् क्तिनोत्वाभावः 39
कृदन्तरूपमाला
Sanskrit
1 {@“षो अन्तकर्मणि”@} 2 दैवश्लोकः पूर्वधातौ द्रष्टव्यः।
सामान्यरूपाणि छ्यतिवत् 3 ऊह्यानि।
4 सायकः, 5 अवसितम्-अवसितः-अवसितवान्, सित्वा, 6 अवसायः, 7 साययिता, 8 सातिः, 9 अवसाय, 10 अभिसिषासुः, 11 12 प्रणिष्यन्-न्ती-ती, 13 प्रतिसितम्, 14 सायः-सायम्, 15 साम, सात्म-सात्म्यम् इति विशेषरूपाणि।
प्रासङ्गिक्यः
01
=>
(१८५७)
02
=>
(४-दिवादिः-११४७। सक। अनि। पर।)
03
=>
(५७७)
04
=>
[[४। ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इत्यत्र बहुलग्रहणत्, योगविभागाद्वा संज्ञायां ण्वुल्। ‘आतो युक्--’ (७-३-३३) इति युगागमः। स्यति = अन्तं करोति इति सायकः = शरः।]]
05
=>
[[५। ‘द्यतिस्यति--’ (७-४-४०) इति निष्ठादिषु कित्प्रत्ययेषु इकारः। एवम् सित्वा, अवसितिः इत्यादिष्वपि बोध्यम्।]]
06
=>
[[६। ‘श्याऽऽद्व्यधाश्रुसंस्रवतीणवसावहृ--’ (३-१-१४१) इति कर्तरि णप्रत्ययः। युगागमः। अवस्यतीति अवसायः निश्चयः। सूत्रे आदन्तत्वेनैव णप्रत्यये सिद्धे पुनः ‘अवसा’ इति ग्रहणं आदन्तलक्षणं कर्तरि कप्रत्ययं बाधितुम्।]]
07
=>
[[७। णिजन्तात् तृचि रूपमेवम्। ‘शाच्छासा--’ (७-३-३७) इति युक्। आदन्तलक्षण- पुकोऽपवादः।]]
08
=>
[[८। ‘ऊतियूतिजूतिसाति--’ (३-३-९७) इति क्तिन्नन्तो निपातः। निपातनादेव ‘द्यतिस्यति--’ (७-४-४०) इतीत्वं न।]]
09
=>
[[९। ‘न ल्यपि’ (६-४-६९) इति इकारनिषेधः।]]
10
=>
[[१०। ‘स्थादिष्वभ्यासेन--’ (८-३-६४) इति नियमात् अभ्यासे षत्वम्। उत्तरखण्डे तु ‘इण्कोः’ (८-३-५७) इति षत्वम्।]]
11
=>
[पृष्ठम्१३५१+ २९]
12
=>
[[१। शतरि ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्। ‘ओतः श्यनि’ (७-३-७१) इत्योकारलोपः। ‘उपसर्गात् सुनोतिसुवतिस्यति--’ (८-३-६५) इति षत्वम्। ‘नेर्गदनदपतपदघुमास्यति--’ (८-४-१७) इति णत्वम्।]]
13
=>
[[२। ‘परिनिविभ्यः सेवसित--’ (८-३-७०) इत्यत्र निष्ठान्तस्यास्यापि ग्रहणमिति केचित्। तेषां मते परिषितम्, निषितम्, विषितम् इति षत्वम्। प्रतिसितम् इत्यत्र तु षत्वमिति बोध्यम्।]]
14
=>
[[३। घञि युगागमः। अवसीयते इति सायः = कालविशेषः। अस्यैव ‘सायम्’ इति स्वरादिषु (१-१-३७) निपातनात् मकारान्तत्वम्, अव्ययत्वं इति केचित्। अन्ये तु ‘अव्युत्पन्नं प्रातिपदिकम् ‘सायम्’ इति’ इति वदन्ति।]]
15
=>
[[४। ‘सातिभ्यां--’ (द। उ। ६-८१) इति मनिण्प्रत्यये साम। तेनैव सूत्रेन त्मन्प्रत्यये सात्म = सान्त्वनम्।]]