| YouTube Channel

षूङ् (SUG)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सू
मूलधातुः:
षूङ्
धात्वर्थः:
प्राणिगर्भविमोचने
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
सूते
अनुबन्धादिविशेषः:
ऊकारान्तः
धातुः:
सू
मूलधातुः:
षूङ्
धात्वर्थः:
प्राणिप्रसवे
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
सूयते
अनुबन्धादिविशेषः:
ऊदित्
धातुप्रदीपः
Sanskrit
षूङ् प्राणिगर्भविमोचने
- सूते सुवाते सुवते सुषुवे सुषुवाते सविता सोता सूताम् सुवाताम् सूष्व सूध्वम् सुवै सुसूषते सूतः सूतवान् सूत्वा सूतिः अङ्गदसूः सूतका सूतिका ।। 22 ।।
षूङ् प्राणिप्रसवे
- सूयते अब्दे अब्दे वा प्रसूयते प्राणिग्रहणमतन्त्रम्, अप्राणिप्रसवेऽपि वर्तते- सूनं धान्यम् सुषुवे सविता सोता प्रसूनम् प्रसूनवान् सूते सुवतीति धात्वन्तरयोः 26
क्षीरतरङ्गिणी
Sanskrit
षूङ् प्राणिगर्भविमोचने
- इत ऊर्णुञन्ता (231) नव सेटः सूते स्वरतिसूति (7244) इति वेट्-सोता, सविता सुषुवे भूसुवोस्तिङि (7388) इति गुणो नास्ति-सुवावहै स्तौतिण्योरेव षणि (8361) इति षत्वम्-सुषावयिषति सुविनिर्दुर्भ्यः सुपिसूति (8388) इति सुषूतिः राजसूयसूर्य (33114) इति राजसूयः साधुः सूतः, सूतकम्, भावक्तान्तात् कन्, सूतकापुत्रकावृन्दारकाणां वेति वक्तव्यम् (तु0 7345 वा0) इति सूतका सूतिका सुसूधागृधिभ्यः क्रन् (श्वेत0 उ0 227) सूरोऽर्कः सुवः कित् (उ0 335) सूनुः क्रिन् (द्र0 उ0 464) सूरिः दिवादौ षूङ् प्राणिप्रसवे (421) प्रसूयते तुदादौ षू प्रेरणे (6110) सुवति 19
षूङ् प्राणिप्रसवे
- सूयते स्त्री स्वरतिसूतिसूयति (7244) इति वेट्-सोता सविता इतो व्रीङन्ता (30) नवौदितः-सूनः, सूनवान् प्रसूनं पुष्पम्, अत एवायम् अप्राणिप्रसव इत्यन्ये अदादौ (223) सूते, सूतः तुदादौ षू प्रेरणे (6110)-सुवति 24
धातुवृत्तिः
Sanskrit
षूङ् (अर्थः) प्राणिगर्भविमोचने
( सूते सुवाते, सुवते, सूषे सूध्वे सुवे, सूवहे, सूमहे ) अजादावुवङ्., ( सुषुवे सुषुवाते सुषुविषे सुषुविढ्वे सुषुविध्वे ) "विभाषेटः'' ( सुषुविवहे ) "आदेशप्रत्यययोः'' इतीणः परस्य सस्य षत्वम् "श्र्युकः किति'' निषेधोऽत्र स्वरत्यादिविकल्पनात्
पूर्वं निषेधकाण्डस्य प्रारम्भाद्बलवत्तरः तथापि क्रादिसूत्रेण बाध्यते तत्र वृग्रहात्
तेन इण् नित्यः, एतच्च स्वरतावेवोपपादितम् ( सोता सविता सोष्यते सविष्यते) स्वरत्यादिनेड्विकल्पः, ( सूताम् सुवातां, सूष्व, सुवै, ) आटि पित्त्वादङित्त्वेऽपि "भूसुवोस्तिङि'' इति निषेधान्न गुणः ( असूत असुवाताम् असूथाः असूध्वम् असुवि, असूवहि सुवीत सुवीयाताम्, सुवीथाः, सुवीय, ) आशिषि--(सविषीष्ट, सविषीयास्ताम् सविषीरन्, सविषीष्ठाः, सविषीढ्वम्, सविषीध्वम् सविषीय, सोषीष्ट, सोषीयास्तां, सोषीरन्, सोषीष्ठाः सोषीढ्वं, सोषीय, ) आर्धधातुकत्वात्स्वरत्यादिनेड्विकल्पः अत एव "भूसुवोस्तिङि'' इति गुणनिषेधोऽपि भवति सहि सार्वधातुकविषयः, "इणः षीधवम्'' इति नित्यो मूर्द्धन्योऽनिट्पक्षे, इट् पक्षे तु गुणावादेशयोर्विकल्पः, एवं लुङ्यापि ( असविष्ट, असविषाताम् असविष्ठाः असविध्वम् असविढ्वम् असविषि, असविष्वहि असोष्ठाः, असोषाताम् असोष्टाः असोढ्वम् असोषि, सुसूषते, ) "स्तौतिण्योरेव'' इति नियमान्न षत्वं, "सनि ग्रहगुहोश्च'' इति चशब्देनोकोऽनुकर्षणादिण्निषेधः "श्र्युकः किति'' इतिवददोपि स्वरत्यादिविकल्यं बाधते उक्तं न्यासे "श्र्युकः किति'' "सनि ग्रहगुहोश्च'' इति पूर्वं विधेरिट्प्रतिषेधसामर्थ्यात् तु बलीयस्त्वं प्रतिषेधनियमस्येति ( सोषूयते सोषुवीति, सेषूति, ) [ प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् ] इति "भूसुवोस्तिङि'' इति गुणप्रतिषेधः, ( सावयति असूषवत् ) णौ कृतस्य स्थानिवद्भावात्सूशब्दस्य द्विर्वचनम् कर्म्मणि ( सूयते, असावित्यादि, ) स्यादिषु तु वा चिण्वद्भावादिटि साविष्यते इत्यादि, अन्यदा कर्तृवदिड्विकल्पे द्वैरूप्यम्, तदेवं त्रीणि रूपाणि भवन्ति लुङ्लिङोर्ध्वमि तु शुद्धइटि वा चिण्वदिट्यपि "विभाषेटः'' इति मूर्धन्यविकल्पनात्पञ्च रूपाण्युदाहार्याणि, एवं कर्मकर्तर्यपि लुङ्येकवचने "अचः कर्मकर्तरि'' इति चिण्सिचौ द्वौ भवतः, सिचश्च वा चिण्वदिट्, तदभावे शुद्धेड्विकल्पश्चेति चातूरूप्यम् ( असावि, असविष्ट, असाविष्ट असोष्ट, इति गोषु प्रसूतः, गवां प्रसूतः, "स्वामीश्वर'' इत्यादिना शेषे षष्ठीसप्तम्यौ भवतः तत्र षष्ठी सप्तम्या माबाधीति पक्षे केवलमभ्यनुज्ञायते पुनर्विधीयतइति प्रतिपदविधानाभावाद्गोप्रसूत इति समासोऽपि भवति ईशतावयमर्थः प्रपञ्चितः ( पुत्रसूः प्रसूः ) "सत्सूद्विष'' इत्यादिना कर्म्मण्युपसर्गेऽपि उपपदे क्विप्, तत्र यद्यपि सुपीति चानुवर्त्तते तथापि तस्याकर्मकैरेव सम्बन्धइति गृहे सूत इत्यत्र क्विब् भवति, अयं क्विब्विधिर्द्विषा साहचर्यात् लुग्विकरणत्वेप्यस्यैव भवति तु षूङ् प्राणिप्रसवइति दैवादिकस्य, नापि पू प्रेरणे इति तौदादिकस्य ( सूत्वा )"श्र्युकः किति'' इतीण्निषेधः ( सूतः, सूतवान् ) इत्यत्रानेन वा "यस्य विभाषा'' इति वा इडभावः ( सूतका सूतिका ) स्वार्थे कः "केऽण'' इति टापो ह्रस्वः [ वा सूतकापुत्रिकावृन्दारकाणाम् ) इत्यत इत्वविकल्पः ( प्रसवः, ) "ऋदोरप्'' घञोऽपवादः ( सुषूतिः निःषूतिः विषूतिः दुःषूतिः ) "सुविनिर्दुर्भ्यः सुपिसूतिसमाः'' इति स्वादिभ्यः परस्य सुप्यादेः सकारस्य षत्वम् सुपीति कृतसम्प्रसारणस्य स्वपेनिर्देशः इतरत्र स्वरूपग्रहणमिति अतिसूत इत्यत्र "सात्पदाद्योः'' इति षत्वनिषेध एव भवति ( सूरिः ) "षूङः क्रिः'' इति क्रिः स्त्रीविवक्षायां "कृदिकाराद्वा ङीष्'' इत्यात्रेयः (सूरः) "सुसुधागृधिभ्यः क्रन्'' इति क्रन्, ( सूनुः, ) "सुवः कित्'' इति नुप्रत्ययः, कित्त्वान्न गुणः, अलुग्विकरणत्वाद्वा व्युत्पाद्यः, ( पुमान् ) अस्माद्धातोर्डुमसुन्प्रत्ययः, सकारस्य षकारः डकारष्टिलोपार्थः अकार उच्चारणार्थः, अन्त्य उकार उगित्कार्यार्थः, नकारः स्वरार्थः "पुंसोऽसुङ्'' इति सर्वनामस्थानेऽसुङादेशो ङित्त्वादन्त्यस्य, उकार उच्चारणार्थः प्रत्ययस्योदित्त्वात्सर्वनामस्थाने नुम् सिद्धः "सान्तमहतः संयोगस्य'' इति संयोगात्पूर्वस्यासम्बुद्धौ सर्वनामस्थाने दीर्घः, सम्बुद्धौ तु असुङि नुमि संयोगान्तलोपे हे पुमनिति, पुमांसावित्यादौ "नश्चापदान्तस्य झलि'' इत्यनुस्वारः अजादावसर्वनामस्थाने पुंस इत्यादि हलादौ तु पूर्वस्य पदत्वात्संयोगान्तलोपे "मोऽनुस्वारे'' तस्य "वा पदान्तस्य'' इति ययि वा परसवर्णे पुंभ्यां पुम्भ्यामित्यादि पुंस्वित्यत्र "नुम् विसर्ज्जनीयशर्व्यवायेऽपि'' इति षत्वं भवति नुमो योऽनुस्वारस्तस्यैव नुङ्ग्रहणेन तत्र ग्रहणात् अयमसुङादेशोऽङ्गाधिकारविहितत्वात्तदन्तस्यापि भवतीति परमपुमानित्यादावपि भवति बहवः पुमांसो यस्यामिति बहुव्रीहौबहुपुंसीत्यत्र अन्तर्वर्त्तिनः सर्वनामस्थानस्य लुका लुप्तत्वात्प्रत्ययलक्षणाभावान्न सर्वनामस्थानपरतेत्यसुङ् भवति डुमसुन्प्रत्ययस्योदित्त्वात् ङीप् उरःप्रभृतिषु पुमानित्येकवचनान्तपाठात्तेनैव समासे नित्यः कप् अन्यत्र "शेषाद्विभाषा'' इतिविकल्प इतीह कब भावः, यदा कप् तदा प्रातिपदिकस्य कबन्तत्वेनोगिदन्तत्वाभावादाब् भवति बहुपुंस्केत्यत्र सकारस्य संयोगान्तलोपे नकारस्य [ सम्पुंकानां ] इति सः, "पुमः खय्यम्परे''इति रुत्वापवादः सकारः "अत्रानुनासिकः पूर्वस्य तु वा'' इत्युकारस्य वानुनासिकादेशः नन्वत्रग्रहणस्य रुणा सह सन्नियोगप्रतिपत्त्यर्थत्वात्कथमत्रानुनासिकः नैष दोषः रुप्रकरणे यद्विधीयते तदुपलक्षणार्थत्वादत्रग्रहणस्य, यदा नानुनासिकस्तदा "अनुनासिकात्परोऽनुस्वारः'' इत्युकारात्परोनस्वारः, अत्रान्यशब्दस्याध्याहारेणानुनासिकादन्यो वर्णस्ततः परोऽनुस्वार इति सूत्रार्थः एवं नपुंसकेऽप्यन्तर्वर्तिनः सर्वनामस्थानस्य लुप्तत्वादसुङ् नु भवति, बहुपुमन् नगरमिति, सकारस्य संयोगान्तलोपः बहुपुंसी इत्यत्रान्तर्वर्तिनीं लुप्तां विभक्तिमाश्रित्य प्रत्ययलक्षणेन तदन्तत्वेन पदत्वात्सकारस्य संयोगान्तलोपो शङ्क्यः, "उत्तरपदत्वे चापदादिविधौ'' इत्युत्तरखण्डस्य प्रत्ययलक्षणेन पदत्वनिषेधात् यद्वात्र भसंज्ञया पदसंज्ञाबाधेनैव सलोपप्रसङ्गः बहुपुमांसीत्यत्र शेः सर्वनामस्थानत्वेनासुङ् तृतीयादिषु पुंल्लिङ्गवत् ( पौंस्नम् )अपत्यादौ "स्त्रीपुंसाभ्याम्'' इति स्नञ्, ( पुस्त्वं, पुंस्ता, ) नञ्स्नञौ त्वतलोर्न बाधकाविति स्त्यायतावुक्तम् पुंवदिति निपातनाद्वतिः, स्त्री पुमांश्च ( स्त्रीपुंसौ ) "अचतुरादौ'' इतरेतरयोगे द्वन्द्वेऽजन्तो निपातितः, तत्पुरुषे तु स्त्रियाः पुमान् स्त्रीपुमानित्येव स्त्रीपुंसौ नपुंसकः, "नभ्राड्'' इत्यादौ निपातनान्नञः प्रकृतिभावः स्त्रीपुंसशब्दस्य पुंसकादेशः 21
षूङ् (अर्थः) प्राणिप्रसवे
( सूयते, सूयेते, सूयसे, सूये, सूयावहे सषुवे, सुषुविषे, सुषुविवहे सोता, सविता सोष्यते, सविष्यते, ) "स्वरतिसूतिसूयति'' इतिवलादाविड्विकल्पः लिट्यमुं विकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् "श्र्युकः किति'' इति प्रतषेधे प्राप्ते क्रादिनियमान्नित्यमिट् ( सूयतां, सैयेतां, सूयस्व, सूयै असूयत असूयेताम्, असूयथाः, असूये, असूयावहि सूयेत, सूयेयातां, सूयेथाः सूयेय, सूयेवहि ) आशिषि, (सोषीष्ट, सविषीष्ट, सोषीयास्तां, सविषीयास्ताम् असीष्ट, असोषाताम्, असोष्ठाः, असीषि असविष्ट ) इत्यादि, पूर्ववद्विकल्पः (सुसूषते) "सनि ग्रहगुहोश्च'' इति निषेये कित्त्वाद्गुणत्वम्, अयमपि निषेधःपुरस्तादारम्भात् स्वरत्यादिविकल्पं बाधते "स्तौतिण्योरेव'' इत्यषत्वम् ( सूत्वा, सूनः, सूनवान् ) "स्वादय ओदितः'' इत्योदित्त्वाद् "ओदितश्च'' इति निष्ठानत्वम् अयमसूयार्थोऽपि तेन देव दत्ताय सूयत इति "क्रुधद्रुह'' इति चतुर्थी भवतीत्यात्रेयः अत्र प्राणिग्रहणमतन्त्रम् तेन प्रसूनास्तरव इति भवति अन्ये तु "सर्वं भावास्सचेतना' इत्यत्र प्राणित्वमाहुः तथा "प्रसूनं कुसुमं समम्' इत्यत्र सुभूतिचन्द्रः, षूङः प्राणिप्रसवे, क्षपणकमतेन वृक्षस्यापि प्राणित्वमिति अनुक्तं सूतिवत् 34
कृदन्तरूपमाला
Sanskrit
1 {@“षूङ् प्राणिगर्भविमोचने”@} 2 ‘प्राणिग्रहणमतन्त्रम्
अप्राणिप्रसवेऽपि वर्तते--प्रसूनं धान्यम्’ इति मैत्रेयः।
‘स्वरतिसूति--’ 3 इत्यादिना इड्विकल्पो वलाद्यार्धधातुकेषु।
4 सुषूतिः, -विषूतिः-निःषूतिः-दुःषूतिः, 5 प्रसूनम्-प्रसूतम्, सुषवी, 6 प्रसवी, 7 प्रसवः, 8 सन्तानसूः, 9 सूनुः, सूतकम्, सूतका-सूतिका, इति विशेषरूपाणि।
सामान्यरूपाणि धूञ्धातुवत् 10 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८४९)
02
=>
(२-अदादिः-१०३१। सक। सेट्। आत्म।)
03
=>
(७-२-४४)
04
=>
[[७। पुरस्तात् प्रतिषेधकाण्डारम्भसामर्थ्यात् ‘श्रपुकः क्किति’ (७-२-११) इतीण्निषेधः। ‘सुविनिर्दुर्भ्यः सुपिसूतिसमाः’ (८-३-८८) इति षत्वम्।]]
05
=>
[[८। ‘स्वादय ओदितः’ (ग। सू। ८-२-४५) इत्यातिदेशिकमोदित्त्वम्। तेन ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वम्। एतच्च पाक्षिकमिति केचित्। तेषां मते प्रसूत इत्यपि।]]
06
=>
[[९। ‘जिदृक्षि… प्रसूभ्यश्च’ (३-२-१५७) इति इनिप्रत्ययः। प्रसवी = प्रसवशीलः।]]
07
=>
[[१०। ‘ऋदोरप्’ (३-३-५७) इत्यप्प्रत्ययः। प्रसवः सन्तानः, पुष्पं च।]]
08
=>
[[११। सन्तानं सूते इति सन्तानसूः। ‘सत्सू--’ (३-२-६१) इत्यादिना क्विप्।]]
09
=>
[[१२। औणादिके (द। उ। १-१४६) नुप्रत्यये रूपम्। प्रत्ययस्य कित्त्वात् गुणः।]]
10
=>
(९०६)
1 {@“षूङ् प्राणिप्रसवे”@} 2 सर्वाण्यपि रूपाणि दैवादिककूङ्धातुवत् 3 बोध्यानि।
4
प्रासङ्गिक्यः
01
=>
(१८५०)
02
=>
(४-दिवादिः-११३३। सक। वेट्। आत्म।)
03
=>
(२३८)
04
=>
[पृष्ठम्१३४९+ ३१]