| YouTube Channel

षिष्यमाणः (SiSyamANaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“गन्ध अर्दने”@} 2 आकुस्मीयः।
गन्धकः-न्धिका, जिगन्धयिषकः-षिका
गन्धयिता-त्री, जिगन्धयि- षिता-त्री
3 गन्धयमानः, 4 जिगन्धयिषमाणः
गन्धयिष्यमाणः, जिगन्धयि- षिष्यमाणः
सुगन्-सुगन्धौ-सुगन्धः
गन्धितम्-तः, जिगन्धयिषितः-तवान्
गन्धः, जिगन्धयिषुः
गन्धयितव्यम्, जिगन्धयिषितव्यम्
5 गन्धनीयम्, जिगन्धयिषणीयम्
गन्ध्यम्, जिगन्धयिष्यम्, ईषद्गन्धः-दुर्गन्धः-सुगन्धः
गन्ध्यमानः, जिगन्धयिष्यमाणः
गन्धः, जिगन्धयिषः
गन्धयितुम्, जिगन्धयिषितुम्
गन्धना, जिगन्धयिषा
गन्धनम्, जिगन्धयिषणम्
गन्धयित्वा, जिगन्धयिषित्वा
विगन्ध्य, विजिगन्धयिष्य
गन्धम् २, गन्धयित्वा २, जिगन्धयिषम्
जिगन्धयिषित्वा २। 6
प्रासङ्गिक्यः
01
=>
(३७५)
02
=>
(१०-चुरादिः-१६८५। सक। सेट्। आत्म।)
03
=>
[[१। ‘आकुस्मादात्मनेपदिनः’ (गणसूत्रं चुरादौ) इत्यात्मनेपदमेव। तेन शानच्।]]
04
=>
[[२। ‘पूर्बवत् सनः’ (१-३-६२) इति सन्नन्तादपि आत्मनेपदमेव।]]
05
=>
[[B। ‘प्रस्पाश्य मुष्टिमभितर्जयते प्रभर्त्स्यः मल्लो विबस्तयिषुरेनमगन्धनीयम्। किष्क्येत निष्कृपमनिष्कितकान्तिरेष बालोऽमुना नृपतिलालनयाऽद्य कष्टम्।।’ धा। का। ३-३४।]]
06
=>
[पृष्ठम्०३६९+ २७]
1 {@“दुःख तत्क्रियायाम्”@} 2 अदन्तः।
अत्र तत्क्रिया = दुःखनम्
दुःखानुकूलव्यापार इत्यर्थः।
‘तत्क्रिया तदनु- भवः।’ इति धा।
का।
व्याख्याने 3।
‘प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च’ 4 इत्यस्य विवरण- रूपोऽयं धातुः।
दुःखशब्दात् ‘तत् करोति, तदाचष्टे, तेनाक्रामति’ 5 इत्येतेष्वर्थेषु णिज्भवति।
‘सनाद्यन्ता धातवः’ 6 इति धातुसंज्ञा।
अतो लोपे, उपधावृद्धिनिषेधे रूपाणि भवन्ति।
तद्यथा-- दुःखकः-खिका, दुदुःखयिषकः-षिका, दुःखयिता-त्री, दुदुःखयिषिता-त्री
दुःखयन्-न्ती, दुदुःखयिषन्-न्ती, दुःखयिष्यन्-न्ती-ती, दुदुःखयिषिष्यन्- न्ती-ती, दुःखयमानः, दुदुःखयिषमाणः, दुःखयिष्यमाणः, दुदुःखयि- षिष्यमाणः, दुःक्-दुःखौ-दुःखः, दुःखितम्, दुदुःखयिषितः-तवान्, दुःखः, दुदुःखयिषुः, दुःखयितव्यम्, दुदुःखयिषितव्यम्, दुःखनीयम्, दुदुः- खयिषणीयम्, दुःख्यम्, दुदुःखयिष्यम्
ईषद्दुःखः-दुर्दुःखः-सुदुःखः
दुःख्यमानः, दुदुःखयिष्यमाणः, दुःखः, दुदुःखयिषः, दुःखयितुम्, दुदुः- खयिषितुम्, दुःखना, दुदुःखयिषा
7 दुःखनम्, दुदुःखयिषणम्, दुःखयित्वा, दुदुःखयिषित्वा, प्रदुःख्य, प्रदुदुःखयिष्य, दुःखम् २, दुःखयित्वा २, दुदुःखयिषम् २, दुदुःखयिषित्वा २। इति।
अस्यैव दुःखरूपस्य प्रातिपदिकस्य कण्ड्वादिषु पाठात्, ‘कण्ड्वादिभ्यो यक्’ 8 इति यक्प्रत्यये, यगन्तस्यापि ‘सनाद्यन्ताः’ 9 इति धातुसंज्ञायां दुःख्यन्-न्ती इत्यादीनि रूपाणि भवन्ति।
‘द्विधा हि कण्ड्वादयः, धातवः प्रातिपदिकानिचेति, 10 इत्युक्तत्वात्, कण्ड्वादयोऽस्माभिर्न विशिष्य विलिखिता इति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(८४९)
02
=>
(१०-चुरादिः-१९३०। अक। सेट्। उभ।)
03
=>
(३-६२)
04
=>
(ग। सू। चुरादौ)
05
=>
(ग। सूत्राणि चुरादौ)
06
=>
(३-१-३२)
07
=>
[[आ। ‘देवौधे हृतदुःखने रसयति व्याकर्षदेनं क्षितौ।।’ धा। का। ३-६२।]]
08
=>
(३-१-२७)
09
=>
(३-१-३२)
10
=>
(भाष्यम् १-१-५८)
1 {@“धूञ् कम्पने”@} 2 आधृषीयः।
‘धूनयति धवति धवते, धुनोति धुनुते, धुनाति धुनीते।
धूनोति धूनुते स्युः पदानि कम्पे, विधूनने धुवति।।’ 3 इति देवः।
धूनकः-निका, 4 धावकः-विका, दुधूनयिषकः-षिका
धूनयिता-त्री, दुधूनयिषिता-त्री, धूनयन्-न्ती, दुधूनयिषन्-न्ती
धूनयिष्यन्-न्ती-ती, दुधूनयिषिष्यन्-न्ती-ती
धूनयमानः, दुधूनयिषयमाणः, धूनयिष्यमाणः, दुधूनयि- षिष्यमाणः, धूनितम्-धावितम् 5 -तः-तवान्, दुधूनयिषितः-तवान्
धूनः, दुधूनयिषुः
धूनयितव्यम्, दुधूनयिषितव्यम्
धूननीयम्, दुधूनयिषणीयम्, धून्यम्, दुधूनयिष्यम्
ईषद्धूनः-दुर्धूनः-सुधूनः
धून्यमानः, दुधूनयिष्यमाणः
धूनः, दुधूनयिषः
धूनयितुम्, दुधूनयिषितुम्
धूनना, दुधूनयिषा
धूननम्, दुधूनयिषणम्, धूनयित्वा, दुधूनयिषित्वा, प्रधून्य, प्रदुधूनयिष्य, धूनम् -धूनयित्वा २, दुधूनयिषम्
दुधूनयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(९०८)
02
=>
(१०-चुरादिः-१८३६। अक। सेट्। उभ।)
03
=>
(श्लो। २६)
04
=>
[[१। ‘धूञ्प्रीञोर्नुग् वक्तव्यः’ (वा। ७-३-३७) इत्यत्र प्रीञा साहचर्यात् क्र्यादेरेव ग्रहणमिति पक्षे, ‘हेतुमण्ण्यन्तादेव नुगागमः, तु स्वार्थण्यन्तात्’ इति पर्यव- सानात्, अस्य धातोः स्वार्थण्यन्तत्वात् नुगभावे रूपमेवम्। एवमेव तृजादिष्वपि। अत्र पक्षे धावयिता-त्री, इत्यादीनि रूपाणि ज्ञेयानि।]]
05
=>
[[आ। ‘कूटाद्येषु हतेषु धावितमतिष्वन्येषु धावत्सु स्वैरं तत्र जनान् प्रयन् विगलितश्रन्थान् कचान् ग्रन्थयन्।।’ धा। का। ३। ५१।]]