| YouTube Channel

षिधू (SidhU)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सिध्
मूलधातुः:
षिधू
धात्वर्थः:
शास्त्रे, माङ्गल्ये
गणः:
भ्वादिः
कर्मकत्वं:
माङ्गल्ये अकर्मकः, शास्त्रे सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
परस्मैपदी
रूपम्:
सेधति
अनुबन्धादिविशेषः:
ऊदित्
धातुप्रदीपः
Sanskrit
षिधूँ षिधू शास्त्रे, माङ्गल्ये
- शासनं शास्रम् ।सेधति सिषेध ऊदित्त्वादिड्विकल्पः सेधिता सिद्धा सेधित्वा सिधित्वा सिध्वा क्रादिनियमात् (7/2/13) प्रत्युज्जीवितस्येटो बलीयस्त्वमिष्यते तेन स्वरतिसूतिसूयतिधूञू दितो वा (7/2/44) इति प्राप्तस्य विकल्पस्यापवादो नित्यमिडागमो भवति-सिषिधिव, सिषिधिम अल्पत्वाद्धकारान्तयोर्दकारान्तेभ्यः पूर्वं निर्देशः प्रथमं हि लघुरुपदिश्यते ।। 47 ।।
क्षीरतरङ्गिणी
Sanskrit
षिधूँ षिधू शास्त्रे, माङ्गल्ये
(अर्थविवरणम्) शास्त्रं शात्रविषयं शासनम्
(अर्थविवरणम्) माङ्गल्यं मङ्गलविषया क्रिया
अत्रैवायमूदित्, अर्थान्नरे पुनरुदित् ऊदित्त्वात् स्वरतिसूति (7244) इति वेट् - सेद्धा पुत्रं, शासितेत्यर्थः, सेधिता लिटि क्रादिनियमान् नित्यमिट् सिषिधिव वस्वेकाजाद्घासाम् (7267) इति क्वसोर्नियमादिड् नास्ति - सिषिद्ध्वान् दिवादौ षिधु संराद्धौ (481) अनिट् - सिध्यति, सेद्धा 46
धातुवृत्तिः
Sanskrit
षिधूँ षिधू (अर्थः) शास्त्रे, माङ्गल्ये
(अर्थविवरणम्) शास्त्रं शासनमिति
मेत्रेयशाकटायनौ, शिष्टावित्येव चन्द्रः शास्त्रं शास्त्रविषयं शासनम् (अर्थविवरणम्) माङ्गल्यं मङ्गलक्रियेति
क्षीरस्वामी एवं तरङ्गिण्यामपि ( सेधतीत्यादि ) पूर्ववत् विशेषस्तूदित्त्वाद्वलादावार्धधातुके "स्वरतिसूतिसूयतिधूञूदितो वा'' इति इटो विकल्पनात् ( सेद्धा सेत्स्यति असैतृसीद् ) इति, लुङि "वदव्रज'' इति वृद्धिः तथा ऽऽशीर्लिङ्लुङोरात्मनेपदेषु ( सूत्रम्) लिङ्सिचावात्मनेपदेषु (इति सूत्रम्) इक्समीपाद्धलः परौ ज्ञलादी लिङ्सिचावात्मनेपदेषु किताविति कित्त्वादगुणः, ( व्यतिषित्सीष्ट व्यत्यषिद्ध्वम् व्यत्यषित्सातामित्यादि ) भवति क्त्वासनोश्चेडभावे ( सिद्धा सिषित्सति ) ( सूत्रम्) हलन्ताच्च (इति सूत्रम्) इति इक्समीपाद्धलः परस्य ज्ञलादेः सनः कित्त्वान्न गुणः निष्ठायां "यस्य विभाषा'' इति इण्निषेधात्सिद्धमिति भवति अत्र मैत्रेयसंमताकारौ ( सूत्रम्) कृसृभृस्तुद्रुस्त्रुश्रुवो लिटि (इति सूत्रम्) क्रादयएव लिठ्यनिटस्ततोन्ये लिटि सेडित्यनेन नियमेन पुरस्तात्प्रतिषेधकाण्डस्यारम्भात् तस्यतदाश्रयस्य नियमस्य बलीयस्त्वमिति यावान्कश्चिदिडभावः प्रतिषेधनिबन्धनो वा विकल्पनिबन्धनो वा सर्वो बाध्यत इत्युदिल्लक्षणं विकल्पं बाधित्वालिटि क्रादिनियमान्नित्यमिडिति ( सिषेधिथ ) इत्याहतुः तथा "अचस्तास्वत्'' इत्यत्र वृत्तिकारो नित्यग्रहणंकिं विधोत, तासौ विभाषितेटस्थलि नित्यमिडागमो भवतीति अत्र न्यासे "स्वरी'' सूत्रेण धूञ इड्विकल्पः, तस्य नित्यग्रहणाद्विभाषितेटस्थलि नित्यमिडागमो भवतीति हरदत्तस्तु नित्यमिडागमो भवतीति वृत्तिमुपादाय यावान् कश्चिदिभावः प्रतिषेधनिबन्धनो विकल्पनिबन्धनो वा सर्वः क्रादिसूत्रेण नियम्यत इत्यस्मिन्पक्ष इति भावः यदा तु प्रतिषेधाधिकारेण क्रादीनामेव लिटीण् भवतीति नियमात् प्रतिषेध एव सर्वो निवर्त्त्यते, "स्वरति'' इत्यादि सुत्रेण विकल्पो भवत्येवेति पक्षस्तदा विदुधोथ, विदुधविथेत्युभयं भवतीति अस्यायमभिप्रायः अत्र वृञ्व्यतिरिक्तानां क्रादीनाम् ( सूत्रम्) एकाच उपदेशेनुदात्तात् (इति सूत्रम्) एकाज् यो क्षातुरुपदे शे ऽनुदातृतस्तस्मात्परस्यवलादेरार्धाधातुकस्येणनेति प्रकृत्याश्रयः प्रतिषेध सिद्धः, वृङ्वृञोस्तूगन्तत्वात् "श्रयुकः किति'' इति प्रत्ययाश्रय इति सिद्धे सत्यारभ्यमाणेनोनन नियमेन तुल्यजातीयानां क्रादिव्यतिरिक्तानां येषां प्रकृत्याश्रयः प्रत्ययाश्रयो वा निषेधः प्राप्तस्तेषामेवेट् प्राप्यत इति पुरस्तात्प्रतिरिक्तानां येषां प्रकृत्याश्रयः प्रत्ययाश्रयो वा निषेधः प्राप्तस्तेषामेवेट् प्राप्यत इति पुरस्तात्प्रतिषेधकाण्डारम्भस्य प्रयोजनं स्मृत्वा स्मृत इत्यादौ परमपि स्वरत्यादिविकल्पं बाधित्वा "श्युकः कित्'' इति निषेधप्रवृत्तिरिति तेनोक्तम् हरदत्तानुवादी रामदेव ( 1 ) ( 1 ) वेदेति पाठः कुत्रचित् मिश्रोपि क्रादिसूत्रे ऽनुदात्तोपदेशानामत्र प्रकृत्याश्रयः प्रतिषेधः कृङ्वृञोस्तु प्रत्ययाश्रयस्तदुभयस्याप्ययं नियम इति वृत्तिग्रन्थोप्यत्रैवानुकूलः अत्र मते ( सिषेधिथ सिषेद्ध सिषिधिव सिषिध्वेत्यादि ) भवति एतदनन्तरं मृ मरण इत्याभरणे पठ्यते, तद्भाष्यविरोधादुपेक्ष्यम् यद्ययं स्याविरोधादुपेक्ष्यम् यद्ययं स्यात्कथं "व्यत्ययो बहुलम्'' इत्यत्र मरति, नम्रियत इति प्राप्त इति ब्रूयात् अयमनूदित्संराध्यर्थे दिवादौ 48
कृदन्तरूपमाला
Sanskrit
1 {@“षिधू शास्त्रे माङ्गल्ये च”@} 2 देवश्लोकः सेधतौ द्रष्टव्यः।
ऊदित्त्वादिड्विकल्पः।
शास्त्रम् = शासनम्, माङ्गल्यम् = मङ्गलार्थक्रिया।
समस्तान्यपि रूपाणि भौवादिकसेधतिवत् 3 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८३७)
02
=>
(१-भ्वादिः-४८। अक। सेट्। पर।)
03
=>
(१८३५)