| YouTube Channel

षुह (Suha)

 
Yates
English
षुह (प) सुह्यति 4.
a. To bear, be
content
be able.
Wilson
English
षुह r. 4th cl. (सुह्यति)
1 To bear, to endure.
2 To be content or satisfied.
3 To be able.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सुह्
मूलधातुः:
षुह
धात्वर्थः:
चक्यर्थे (तृप्त्यर्थे)
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
सुह्यति
शब्दकल्पद्रुमः
Sanskrit
षुह, तृपि शक्तौ इति कविकल्पद्रुमः
(दिवा०-पर०-सक०-सेट् ।) शक्तिः क्षमा ।ऌ, असुहत् य, सुह्यति दुःखं मुनिः सहतइत्यर्थः सुषोह इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
षुह तृप्तौ अक० क्षमायां
सक०
दि०
पर०
सेट् सुह्यति ऌदित्असुहत्
क्षीरतरङ्गिणी
Sanskrit
षुहँ षुह शक्यर्थे
- (अर्थविवरणम्) शक्यर्थस्तृप्तिः
सुह्यति सुषोह आदनस्य सुहितः षह षुह संभक्तौ इति दुर्गः-विषह्यति 21
धातुवृत्तिः
Sanskrit
षुहँ षुह (अर्थः) चक्यर्थे
(अर्थविवरणम्) चक्यर्थस्तृप्तिरिति
स्वामिधनपालशाकटायनाः आत्रेयमैत्रेयदुर्गाः षहषुह इति द्वौ धातू पेठुः सद्देरिह पाठो न्यासकारहरदत्तरामदेवादीनामप्यनभिमतः, यत्तत्र तत्र सहिग्रहणे भौवादिकमेवाहुः, नामुम्, चास्याग्रहणे कारणम् "दाश्वान्साह्वान्' इत्यत्र "साह्वानिति "षह मर्षणे' इत्यस्मात्परस्मैपदं निपात्यते' इति वृत्तिमुपादाय "षह मर्षणे'' इत्यात्मनेपदित्वात् चौरादिकस्य तु "आधृषाद्वा'' इति णिजभावपक्षे दीर्घत्वमद्वित्वमनिट्त्वं निपात्यत इत्यन्ये'' इति वदता हरदत्तेनेह सहेरपाठः स्फोरितः "साह्वानिति निपातनं आधृषीयाद्विभाषितणिच'' इति वदन् कैयटकारोऽप्यत्रैवानुकूलः सहिपठतां सह्यतीत्याद्युदाहार्यम् षत्वादिसहितवन्नेयम् अत्र परिषह्यतीत्याद्युदाहृत्य "परिनिविभ्यः'' इति षत्वमिति वदता आत्रेयेण युदक्तं, "यत्तु तत्र षह मर्षणइत्यस्य ग्रहणं न्यासे प्रतिपादितं नैतस्यापीति तदनागममिति नादरीणीयम्' इति अस्यैव धातोरभावाद् तस्यायं दोषः स्वव्याघातकं चात्रेयवचनं यद्वक्ष्यति "तीषसह'' इतीड्विकल्पः सहेति शबन्तस्य सूत्रे निर्देशात् नास्य'' इति तच्च यस्मात् षत्वविधावपि तुल्यम् ( सुह्यति सुषोह सोहिता सोहिष्यति सुह्यतु असुह्यत् सुह्येत् सुह्यात् ) लिङौ ) लिङौ (असौहीत् सुसुहिषति सुसोहिषति सुहित्वा, सोहित्वा, सोषुह्यते सोषुहीति, सोषोढि सोहयति असूषुहत् फलानां सुहितः ) "पूरणगुण'' इति षष्ठीसमासनिषेधः 21
कृदन्तरूपमाला
Sanskrit
1 {@“षुह चक्यर्थः”@} 2 ‘चक्यर्थः = तृप्तिः’ इति स्वामिकाश्यपधनपालशाकटायनाः।
फलानां 3 सुहितः।
सर्वाण्यपि रूपाणि दैवादिककुथ्यतिवत् 4 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८४७)
02
=>
(४-दिवादिः-११२९। अक। सेट्। पर।)
03
=>
[[८। ‘पूरणगुनसुहितार्थ--’ (२-२-११) इति षष्ठीसमासनिषेधः। सुहितार्थाः = तत्प्यर्थाः इति वैयाकरणाः।]]
04
=>
(२१८)