| YouTube Channel

षेवृ (SevR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सेव्
मूलधातुः:
षेवृ
धात्वर्थः:
सेवने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
सेवते
अनुबन्धादिविशेषः:
ऋदित्
धातुवृत्तिः
Sanskrit
षेवृँ षेवृ
मानकरूपान्तरम् - गेवृँ
गेवृ
मानकरूपान्तरम् - ग्लेवृँ
ग्लेवृ
मानकरूपान्तरम् - म्लेवृँ
म्लेवृ (अर्थः) सेचने
शेवृ खेवृ मेवृ इत्यप्येकइति मैत्रेयः (सेवते सिषेवे सेवितेत्यादि सिसेविषते) सिसेविषते ) "स्तौतिण्योरेव'' इत्यषत्वम् ( सेषेव्यते सेवयति असिपेवत् ) एषाम् ऋदित्त्वात् "ण्ण्चङि'' इति ह्रस्वः ( परिषेवयते ) "परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्'' इति षत्वं "सात्पदाद्योः'' इति निषेधापवादः "प्राक् सिताददव्यवायेपि'' इति वचनात्पर्यषेवतेत्यादावपि भवति ( परिषिषेविषते ) इत्यषणीति नियमः "स्थादिष्वभ्यासेन खभ्यासस्य'' इत्यर्नेन बाध्यते एवं विनिभ्यामप्युदाहार्यम् ( सेवित्वा सेवितः क्विप् सयः ) अत्र मैत्रेयादयोदत्यादिमपि वदन्ति तथा "परिनिविभ्यः सेव'' इत्यत्र न्यासेपि षीपदेशस्य "सात्पदाद्योः'' इति निषेधे प्राप्ते ऽपरस्य त्वप्राप्ते वचेति दिदं षेपदेशलक्षणपर्युदासे सेक्तृवर्जमिति स्त्यायतिवदनुपादानाद्भाष्यकारस्यानभिमतत्वमिव प्रतीयते अत एव "परिनिविभ्यः'' इत्यत्र हरदत्तः सेवतिर्भूवादिष्वनुदात्तेदित्याह तु सेवतीति ( पेवते ग्लेवते तेवते म्लेवते म्लेवते शेवते खेवते मेवते ) क्लेवृ इत्यपि क्वचित्पठ्यते 501
कृदन्तरूपमाला
Sanskrit
1 {@“षेवृ सेवने”@} 2 ‘-- सेचने’ इति केचित्।
3 सेवृ--’ इति परे।
4 सेवा, 5 सयूः, 6 अनिल- 7 सेवनम्, 8 सेविष्णुः, 9 परिषेवमाणः-निषेवमाणः-विषेवमाणः, 10 सेवका इति विशेषरूपाणि।
सामान्यरूपाणि गेपतिवत् 11 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१८५५)
02
=>
(१-भ्वादिः-५०१। सक। सेट्। आत्म।)
03
=>
[[५। मैत्रेयादयः दन्त्यादिं पठन्ति, तत् षोपदेश-सोपदेशव्यवस्थापकभाष्यविरोधादु- पेक्ष्यम्। तथा भाष्यम्--(६-१-६४) “अज्दन्त्यपराः सादयः षोपदेशाः, स्मिङ्स्वदिस्विदिस्वञ्जिस्वपयश्च
\n\n सृपिसृजिस्तृस्त्यासेकृसृवर्जम्” इति।]]
04
=>
[[६। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्ययः।]]
05
=>
[[७। क्विपि ऊठि अयादेशे रूपमेवम्।]]
06
=>
[[८। ‘कर्मणि
\n\n येन संस्पर्शात् कर्तुः शरीरसुखम्’ (३-३-११६) इति कर्मण्युपपदे ल्युट्। ‘उपपदमतिङ्’ (२-२-१९) इति समासः। ‘येन संस्पर्शने कर्तुः शरीरसुखसम्भवः। तत्कर्मोपपदे ल्युट् स्यात् जनैरनिलसेवनम्।।’ इति प्रक्रियासर्वस्वम्।]]
07
=>
[पृष्ठम्१३५०+ २८]
08
=>
[[१। ‘भुवश्च’ (३-२-१३८) इत्यत्र चकारस्यानुक्तसमुच्चयार्थकत्वात् तच्छीलादिषु कर्तृषु धातोरस्मादपि इष्णुच्प्रत्ययः।]]
09
=>
[[२। ‘परिनिविभ्यः सेव--’ (८-३-७०) इति षत्वम्।]]
10
=>
[[३। क्षिपकादित्वात् (ग। सू। ७-३-४५) संज्ञायां इत्वनिषेधः। अन्यत्र सेविका।]]
11
=>
(४२९)