षू (SU)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishYates
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
Englishधातुपाठः (Krishnacharya)
Sanskrit सु
षू
प्रेरणे
तुदादिः
सकर्मकः
सेट्
परस्मैपदी
सुवति
ऊकारान्तः
धातुप्रदीपः
Sanskritषू प्रेरणे
- सुवति अभिषुवति सविता सूर्य्यः सूतः 134
एकाक्षरनाममाला
Sanskritषू, इष्ट, प्रसव
शुश्चन्द्रे षः सदारः स्यात् तथेष्टे प्रसवे तु षूः ।
verse 1.1.1.43
page 0122
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritषू प्रेरणे
- सुवति उपसर्गात् सुनोतिसुवति (8365) इति षत्वम् अभिषुवति सविता सोषूयते सुसूषति, स्तौतिण्योरेव षणि (8361) इति नियमात् षत्वं नास्ति 127
धातुवृत्तिः
Sanskritषू (अर्थः) प्रेरणे
( सुवति सुवतः सुवन्ति सुवसि सुवामि सुषुवति, ) "उपसर्गात्सुनोतिसुवति'' इति षत्वम् (सुषाव सुषुवतुः सुषविथ सुषुविव अभ्यासात्परस्य "आदेशप्रत्यययोः'' इति षत्वम् (सुसुषाव विसुषाव ) "उपर्सात्''इति षत्वमभ्यासस्य "स्थादिष्वभ्यासेन चाभ्यासस्य'' इति नियमान्न भवति ( सविता सविष्यति सुवतु असुवत् अभ्यषुवत् ) "प्राक्सितादड्व्यवायेऽपि''इति षत्वम् ( सुवेत् सूयात् असावीत् असाविष्टाम् अभ्यषवीत् ) लङ्वत्षत्वं, (सुसूषति) "स्तौतिण्योः''इति न षत्वम् (अभिसुसूषति) पूर्ववत्स्थादिनियमादभ्यासस्य न षत्वम्, प्रकृतेश्च"स्तौतिण्योः''इति नियमात् "सनि ग्रहगुहोश्च''इत्यानिट्त्वात्"इको झल्''इति सनः कित्त्वम् (सोषूयते सोषोति सावयति असूषवत् सूत्वा सूतः सूर्यः) "राजसूय'' इत्यादिना क्यपि रुडागमः सूर्यस्य स्त्री देवता ( सूर्या ) [सूर्याद्देवतायां चाब्वक्तव्यः] इति चाप् पुंयोगङीषोऽपवादः अदेवतायां तु ङीषेव ( सूरी मानषी ) इति ( सूत्रम्) "सूर्यतिष्य'' (इति सूत्रम्) इति तद्धिते ईति च भसंज्ञानिमित्ते यलोपः सूर्यस्येदं (सौर्यम्) इत्यत्र [सूर्यस्य छे च ङ्यां च] इति नियमान्न लोपः यद्यप्यत्र "यस्येति च''इत्यल्लोपस्य यलोपविधिम्प्रति न स्थानिवदिति स्थानिवत्त्वनिषेधाद्यकारो नोपधस्तथापि "असिद्धवदत्राभात्''इत्यसिद्धत्वादुपधात्वादस्ति लोपप्रसङ्गः, (सौरी बलाका) इत्यत्र तु "तेनैदिक्''इत्यणि ङीप्यणो "यस्येति'' इतिलोपस्य पूर्ववदसिद्धत्वादुपधायकार इति तस्य लोपः, इकारपरत्त्वात् न चाणि यो यस्येतिलोपस्तस्यासिद्धत्वादनुपधात्वमिति शङ्क्यम् अण्यल्लोपा यलोपस्त्वीतीति व्याश्रयत्वेनासिद्धत्वाप्रसङ्गात् न च स्थानिवद्भावेनोपधात्वभङ्ग यलोपविधौ तस्य निषेधात् नन्वेवमपि यकारः सूर्यस्योपधा न भवति किन्त्वणन्तस्येति लोपो न स्यात् नैष दोषः नात्र सूर्यादिभिरुपघां विशेषयिष्यामः किन्तु भसंज्ञकेन, भस्योपधा यो यकारो वस्तुतः सूर्यादिसम्बन्धीति एवं च सौरीयमित्यत्रापि अणन्ताच्छे पूर्ववद् यलोपः सिध्यति "सौर्ये हिमवतः शृङ्गे' इत्यत्र पूर्ववदणि "नपुंसकाच्च'' इति शीभावे पूर्ववदीति प्राप्तो यलोपो ङ्यामितीकारस्य विशेषणान्न भवति "सौरो मन्त्रः' इति प्रयोगस्तु सूरशब्दादणि द्रष्टव्यः ( प्रसवी ) "जिदृक्षिवि''इत्यादिनेनिः ( सवित्रम् ) "अर्त्तिलू'' इति इत्रः ( सूरः ) "सूसूधागृविभ्यः क्रन्'' इति क्रन् सूरिस्तु"सूङः क्रि'' इति, षूङ उक्तः, सूते सूयतइति लुक्श्यनोः 124
कृदन्तरूपमाला
Sanskrit1 {@“षू प्रेरणे”@} 2 ‘प्रेरणे सुवति प्राणिप्रसवे सूयते भवेत्।
प्राणिगर्भविमोकेऽर्थे सूते शे श्यनि शब्लुकि।।’ 3 इति देवः।
4 5 सूर्यः, 6 सविता, 7 सवित्रम्, 8 सूतः, 9 प्रसवी, 10 सूरः, इति विशेषरूपाणि।
सामान्यरूपाणि कौतिवत् 11 बोध्यानि।
01 (१८४८)
02 (६-तुदादिः-१४०८। सक। सेट्। पर।)
03 (श्लो। २५)
04 [पृष्ठम्१३४८+ २६]
05 [[१। सुवति प्राणिनस्तत्तत्कर्मसु इति सूर्यः। ‘राजसूयसूर्य--’ (३-१-११४) इत्यत्र निपातनात् क्यप्, रुडागमश्च।]]
06 [[२। ‘तृन्’ (३-२-१३५) इति ताच्छीलिकस्तृन्प्रत्ययः। सविता = सूर्यः। प्रेरणशील इत्यर्थः।]]
07 [[३। ‘अर्तिलूधूसू--’ (३-२-१८४) इति करणे इत्रप्रत्ययः।]]
08 [[४। संज्ञायां क्तप्रत्यये रूपम्। सूतः = रथादीनां प्रेरकः सारथिः।]]
09 [[५। ‘जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च’ (३-२-१५७) इति इनिप्रत्ययः। प्रसवी = आज्ञप्ता।]]
10 [[६। औणादिके क्रन्प्रत्यये रूपमेवम्। सूरः = सूर्यः। ‘सूरसूर्यार्यमादित्य--’ इत्यमरः।]]
11 (१९६)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
