| YouTube Channel

षृभु (SRbhu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सृभ्
मूलधातुः:
षृभु
धात्वर्थः:
हिंसायाम्
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
सर्भति
धातुप्रदीपः
Sanskrit
षृभुँ षृभु
मानकरूपान्तरम् - षृन्भुँ
षृम्भु हिंसार्थौ
- सर्भति सिसर्भिषति सर्भित्वा सृब्ध्वा सिषर्भयिषति सृम्भति षिभु षिम्भु। इत्येके सेभते सिम्भते श्रिभु श्रिम्भु इत्यन्ये श्रेभति श्रिम्भति ।। 430, 431 ।।
धातुवृत्तिः
Sanskrit
षृभुँ षृभु
मानकरूपान्तरम् - षृन्भुँ
षृम्भु (अर्थः) हिंसार्थौ
अत्र मैत्रय एवं पठित्वा षिभु षिम्भु इत्येकइति ऋकारस्य स्थाने इकरमप्याह तरङ्गिण्यां तु ऋकारवन्तौ दन्त्यादौ पठित्वा षोपदेशपर्युदासे सृग्रहणेनानर्थकस्यापि ग्रहणमित्युक्तम् ( सर्भति ससर्भ सर्भितेत्यादि सिषर्भिषति ) मैत्रेयपाठे"स्तौतिण्योरेव'' इत्यषत्वम् ( सरीष्टभ्यते सरीष्टभीति सरिष्टभीति सर्ष्टभीति सरीष्टब्धि सरिष्टब्धि सर्ष्टब्धि सर्भयति अससर्भत्)असीसृभतुरृद्वा(सिषर्भिषति) तरङ्गिण्यां मते तु षत्वं भवति(सर्भित्वासृप्त्वा) ऊदित्त्वादिड्विकल्पः ( सृब्धम् ) "यस्य विभाषा'' इत्यनिट्त्वम् ( सृभ्यम् ) ऋदुपधत्वात् क्यप् ( सृम्भति ससृम्भ सृभ्यात् ससृम्भतुः ) नलोपः ङ्कितोः इकारवत्पाठपक्षे (सेभति सिम्भतीत्यादि) 428
कृदन्तरूपमाला
Sanskrit
1 {@“षृभु हिंसायाम्”@} 2 ‘षिभु--’ इति, ‘सिभु--’ इति पाठभेदौ।
यङन्तेषु अभ्यासे रीङ्, इति विशेषः
‘सरीसृभकः--भिका’ इत्यादीनि रूपाणि।
सृभ्यम्।
इतराणि रूपाणि भौवादिकतृपधातुवत् 3 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८५३)
02
=>
(१-भ्वादिः-४३०। सक। सेट्। पर।)
03
=>
(७७२)