| YouTube Channel

षुर (Sura)

 
Wilson
English
षुर r. 6th cl. (सुरति)
1 To possess supreme or superhuman power.
2 To shine.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सुर्
मूलधातुः:
षुर
धात्वर्थः:
ऐश्वर्य-दीप्त्योः
गणः:
तुदादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
सुरति
धातुप्रदीपः
Sanskrit
षुरँ षुर ऐश्वर्य्य, दीप्त्योः
- सुरति सुषोर सोरिता सूर्य्यात् असोरीत् सुरः सुरा 59
शब्दकल्पद्रुमः
Sanskrit
षुर, भेश्ययोः इति कविकल्पद्रुमः
(तुदा०-पर०-अक०-सेट् ।) मूर्द्धन्यादिः श, सुरतिसोरिता सुषोर भा दीप्तिः ऐश्यमैश्वर्य्यम् ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
षुर दीप्तौ अक० ऐश्वर्य्ये स० तु० प० सेट् सुरति असोरीत्
धातुवृत्तिः
Sanskrit
षुरँ षुर (अर्थः) ऐश्वर्य, दीप्त्योः
( सुरति सुषोर सुषुरतुः ) "आदेशप्रत्यययोः''इति प्रकृतेः षत्वम् ( सोरिता सोषूर्यते सोषोर्त्ति सोरयति असूषुरत् ) सुरन्तीति ( सुराः ) इगुपधलक्षणःकः 59
कृदन्तरूपमाला
Sanskrit
1 {@“षुर ऐश्वर्यदीप्त्योः”@} 2 सुरन्तीति सुराः देवाः।
इगुपधलक्षणः कप्रत्ययः।
इतराणि समस्तान्यपि रूपाणि तौदादिककुरतिवत् 3 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८४६)
02
=>
(६-तुदादिः-१३४०। अक। सेट्। पर।)
03
=>
(२२९)