| YouTube Channel

षूद (SUda)

 
Wilson
English
षूद r. 1st cl. (सूदते) r. 10th cl. (सूदयति)
1 To leak, to drop, to flow, to distil.
2 To deposit, to place.
3 To hurt, to wound, to kill or attempt to kill.
4 To promise.
5 (In the causal form, ) To hallow, to make holy or pure.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सूद्
मूलधातुः:
षूद
धात्वर्थः:
क्षरणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
सूदते
धातुः:
सूद्
मूलधातुः:
षूद
धात्वर्थः:
क्षरणे, हिंसायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
सूदयति-ते
धातुप्रदीपः
Sanskrit
षूदँ षूद क्षरणे
- सूदते सुषूदे सूदिता मधुसूदनः नन्द्यादिः ।। 24 ।।
षूदँ षूद क्षरणे
- सूदयति असूषुदत सुषूदयिषति अन्यत्र सूदते 178
शब्दकल्पद्रुमः
Sanskrit
षूद, क्षणने इति प्राञ्चः (भ्वा०-पर०-सक०सेट् ।) क्षणनमवदारणं हिंसोपलक्षणमितिरमानाथेन व्याख्यातम् इति दुर्गादासः
षूद, आश्रुतिहत्योः निरासे इति कविकल्प-द्रुमः
(चुरा०-पर०-सक०-सेट् ।) आश्रुति-रङ्गीकारः क, सूदयति धनं विप्राय दातुंदाता रमानाथस्तु आस्रवण इति दन्त्यसकारंपठित्वा सूदयति मदिरा भाण्डात् क्षरतिइत्यर्थ इत्याह इति दुर्गादासः
षूद, निरासे इति कविकल्पद्रुमः
(भ्वा०-आत्म०-सक०-सेट् ।) षष्ठस्वरी ङ, सूदते ।निरासो निःक्षेपः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
षूद निवारणे
भ्वा०
आ०
सक०
सेट् सूदते असूदिष्ट
षूद मारणे
भ्वा०
पर०
सक०
सेट् सूदति असूदीत्
षूद क्षरणे अक० प्रतिज्ञायां निरासे
सक०
अद०
चु०
उभ०
सेट् सूदयति तें असुषूदत्
क्षीरतरङ्गिणी
Sanskrit
षूदँ षूद क्षरणे
(अर्थविवरणम्) क्षरणं निरसनम्
सूदते निसूदितः चुरादौ षूद निःस्रावणे (तु010186) निसूदयति नन्द्यादौ (द्र031134) सूदनः पचादौ सूदट् - (द्र031134) सूदः, सूदी सूददीपदीक्षां (तु032135) इति युज् नास्ति - सूदिता 24
षूदँ षूद आस्रवणे
- सूदयते घाते केचित्-निसूदयति भ्वादौ क्षरणे (121) -सूदते, सूदः, निसूदितः 184
धातुवृत्तिः
Sanskrit
षूदँ षूद (अर्थः) क्षरणे
(अर्थविवरणम्) क्षरणं निःसारणम्
अत्रायमकर्मकः, हिंसायामपि वर्त्तते, (मधुसूदनः इति अत्रायं सकर्मकः ण्यन्तोयं संस्कारेपि वर्त्तते "अग्रिर्हव्यं शमिता मूदयति' इति हव्यं हवनार्हंपशोर्हृदयादि शमिता शमित्रोग्रिः सुदयति संस्करोतीति क्षरणस्वादुकरणनार्थत्वमहे रात्राणि मरुतो विलिसं सूदन्त्वित्यत्राह भष्टभास्करः तथा हि अहोरात्राणि मरुतश्च तद्विलिष्टं विनाशितं विष्टयं वा सूदयन्तु क्षारयन्तु यद्विलिषं स्वादुकुर्वन्तु वा यद्वा यद्विलिष्टं यागायोग्यं यद्विरूपं विशसितं तद्विनाशयन्त्विति क्षरे तु तत्र विलिष्टं न्यूनं पूरयन्त्विति पूरणार्थत्वं दृश्यते ( सूदते सुष्टूदे सूदिता ) इत्यादि भावादौ ( सूद्यते ) इत्यादि ( सुसूदिषते ) "स्तौतिण्योरेव इति'' नियमान्न षत्वम् ( सोसूद्यते सोसूत्ति सूदयतिसूदयते असूषुदत् ) "णौ चङि'' इति सामान्यस्ताच्छीलिकस्तृन् ( मधुसूदनः ) "नन्दियहिपचादिभ्यो ल्युणिन्यचः'' इति ल्युः क्षरति क्षारयति रसानिति च, सूदः पक्कः पाचकश्च "हगुपधज्ञाप्रीकिरः कः'' इति इगुपधत्वात् कर्त्तरि कः अयं चुरादावपि 25
षूदँ षूद (अर्थः) क्षरणे
के चिदाश्रवण इति पठन्ति ( सूदयति असूषुदत् ) सूदत इति शपि 182
कृदन्तरूपमाला
Sanskrit
1 {@“षूद क्षरणे”@} 2 क्षरणम् = निरसनम्।
‘--निस्सरणम्’ इति केचित्।
3 मधुसूदनः इत्यादिषु हिंसार्थकत्वमपि दृश्यते।
4 सूदिता, 5 सूदः,
सामान्यरूपाणि भौवादिककन्दतिवत् 6 बोध्यानि।
चुरादावपि केचित् ‘षूद’ इति पठन्ति
रूपेषु कोऽपि विशेषः।
प्रासङ्गिक्यः
01
=>
(१८५१)
02
=>
(१-भ्वादिः-२५। सक। सेट्। आत्म।)
03
=>
[[१। मधुं = तन्नामकमसुरं सूदयति = हिनस्ति इति मधुसूदनः। नद्यादिषु (३-१-१३४) पाठात् ण्यन्तात् कर्तरि ल्युः। ‘सात् पदाद्योः’ (८-३-१११) इति मूर्धन्यनिषेधः।]]
04
=>
[[२। ‘सूददीप--’ (३-२-१५३) इति ताच्छीलिकस्य अनुदात्तेत्त्वलक्षणयुचो निषेधात् ‘तृन्’ (३-२-१३५) इति तृन्।]]
05
=>
[[३। पचाद्यच्। सूदः = सूपकारः, पङ्कश्च।]]
06
=>
(१६३)