| YouTube Channel

षुञ् (SuJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सु
मूलधातुः:
षुञ्
धात्वर्थः:
स्नपन-पीडन-स्नान-सुरासन्धानेषु
गणः:
स्वादिः
कर्मकत्वं:
स्नाने अकर्मकः, अन्यत्र सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
सुनोति, सुनुते
अनुबन्धादिविशेषः:
उकारान्तः
धातुप्रदीपः
Sanskrit
षुञ् अभिषवे
- अभिषवः सुरासन्धानं स्नपनं पीडनं स्नानं मन्थनं जनं वा सुनोति सुनुते सुन्वे सुनोमि परत्वाद् गुणे कृते उतश्चप्रत्ययाद् इत्यनुवृत्तौ (64106) लोपश्चास्यान्यतरस्यां म्वोः (64107) इत्युकारलोपो भवति इह तु गुणाभावाद् भवत्युकारलोपः-सुन्वः सुनुवः सुनुवहे सुन्वहे इत्यादि अभिषुणोति सुषाव सुषुवे सोता अभिसोष्यति अभ्यषुणोत् असावीत् असोष्ट अभिसुसूषति अभिसुसूः (1) सुत्वा, सुत्वानौ सोमसुत् राजसूयम् 1
क्षीरतरङ्गिणी
Sanskrit
षुञ् अभिषवे
-(अर्थविवरणम्) अभिषवः क्लेदनं, संधानाख्यम्
इतः कृञन्ताः (57) सप्तानिटः स्वादिभ्यः श्नुः (3173)-सुनोति, सुनुते
अभिषुणोति, अभ्यषुणोत् उपसर्गात् सुनोति (8365) इति षत्वे प्राप्ते स्थादिष्वभ्यासेन (8364 ) इति नियमान्नास्ति-अभिसुषाव अभिसुषुवे सुनोतेः स्यसनोः (83117)-अभिसोष्यति, अभिसुसूषति सुन्वः सुनुवः, सुन्मः सुनुमः लोपश्चास्यान्यतरस्यां म्वोः (33107) स्तुसुधूञ्भ्यः (7272) इति सिचीडागमः असावीत् सुञो यज्ञसंयोगे (32132) शता-सुन्वन् संज्ञायां समज (3399) इति सुत्या राजसूयसूर्य (31114) इति राजसूयः आसुयुवपि (31126) इति ण्यत्-आसाव्यम् सोमे सुञः (3290) क्विप्-सोमसुत् सुयजोर्ङ्वनिप् (32103)-सुत्वा वनो (417) सुत्वरी अर्तिस्तुसु (उ0 140) इति मन्-सोमः सुसूधागृधिभ्यः क्रन् (द0उ0 842) सुरा सुयुरुवृञो युच् (उ0 274) सवनः सुञो दीर्घश्च (उ0 313) सूना वधस्थानम् कुसुयुभ्यश्च (दश0 उ0 75) इति सूपः 1
धातुवृत्तिः
Sanskrit
षुञ् (अर्थः) अभिषवे
आवृञ एतदादयो ऽनुदात्ता उभयतोभाषाः (अर्थविवरणम्) अभिषवः स्नपनपीडनस्नानसुरासंधानादिः
तत्र स्नानेऽयमकर्मकः ( सुनोति सुनुतः सुन्वन्ति सुनोषि सुनोमि सुन्वः सुनुवः ) "स्वादिभ्यः श्नुः'' शपोऽपवादः "हुश्नुवोस्सार्वधातुके'' इत्यजादावगुणविषये श्नोरुकारस्य यण् लोपश्चास्यान्यतरस्यां म्वोः इति वकारमकारादावसंयोगपूर्वात् पक्षे उकारलोपः सुनोमीत्यत्र परत्वाद्गुणे उकाराभावान्नायं लोपः ( अभिषुणोति ) "उपसर्गात्सुनोति''इति षत्वं, ( सुषाव सुषुवतुः सुषोथ सुषविथ सुपुवथुः सुषुव सुषाव सुषव सुषुविव ) क्रादिनियमादिट् थलि तु भारद्वाजनियमाद्विकल्पः उवङ् अगुणवृद्धिविषये (अभिसुषाव) "स्थादिष्वभ्यासेन'' इति नियमादभ्यासस्य षत्वं, प्रकृतेस्तु "आदेशप्रत्यययोः'' इति षत्वं, ( सोता सोष्यति अभिसोष्यति ) इत्यत्र "सुनोतेः स्यसनोः'' इति "उपसर्गात्''इति षत्वं निषिध्यते ( सुनोतु सुनुतात् ) तातङो ङित्वान्न गुणः (सुनुतां, सुन्वन्तु, सुनु) "उतश्च प्रत्ययादसंयोगपूर्वात्'' इति हेर्लुक् ( सुनुताम्, सुनुत सुनवानि ) आटि पित्वादङित्वात् यणं बाधित्वा गुणः (असुनोत् असुनुताम् असुन्वन् असुनोः असुनवम् असुन्व असुनुव ) पूर्ववदुकारलोपः, पक्षे (अभ्यषुणोत्) "प्राक्सितादड्व्यवायेऽपि'' इति षत्वम् (सुनुयात् सुनुयाताम् सुनुयुः ) "जुसि च'' इति गुणः "सार्वधातुकमपित्'' इति ङित्वाश्रये प्रतिषेधं येन नाप्राप्तिन्यायेन बाधते, तु यासुटो ङित्वाश्रायमपीति नात्र गुणः ( सुनुयाः सुनुयाम् ) आशिषि ( सूयात् सूयास्ताम् ) "अकृत्सार्वधातुकयोः'' इति दीर्घः ( असावीत् असाविष्टाम् असावीः असाविषम् ) "स्तुसुधूञ्'' इति परस्मैपदेषु सिच इट् ( सुनुते सन्वाते सुन्वते सुनुषे सुन्वे सुन्वहेसुनुवहे ) पूर्ववद्यणुकारलोपौ ( सुषुवे सुषुविषे सुषुविढ्वे सुषुविध्वे) "विभाषेटः'' ( सुषुवे सुषुविवहे सुषुविमहे सोता सोष्यते सुनुताम् सुन्वाताम् सन्वतां, सुनुष्व सुनवै सुनवावहै असुनुत असुन्वाताम् असुन्वत असुनुथाः असुन्वि असुन्वहि असुनुवहि सन्वीत सुन्वीयाताम् ) आशिषि (सोषीष्ट सोषीयास्ताम् सोषीढ्वम् ) "इणः षीध्वम्'' इति मूर्धन्यः (असोष्ट असोषाताम् असोष्ठाः असोषि सुसूषति, सुसूषते) "स्तौतिण्योरेव'' इति नियमान्न षत्वम्, (अभिसुसूषति) इत्यत्र "उपसर्गात्'' इत्यभ्यासस्य षत्वं "स्यादि'' नियमेन बाध्यते एवं तर्हि "सुनोतेः स्यसनो'' इति सनि षत्वनिषेधस्य किमुदाहरणम् इदं सुसूषतेरप्रत्ययः, अतो लोपः, ( सुसूढः ) इति अत्र हि सनः षत्वस्यासिद्धत्वात्सस्य रुत्वे विसर्जनीये कृतषत्वस्य सनोऽभावात् "स्तौतिण्योरेव'' इति प्रवर्त्तते एकदेशविकृतन्यायेनास्ति सन्परत्वमिति "सुनोतेः स्यसनोः'' इति निषेधस्तु प्रवर्त्तते ( सोषूयते सोषुवीति ) (सोषोति सोषुतः) "उपसर्गात् इति षत्वम् "सुनोतेःस्यसनोः'' इति निषेधस्तु श्तिपा निर्द्देशान्न प्रवर्त्तते ( अभिसोषोति, सोषवीति ) यङ्लुगन्तात्सनीटि गुणावादेशयोरभाविप्रत्यये अतोलोपे पूर्ववत् षत्वस्यासि( 1 ) ( 1 ) सत्वात् इत्यधिकं पुस्तकान्तरे द्धत्वाद्गुणे"र्वोरुपधाया दीर्घ'' इति दीर्घः ( सावयति असूषुवत् सुषावयिषति ) ण्यन्तात्सनि "स्तौति'' इति षत्वं, ( सुन्वन्, सुन्वानः ) "लटः शतृशानचौ'' ( राजसूयः ) कर्मण्यधिकरणे वा "राजसूय'' इति क्यपि निपात्यते ( आसाव्यम् ) "आसुयुवपि''इति ण्यति वृद्धौ "धातोस्तन्निमित्तस्यैव''इत्यावादेशः सोमंसुतवान् ( सोमसुत् ) "सोमे सुञः'' इति भूते क्विप् ( सुत्वा सुत्वानौ ) "सुयजोर्ङ्वनिप्'' इति भूते ङ्वनिप् स्त्रियां ( सुत्वरी ) "वनो च'' इति ङीब्रेफौ ( सुन्वन्, सुन्वन्तौ) "सुञो यज्ञसंयोगे''इति शता अयमलडादेशः, यजमान उच्यते (सुत्या) "संज्ञायां समज'' इत्यादिना स्त्रियां क्यप् आसुतीवलो यज्वा शौण्डिकश्च क्तिन्नन्तात्''रजः कृष्यसुति''इति मत्वर्थीये वलचि "वल'' इति दीर्घः (सुरा) "सुसूधागृधिभ्यः क्रन्''इतिक्रन् सुरको ऽहिविशेषः स्थूलादिषु "सुराया अहावि' इति पाठात्कनि "केऽणः'' इति ह्रस्वः 1
कृदन्तरूपमाला
Sanskrit
1 {@“षुञ् अभिषवे”@} 2 दैवश्लोकः, सवतौ 3 द्रष्टव्यः।
अभिषवः = स्नपनपीडनस्नानसुरासन्धानादिः।
4 सुन्वन्-ती, 5 सुत्वा-सुत्वरी, 6 अभिषुत्य, 7 सवनम्, 8 राजसूयः, 9 सुत्या, 10 11 आसाव्यम्-सव्यम्, 12 सोमसुत्, 13 अभिसोष्यन्-न्ती-ती, अभिसुसूषुः, अभिषवः, 14 आसुतीवलः, 15 सुरा, 16 सुरकः, 17 सोमः इति विशेषरूपाणि।
सामान्य- रूपाणि तु भौवादिकदवतिवत् 18 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८४४)
02
=>
(५-स्वादिः-१२४७। सक। अनि। उभ।)
03
=>
(१८४३)
04
=>
[[३। ‘सुञो यज्ञसंयोगे’ (३-२-१३२) इति शता। लडादेशात् शतुरयं भिन्नः, यजमान उच्यते सुन्वन् इति। धातोरुभयपदित्वेन शतरि शानचि ‘अभिषुण्वन्- अभिषुण्वानः सोमम्’ इत्यषि क्रमेण भवति।]]
05
=>
[[४। भूते ‘सुयजोः--’ (३-२-१०३) इति ङ्वनिप्। प्रत्ययस्य ङित्त्वात् गुणनिषेधः। पित्त्वात् तुक्। सुत्वा-इष्टवान् यः, एवमुच्यते। स्त्रियाम् ‘वनो च’ (४-१-७) इति ङीप्, रेफश्च।]]
06
=>
[[५। ल्यपि तुक्। ‘उपसर्गात् सुनोति--’ (८-३-६५) इति षत्वम्।]]
07
=>
[[६। सवनम् = यज्ञः, प्रातर्मध्यसायङ्कालरूपकालत्रयं च। ल्युटि रूपमेवम्।]]
08
=>
[[७। राज्ञा सूयतेऽसौ इति, राजा वाऽसौ सूयते इत्यर्थे ‘राजसूय--’ (३-१-११४) इत्यनेन राजशब्दे उपपदे सुनोतेः क्यप्, दीर्घश्च। राजसूयः = राज्ञैव साधनीयः क्रतुविशेषः। अर्धर्चादित्वात् राजसूयम्-राजसूयः इत्युभयमपि साध्वेव।]]
09
=>
[[८। ‘संज्ञायां समजनिषदनिपतमनविदषुञ्--’ (३-३-९९) इति स्त्रियां क्यपि, तुकि रूपमेवम्। सुत्या क्रतुविशेषः।]]
10
=>
[पृष्ठम्१३४७+ २६]
11
=>
[[१। ‘आसुयु--’ (३-१-१२६) इति ण्यत्प्रत्ययः। अजन्तत्वलक्षणयतोऽपवादः। आसाव्यम् = यज्ञियं सवनकर्म। अन्यत्र सव्यमित्येव।]]
12
=>
[[२। भूते ‘सोमे सुञः’ (३-२-९०) इति क्विप्। सोमं = सोमयागं सुतवान् इष्टवान् सोमसुत्।]]
13
=>
[[३। अत्र ‘उपसर्गात् सुनोति--’ (८-३-६५) इति प्राप्तस्य षत्वस्य ‘सुनोतेः स्यसनोः’ (८-३-११७) इति निषेधः। एवं सन्नन्तेषु सर्वत्र षत्वं न।]]
14
=>
[[४। आङ्पूर्वकादस्मात् क्तिन्नन्तात् ‘रजः कृष्यासुति--’ (५-२-११२) इति मत्वर्थीये वलप्रत्यये ‘वले’ (६-३-११८) इति दीर्घः।]]
15
=>
[[५। औणादिके (द। उ। ८-४२) क्रन्प्रत्यये रूपम्। सुरा = मद्यविशेषः।]]
16
=>
[[६। सुरकः = अहिविशेषः, येन दष्टा माद्यन्ति। सुराशब्दात् सुरा इव सुरकः
\n\n इवार्थे कनि, ‘केऽणः’ (७-४-१३) इति ह्रस्वः।]]
17
=>
[[७। औणादिके (द। उ। ६-७९) मनिन्प्रत्यये रूपम्। सोमः = लताविशेषः।]]
18
=>
(८४७)